This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे तृतीयः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe tṛtīyaḥ sargaḥ ..2..
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः॥ १॥
तेषाम् अञ्जलि-पद्मानि प्रगृहीतानि सर्वशस्।प्रतिगृह्य अब्रवीत् राजा तेभ्यः प्रिय-हितम् वचः॥ १॥
teṣām añjali-padmāni pragṛhītāni sarvaśas.pratigṛhya abravīt rājā tebhyaḥ priya-hitam vacaḥ.. 1..
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ॥ २॥
अहो अस्मि परम-प्रीतः प्रभावः च अतुलः मम।यत् मे ज्येष्ठम् प्रियम् पुत्रम् यौवराज्य-स्थम् इच्छथ॥ २॥
aho asmi parama-prītaḥ prabhāvaḥ ca atulaḥ mama.yat me jyeṣṭham priyam putram yauvarājya-stham icchatha.. 2..
इति प्रत्यर्चितान् राजा ब्राह्मणानिदमब्रवीत्।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्॥ ३॥
इति प्रत्यर्चितान् राजा ब्राह्मणान् इदम् अब्रवीत्।वसिष्ठम् वामदेवम् च तेषाम् एव उपशृण्वताम्॥ ३॥
iti pratyarcitān rājā brāhmaṇān idam abravīt.vasiṣṭham vāmadevam ca teṣām eva upaśṛṇvatām.. 3..
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्॥ ४॥
चैत्रः श्रीमान् अयम् मासः पुण्यः पुष्पित-काननः।यौवराज्याय रामस्य सर्वम् एव उपकल्प्यताम्॥ ४॥
caitraḥ śrīmān ayam māsaḥ puṇyaḥ puṣpita-kānanaḥ.yauvarājyāya rāmasya sarvam eva upakalpyatām.. 4..
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्।शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः॥ ५॥
राज्ञः तु उपरते वाक्ये जन-घोषः महान् अभूत्।शनैस् तस्मिन् प्रशान्ते च जन-घोषे जनाधिपः॥ ५॥
rājñaḥ tu uparate vākye jana-ghoṣaḥ mahān abhūt.śanais tasmin praśānte ca jana-ghoṣe janādhipaḥ.. 5..
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्।अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्॥ ६॥
वसिष्ठम् मुनि-शार्दूलम् राजा वचनम् अब्रवीत्।अभिषेकाय रामस्य यत् कर्म स परिच्छदम्॥ ६॥
vasiṣṭham muni-śārdūlam rājā vacanam abravīt.abhiṣekāya rāmasya yat karma sa paricchadam.. 6..
तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि।तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः॥ ७॥
तत् अद्य भगवन् सर्वम् आज्ञापयितुम् अर्हसि।तत् श्रुत्वा भूमिपालस्य वसिष्ठः मुनि-सत्तमः॥ ७॥
tat adya bhagavan sarvam ājñāpayitum arhasi.tat śrutvā bhūmipālasya vasiṣṭhaḥ muni-sattamaḥ.. 7..
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्।सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि॥ ८॥
आदिदेश अग्रतस् राज्ञः स्थितान् युक्तान् कृताञ्जलीन्।सुवर्ण-आदीनि रत्नानि बलीन् सर्व-ओषधीः अपि॥ ८॥
ādideśa agratas rājñaḥ sthitān yuktān kṛtāñjalīn.suvarṇa-ādīni ratnāni balīn sarva-oṣadhīḥ api.. 8..
शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी।अहतानि च वासांसि रथं सर्वायुधान्यपि॥ ९॥
शुक्ल-माल्यानि लाजान् च पृथक् च मधु-सर्पिषी।अहतानि च वासांसि रथम् सर्व-आयुधानि अपि॥ ९॥
śukla-mālyāni lājān ca pṛthak ca madhu-sarpiṣī.ahatāni ca vāsāṃsi ratham sarva-āyudhāni api.. 9..
चतुरङ्गबलं चैव गजं च शुभलक्षणम्।चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्॥ १०॥
चतुर्-अङ्ग-बलम् च एव गजम् च शुभ-लक्षणम्।चामर-व्यजने च उभे ध्वजम् छत्रम् च पाण्डुरम्॥ १०॥
catur-aṅga-balam ca eva gajam ca śubha-lakṣaṇam.cāmara-vyajane ca ubhe dhvajam chatram ca pāṇḍuram.. 10..
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्।हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च॥ ११॥
शतम् च शातकुम्भानाम् कुम्भानाम् अग्नि-वर्चसाम्।हिरण्य-शृङ्गम् ऋषभम् समग्रम् व्याघ्र-चर्म च॥ ११॥
śatam ca śātakumbhānām kumbhānām agni-varcasām.hiraṇya-śṛṅgam ṛṣabham samagram vyāghra-carma ca.. 11..
यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्।उपस्थापयत प्रातरग्न्यगारे महीपतेः॥ १२॥
यत् च अन्यत् किंचिद् एष्टव्यम् तत् सर्वम् उपकल्प्यताम्।उपस्थापयत प्रातर् अग्न्यगारे महीपतेः॥ १२॥
yat ca anyat kiṃcid eṣṭavyam tat sarvam upakalpyatām.upasthāpayata prātar agnyagāre mahīpateḥ.. 12..
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः॥ १३॥
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।चन्दन-स्रग्भिः अर्च्यन्ताम् धूपैः च घ्राण-हारिभिः॥ १३॥
antaḥpurasya dvārāṇi sarvasya nagarasya ca.candana-sragbhiḥ arcyantām dhūpaiḥ ca ghrāṇa-hāribhiḥ.. 13..
प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्।द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्॥ १४॥
प्रशस्तम् अन्नम् गुणवत् दधि-क्षीर-उपसेचनम्।द्विजानाम् शत-साहस्रम् यत् प्रकाम-मलम् भवेत्॥ १४॥
praśastam annam guṇavat dadhi-kṣīra-upasecanam.dvijānām śata-sāhasram yat prakāma-malam bhavet.. 14..
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥ १५॥
सत्कृत्य द्विजमुख्यानाम् श्वस् प्रभाते प्रदीयताम्।घृतम् दधि च लाजाः च दक्षिणाः च अपि पुष्कलाः॥ १५॥
satkṛtya dvijamukhyānām śvas prabhāte pradīyatām.ghṛtam dadhi ca lājāḥ ca dakṣiṇāḥ ca api puṣkalāḥ.. 15..
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च॥ १६॥
सूर्ये अभ्युदित-मात्रे श्वस् भविता स्वस्तिवाचनम्।ब्राह्मणाः च निमन्त्र्यन्ताम् कल्प्यन्ताम् आसनानि च॥ १६॥
sūrye abhyudita-mātre śvas bhavitā svastivācanam.brāhmaṇāḥ ca nimantryantām kalpyantām āsanāni ca.. 16..
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्।सर्वे च तालापचरा गणिकाश्च स्वलंकृताः॥ १७॥
आबध्यन्ताम् पताकाः च राजमार्गः च सिच्यताम्।सर्वे च ताल-अपचराः गणिकाः च सु अलंकृताः॥ १७॥
ābadhyantām patākāḥ ca rājamārgaḥ ca sicyatām.sarve ca tāla-apacarāḥ gaṇikāḥ ca su alaṃkṛtāḥ.. 17..
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः।देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः॥ १८॥
कक्ष्याम् द्वितीयाम् आसाद्य तिष्ठन्तु नृप-वेश्मनः।देवायतन-चैत्येषु स अन्न-भक्ष्याः स दक्षिणाः॥ १८॥
kakṣyām dvitīyām āsādya tiṣṭhantu nṛpa-veśmanaḥ.devāyatana-caityeṣu sa anna-bhakṣyāḥ sa dakṣiṇāḥ.. 18..
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्।दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः॥ १९॥
उपस्थापयितव्याः स्युः माल्य-योग्याः पृथक् पृथक्।दीर्घ-असि-बद्ध-गोधाः च संनद्धाः मृष्ट-वाससः॥ १९॥
upasthāpayitavyāḥ syuḥ mālya-yogyāḥ pṛthak pṛthak.dīrgha-asi-baddha-godhāḥ ca saṃnaddhāḥ mṛṣṭa-vāsasaḥ.. 19..
महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्।एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ॥ २०॥
महा-राज-अङ्गनम् शूराः प्रविशन्तु महा-उदयम्।एवम् व्यादिश्य विप्रौ तु क्रियाः तत्र विनिष्ठितौ॥ २०॥
mahā-rāja-aṅganam śūrāḥ praviśantu mahā-udayam.evam vyādiśya viprau tu kriyāḥ tatra viniṣṭhitau.. 20..
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च।कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्॥ २१॥
चक्रतुः च एव यत् शेषम् पार्थिवाय निवेद्य च।कृतम् इति एव च अब्रूताम् अभिगम्य जगत्पतिम्॥ २१॥
cakratuḥ ca eva yat śeṣam pārthivāya nivedya ca.kṛtam iti eva ca abrūtām abhigamya jagatpatim.. 21..
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ।ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्॥ २२॥
यथा उक्त-वचनम् प्रीतौ हर्ष-युक्तौ द्विजोत्तमौ।ततस् सुमन्त्रम् द्युतिमान् राजा वचनम् अब्रवीत्॥ २२॥
yathā ukta-vacanam prītau harṣa-yuktau dvijottamau.tatas sumantram dyutimān rājā vacanam abravīt.. 22..
रामः कृतात्मा भवता शीघ्रमानीयतामिति।स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्॥ २३॥
रामः कृत-आत्मा भवता शीघ्रम् आनीयताम् इति।स तथा इति प्रतिज्ञाय सुमन्त्रः राज-शासनात्॥ २३॥
rāmaḥ kṛta-ātmā bhavatā śīghram ānīyatām iti.sa tathā iti pratijñāya sumantraḥ rāja-śāsanāt.. 23..
रामं तत्रानयांचक्रे रथेन रथिनां वरम्।अथ तत्र सहासीनास्तदा दशरथं नृपम्॥ २४॥
रामम् तत्र आनयांचक्रे रथेन रथिनाम् वरम्।अथ तत्र सह आसीनाः तदा दशरथम् नृपम्॥ २४॥
rāmam tatra ānayāṃcakre rathena rathinām varam.atha tatra saha āsīnāḥ tadā daśaratham nṛpam.. 24..
प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः।म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः॥ २५॥
प्राच्य-उदीच्या प्रतीच्याः च दाक्षिणात्याः च भूमिपाः।म्लेच्छाः च आर्याः च ये च अन्ये वन-शैल-अन्त-वासिनः॥ २५॥
prācya-udīcyā pratīcyāḥ ca dākṣiṇātyāḥ ca bhūmipāḥ.mlecchāḥ ca āryāḥ ca ye ca anye vana-śaila-anta-vāsinaḥ.. 25..
उपासांचक्रिरे सर्वे तं देवा वासवं यथा।तेषां मध्ये स राजर्षिर्मरुतामिव वासवः॥ २६॥
उपासांचक्रिरे सर्वे तम् देवाः वासवम् यथा।तेषाम् मध्ये स राजर्षिः मरुताम् इव वासवः॥ २६॥
upāsāṃcakrire sarve tam devāḥ vāsavam yathā.teṣām madhye sa rājarṣiḥ marutām iva vāsavaḥ.. 26..
प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्।गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्॥ २७॥
प्रासाद-स्थः दशरथः ददर्श आयान्तम् आत्मजम्।गन्धर्वराज-प्रतिमम् लोके विख्यात-पौरुषम्॥ २७॥
prāsāda-sthaḥ daśarathaḥ dadarśa āyāntam ātmajam.gandharvarāja-pratimam loke vikhyāta-pauruṣam.. 27..
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्।चन्द्रकान्ताननं राममतीव प्रियदर्शनम्॥ २८॥
दीर्घ-बाहुम् महासत्त्वम् मत्त-मातङ्ग-गामिनम्।चन्द्रकान्त-आननम् रामम् अतीव प्रिय-दर्शनम्॥ २८॥
dīrgha-bāhum mahāsattvam matta-mātaṅga-gāminam.candrakānta-ānanam rāmam atīva priya-darśanam.. 28..
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्।घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः॥ २९॥
रूप-औदार्य-गुणैः पुंसाम् दृष्टि-चित्त-अपहारिणम्।घर्म-अभितप्ताः पर्जन्यम् ह्लादयन्तम् इव प्रजाः॥ २९॥
rūpa-audārya-guṇaiḥ puṃsām dṛṣṭi-citta-apahāriṇam.gharma-abhitaptāḥ parjanyam hlādayantam iva prajāḥ.. 29..
न ततर्प समायान्तं पश्यमानो नराधिपः।अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्॥ ३०॥
न ततर्प समायान्तम् पश्यमानः नराधिपः।अवतार्य सुमन्त्रः तु राघवम् स्यन्दन-उत्तमात्॥ ३०॥
na tatarpa samāyāntam paśyamānaḥ narādhipaḥ.avatārya sumantraḥ tu rāghavam syandana-uttamāt.. 30..
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्।स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः॥ ३१॥
पितुः समीपम् गच्छन्तम् प्राञ्जलिः पृष्ठतस् अन्वगात्।स तम् कैलास-शृङ्ग-आभम् प्रासादम् रघुनन्दनः॥ ३१॥
pituḥ samīpam gacchantam prāñjaliḥ pṛṣṭhatas anvagāt.sa tam kailāsa-śṛṅga-ābham prāsādam raghunandanaḥ.. 31..
आरुरोह नृपं द्रष्टुं सहसा तेन राघवः।स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके॥ ३२॥
आरुरोह नृपम् द्रष्टुम् सहसा तेन राघवः।स प्राञ्जलिः अभिप्रेत्य प्रणतः पितुः अन्तिके॥ ३२॥
āruroha nṛpam draṣṭum sahasā tena rāghavaḥ.sa prāñjaliḥ abhipretya praṇataḥ pituḥ antike.. 32..
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः।तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः॥ ३३॥
नाम स्वम् श्रावयन् रामः ववन्दे चरणौ पितुः।तम् दृष्ट्वा प्रणतम् पार्श्वे कृत-अञ्जलि-पुटम् नृपः॥ ३३॥
nāma svam śrāvayan rāmaḥ vavande caraṇau pituḥ.tam dṛṣṭvā praṇatam pārśve kṛta-añjali-puṭam nṛpaḥ.. 33..
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्।तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्॥ ३४॥
गृह्य अञ्जलौ समाकृष्य सस्वजे प्रियम् आत्मजम्।तस्मै च अभ्युद्यतम् सम्यक् मणि-काञ्चन-भूषितम्॥ ३४॥
gṛhya añjalau samākṛṣya sasvaje priyam ātmajam.tasmai ca abhyudyatam samyak maṇi-kāñcana-bhūṣitam.. 34..
दिदेश राजा रुचिरं रामाय परमासनम्।तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः॥ ३५॥
दिदेश राजा रुचिरम् रामाय परम-आसनम्।तथा आसन-वरम् प्राप्य व्यदीपयत राघवः॥ ३५॥
dideśa rājā ruciram rāmāya parama-āsanam.tathā āsana-varam prāpya vyadīpayata rāghavaḥ.. 35..
स्वयैव प्रभया मेरुमुदये विमलो रविः।तेन विभ्राजिता तत्र सा सभापि व्यरोचत॥ ३६॥
स्वया एव प्रभया मेरुम् उदये विमलः रविः।तेन विभ्राजिता तत्र सा सभा अपि व्यरोचत॥ ३६॥
svayā eva prabhayā merum udaye vimalaḥ raviḥ.tena vibhrājitā tatra sā sabhā api vyarocata.. 36..
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना।तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्॥ ३७॥
विमल-ग्रह-नक्षत्रा शारदी द्यौः इव इन्दुना।तम् पश्यमानः नृपतिः तुतोष प्रियम् आत्मजम्॥ ३७॥
vimala-graha-nakṣatrā śāradī dyauḥ iva indunā.tam paśyamānaḥ nṛpatiḥ tutoṣa priyam ātmajam.. 37..
अलंकृतमिवात्मानमादर्शतलसंस्थितम्।स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः॥ ३८॥
अलंकृतम् इव आत्मानम् आदर्श-तल-संस्थितम्।स तम् सु स्थितम् आभाष्य पुत्रम् पुत्रवताम् वरः॥ ३८॥
alaṃkṛtam iva ātmānam ādarśa-tala-saṃsthitam.sa tam su sthitam ābhāṣya putram putravatām varaḥ.. 38..
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः।ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः॥ ३९॥
उवाच इदम् वचः राजा देव-इन्द्रम् इव कश्यपः।ज्येष्ठायाम् असि मे पत्न्याम् सदृश्याम् सदृशः सुतः॥ ३९॥
uvāca idam vacaḥ rājā deva-indram iva kaśyapaḥ.jyeṣṭhāyām asi me patnyām sadṛśyām sadṛśaḥ sutaḥ.. 39..
उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः।त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः॥ ४०॥
उत्पन्नः त्वम् गुण-ज्येष्ठः मम राम-आत्मजः प्रियः।त्वया यतस् प्रजाः च इमाः स्व-गुणैः अनुरञ्जिताः॥ ४०॥
utpannaḥ tvam guṇa-jyeṣṭhaḥ mama rāma-ātmajaḥ priyaḥ.tvayā yatas prajāḥ ca imāḥ sva-guṇaiḥ anurañjitāḥ.. 40..
तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि।कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति॥ ४१॥
तस्मात् त्वम् पुष्य-योगेन यौवराज्यम् अवाप्नुहि।कामतः त्वम् प्रकृत्या एव निर्णीतः गुणवान् इति॥ ४१॥
tasmāt tvam puṣya-yogena yauvarājyam avāpnuhi.kāmataḥ tvam prakṛtyā eva nirṇītaḥ guṇavān iti.. 41..
गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्।भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः॥ ४२॥
गुणवति अपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्।भूयस् विनयम् आस्थाय भव नित्यम् जित-इन्द्रियः॥ ४२॥
guṇavati api tu snehāt putra vakṣyāmi te hitam.bhūyas vinayam āsthāya bhava nityam jita-indriyaḥ.. 42..
कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च।परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा॥ ४३॥
काम-क्रोध-समुत्थानि त्यजस्व व्यसनानि च।परोक्षया वर्तमानः वृत्त्या प्रत्यक्षया तथा॥ ४३॥
kāma-krodha-samutthāni tyajasva vyasanāni ca.parokṣayā vartamānaḥ vṛttyā pratyakṣayā tathā.. 43..
अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय।कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून्॥ ४४॥
अमात्य-प्रभृतीः सर्वाः प्रजाः च एव अनुरञ्जय।कोष्ठागार-आयुधागारैः कृत्वा संनिचयान् बहून्॥ ४४॥
amātya-prabhṛtīḥ sarvāḥ prajāḥ ca eva anurañjaya.koṣṭhāgāra-āyudhāgāraiḥ kṛtvā saṃnicayān bahūn.. 44..
इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्।तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः॥ ४५॥
इष्ट-अनुरक्त-प्रकृतिः यः पालयति मेदिनीम्।तस्य नन्दन्ति मित्राणि लब्ध्वा अमृतम् इव अमराः॥ ४५॥
iṣṭa-anurakta-prakṛtiḥ yaḥ pālayati medinīm.tasya nandanti mitrāṇi labdhvā amṛtam iva amarāḥ.. 45..
तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर।तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः॥ ४६॥
तस्मात् पुत्र त्वम् आत्मानम् नियम्य एवम् समाचर।तत् श्रुत्वा सुहृदः तस्य रामस्य प्रिय-कारिणः॥ ४६॥
tasmāt putra tvam ātmānam niyamya evam samācara.tat śrutvā suhṛdaḥ tasya rāmasya priya-kāriṇaḥ.. 46..
त्वरिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन्।सा हिरण्यं च गाश्चैव रत्नानि विविधानि च॥ ४७॥
त्वरिताः शीघ्रम् आगत्य कौसल्यायै न्यवेदयन्।सा हिरण्यम् च गाः च एव रत्नानि विविधानि च॥ ४७॥
tvaritāḥ śīghram āgatya kausalyāyai nyavedayan.sā hiraṇyam ca gāḥ ca eva ratnāni vividhāni ca.. 47..
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा।अथाभिवाद्य राजानं रथमारुह्य राघवः।ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः॥ ४८॥
व्यादिदेश प्रिय-आख्येभ्यः कौसल्या प्रमदा-उत्तमा।अथ अभिवाद्य राजानम् रथम् आरुह्य राघवः।ययौ स्वम् द्युतिमत् वेश्म जन-ओघैः प्रतिपूजितः॥ ४८॥
vyādideśa priya-ākhyebhyaḥ kausalyā pramadā-uttamā.atha abhivādya rājānam ratham āruhya rāghavaḥ.yayau svam dyutimat veśma jana-oghaiḥ pratipūjitaḥ.. 48..
ते चापि पौरा नृपतेर्वचस्त- च्छ्रुत्वा तदा लाभमिवेष्टमाशु।नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः॥ ४९॥
ते च अपि पौराः नृपतेः वचः तत् श्रुत्वा तदा लाभम् इव इष्टम् आशु।नरेन्द्रम् आमन्त्र्य गृहाणि गत्वा देवान् समानर्चुः अभिप्रहृष्टाः॥ ४९॥
te ca api paurāḥ nṛpateḥ vacaḥ tat śrutvā tadā lābham iva iṣṭam āśu.narendram āmantrya gṛhāṇi gatvā devān samānarcuḥ abhiprahṛṣṭāḥ.. 49..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे तृतीयः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe tṛtīyaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In