This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe triṃśaḥ sargaḥ ..2..
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा।वनवासनिमित्तार्थं भर्तारमिदमब्रवीत्॥ १॥
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा।वन-वास-निमित्त-अर्थम् भर्तारम् इदम् अब्रवीत्॥ १॥
sāntvyamānā tu rāmeṇa maithilī janakātmajā.vana-vāsa-nimitta-artham bhartāram idam abravīt.. 1..
सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्।प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्॥ २॥
सा तम् उत्तम-संविग्ना सीता विपुल-वक्षसम्।प्रणयात् च अभिमानात् च परिचिक्षेप राघवम्॥ २॥
sā tam uttama-saṃvignā sītā vipula-vakṣasam.praṇayāt ca abhimānāt ca paricikṣepa rāghavam.. 2..
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः।राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्॥ ३॥
किम् त्वा अमन्यत वैदेहः पिता मे मिथिला-अधिपः।राम जामातरम् प्राप्य स्त्रियम् पुरुष-विग्रहम्॥ ३॥
kim tvā amanyata vaidehaḥ pitā me mithilā-adhipaḥ.rāma jāmātaram prāpya striyam puruṣa-vigraham.. 3..
अनृतं बत लोकोऽयमज्ञानाद् यदि वक्ष्यति।तेजो नास्ति परं रामे तपतीव दिवाकरे॥ ४॥
अनृतम् बत लोकः अयम् अज्ञानात् यदि वक्ष्यति।तेजः न अस्ति परम् रामे तपति इव दिवाकरे॥ ४॥
anṛtam bata lokaḥ ayam ajñānāt yadi vakṣyati.tejaḥ na asti param rāme tapati iva divākare.. 4..
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते।यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम्॥ ५॥
किम् हि कृत्वा विषण्णः त्वम् कुतस् वा भयम् अस्ति ते।यत् परित्यक्तु-कामः त्वम् माम् अनन्य-परायणाम्॥ ५॥
kim hi kṛtvā viṣaṇṇaḥ tvam kutas vā bhayam asti te.yat parityaktu-kāmaḥ tvam mām ananya-parāyaṇām.. 5..
द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम्।सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्॥ ६॥
द्युमत्सेन-सुतम् वीरम् सत्यवन्तम् अनुव्रताम्।सावित्रीम् इव माम् विद्धि त्वम् आत्म-वश-वर्तिनीम्॥ ६॥
dyumatsena-sutam vīram satyavantam anuvratām.sāvitrīm iva mām viddhi tvam ātma-vaśa-vartinīm.. 6..
न त्वहं मनसा त्वन्यं द्रष्टास्मि त्वदृतेऽनघ।त्वया राघव गच्छेयं यथान्या कुलपांसनी॥ ७॥
न तु अहम् मनसा तु अन्यम् द्रष्टास्मि त्वत् ऋते अनघ।त्वया राघव गच्छेयम् यथा अन्या कुल-पांसनी॥ ७॥
na tu aham manasā tu anyam draṣṭāsmi tvat ṛte anagha.tvayā rāghava gaccheyam yathā anyā kula-pāṃsanī.. 7..
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्।शैलूष इव मां राम परेभ्यो दातुमिच्छसि॥ ८॥
स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम्।शैलूषः इव माम् राम परेभ्यः दातुम् इच्छसि॥ ८॥
svayam tu bhāryām kaumārīm ciram adhyuṣitām satīm.śailūṣaḥ iva mām rāma parebhyaḥ dātum icchasi.. 8..
यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे।त्वं तस्य भव वश्यश्च विधेयश्च सदानघ॥ ९॥
यस्य पथ्यंचराम् आत्थ यस्य च अर्थे अवरुध्यसे।त्वम् तस्य भव वश्यः च विधेयः च सदा अनघ॥ ९॥
yasya pathyaṃcarām āttha yasya ca arthe avarudhyase.tvam tasya bhava vaśyaḥ ca vidheyaḥ ca sadā anagha.. 9..
स मामनादाय वनं न त्वं प्रस्थितुमर्हसि।तपो वा यदि वारण्यं स्वर्गो वा स्यात् त्वया सह॥ १०॥
स माम् अन् आदाय वनम् न त्वम् प्रस्थितुम् अर्हसि।तपः वा यदि वा अरण्यम् स्वर्गः वा स्यात् त्वया सह॥ १०॥
sa mām an ādāya vanam na tvam prasthitum arhasi.tapaḥ vā yadi vā araṇyam svargaḥ vā syāt tvayā saha.. 10..
न च मे भविता तत्र कश्चित् पथि परिश्रमः।पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव॥ ११॥
न च मे भविता तत्र कश्चिद् पथि परिश्रमः।पृष्ठतस् तव गच्छन्त्याः विहार-शयनेषु इव॥ ११॥
na ca me bhavitā tatra kaścid pathi pariśramaḥ.pṛṣṭhatas tava gacchantyāḥ vihāra-śayaneṣu iva.. 11..
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः।तूलाजिनसमस्पर्शा मार्गे मम सह त्वया॥ १२॥
कुश-काश-शर-इषीकाः ये च कण्टकिनः द्रुमाः।तूल-अजिन-सम-स्पर्शाः मार्गे मम सह त्वया॥ १२॥
kuśa-kāśa-śara-iṣīkāḥ ye ca kaṇṭakinaḥ drumāḥ.tūla-ajina-sama-sparśāḥ mārge mama saha tvayā.. 12..
महावातसमुद्भूतं यन्मामवकरिष्यति।रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम्॥ १३॥
महा-वात-समुद्भूतम् यत् माम् अवकरिष्यति।रजः रमण तत् मन्ये पर-अर्घ्यम् इव चन्दनम्॥ १३॥
mahā-vāta-samudbhūtam yat mām avakariṣyati.rajaḥ ramaṇa tat manye para-arghyam iva candanam.. 13..
शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा।कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः॥ १४॥
शाद्वलेषु यदा शिश्ये वन-अन्तर् वन-गोचरा।कुथ-आस्तरण-युक्तेषु किम् स्यात् सुखतरम् ततस्॥ १४॥
śādvaleṣu yadā śiśye vana-antar vana-gocarā.kutha-āstaraṇa-yukteṣu kim syāt sukhataram tatas.. 14..
पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु।दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम्॥ १५॥
पत्रम् मूलम् फलम् यत् तु अल्पम् वा यदि वा बहु।दास्यसे स्वयम् आहृत्य तत् मे अमृत-रस-उपमम्॥ १५॥
patram mūlam phalam yat tu alpam vā yadi vā bahu.dāsyase svayam āhṛtya tat me amṛta-rasa-upamam.. 15..
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः।आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च॥ १६॥
न मातुः न पितुः तत्र स्मरिष्यामि न वेश्मनः।आर्तवानि उपभुञ्जाना पुष्पाणि च फलानि च॥ १६॥
na mātuḥ na pituḥ tatra smariṣyāmi na veśmanaḥ.ārtavāni upabhuñjānā puṣpāṇi ca phalāni ca.. 16..
न च तत्र ततः किंचिद् द्रष्टुमर्हसि विप्रियम्।मत्कृते न च ते शोको न भविष्यामि दुर्भरा॥ १७॥
न च तत्र ततस् किंचिद् द्रष्टुम् अर्हसि विप्रियम्।मद्-कृते न च ते शोकः न भविष्यामि दुर्भरा॥ १७॥
na ca tatra tatas kiṃcid draṣṭum arhasi vipriyam.mad-kṛte na ca te śokaḥ na bhaviṣyāmi durbharā.. 17..
यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना।इति जानन् परां प्रीतिं गच्छ राम मया सह॥ १८॥
यः त्वया सह स स्वर्गः निरयः यः त्वया विना।इति जानन् पराम् प्रीतिम् गच्छ राम मया सह॥ १८॥
yaḥ tvayā saha sa svargaḥ nirayaḥ yaḥ tvayā vinā.iti jānan parām prītim gaccha rāma mayā saha.. 18..
अथ मामेवमव्यग्रां वनं नैव नयिष्यसे।विषमद्यैव पास्यामि मा वशं द्विषतां गमम्॥ १९॥
अथ माम् एवम् अव्यग्राम् वनम् ना एव नयिष्यसे।विषम् अद्य एव पास्यामि मा वशम् द्विषताम् गमम्॥ १९॥
atha mām evam avyagrām vanam nā eva nayiṣyase.viṣam adya eva pāsyāmi mā vaśam dviṣatām gamam.. 19..
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्।उज्झितायास्त्वया नाथ तदैव मरणं वरम्॥ २०॥
पश्चात् अपि हि दुःखेन मम ना एवा अस्ति जीवितम्।उज्झितायाः त्वया नाथ तदा एव मरणम् वरम्॥ २०॥
paścāt api hi duḥkhena mama nā evā asti jīvitam.ujjhitāyāḥ tvayā nātha tadā eva maraṇam varam.. 20..
इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे।किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता॥ २१॥
इमम् हि सहितुम् शोकम् मुहूर्तम् अपि ना उत्सहे।किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुःखिता॥ २१॥
imam hi sahitum śokam muhūrtam api nā utsahe.kim punar daśa varṣāṇi trīṇi ca ekam ca duḥkhitā.. 21..
इति सा शोकसंतप्ता विलप्य करुणं बहु।चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्॥ २२॥
इति सा शोक-संतप्ता विलप्य करुणम् बहु।चुक्रोश पतिम् आयस्ता भृशम् आलिङ्ग्य स स्वरम्॥ २२॥
iti sā śoka-saṃtaptā vilapya karuṇam bahu.cukrośa patim āyastā bhṛśam āliṅgya sa svaram.. 22..
सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना।चिरसंनियतं बाष्पं मुमोचाग्निमिवारणिः॥ २३॥
सा विद्धा बहुभिः वाक्यैः दिग्धैः इव गज-अङ्गना।चिर-संनियतम् बाष्पम् मुमोच अग्निम् इव अरणिः॥ २३॥
sā viddhā bahubhiḥ vākyaiḥ digdhaiḥ iva gaja-aṅganā.cira-saṃniyatam bāṣpam mumoca agnim iva araṇiḥ.. 23..
तस्याः स्फटिकसंकाशं वारि संतापसम्भवम्।नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्॥ २४॥
तस्याः स्फटिक-संकाशम् वारि संताप-सम्भवम्।नेत्राभ्याम् परिसुस्राव पङ्कजाभ्याम् इव उदकम्॥ २४॥
tasyāḥ sphaṭika-saṃkāśam vāri saṃtāpa-sambhavam.netrābhyām parisusrāva paṅkajābhyām iva udakam.. 24..
तत्सितामलचन्द्राभं मुखमायतलोचनम्।पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्॥ २५॥
तत् सित-अमल-चन्द्र-आभम् मुखम् आयत-लोचनम्।पर्यशुष्यत बाष्पेण जल-उद्धृतम् इव अम्बुजम्॥ २५॥
tat sita-amala-candra-ābham mukham āyata-locanam.paryaśuṣyata bāṣpeṇa jala-uddhṛtam iva ambujam.. 25..
तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्।उवाच वचनं रामः परिविश्वासयंस्तदा॥२६॥
ताम् परिष्वज्य बाहुभ्याम् विसंज्ञाम् इव दुःखिताम्।उवाच वचनम् रामः परिविश्वासयन् तदा॥२६॥
tām pariṣvajya bāhubhyām visaṃjñām iva duḥkhitām.uvāca vacanam rāmaḥ pariviśvāsayan tadā..26..
न देवि बत दुःखेन स्वर्गमप्यभिरोचये।नहि मेऽस्ति भयं किंचित् स्वयम्भोरिव सर्वतः॥ २७॥
न देवि बत दुःखेन स्वर्गम् अपि अभिरोचये।नहि मे अस्ति भयम् किंचिद् स्वयम्भोः इव सर्वतस्॥ २७॥
na devi bata duḥkhena svargam api abhirocaye.nahi me asti bhayam kiṃcid svayambhoḥ iva sarvatas.. 27..
तव सर्वमभिप्रायमविज्ञाय शुभानने।वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे॥ २८॥
तव सर्वम् अभिप्रायम् अ विज्ञाय शुभ-आनने।वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे॥ २८॥
tava sarvam abhiprāyam a vijñāya śubha-ānane.vāsam na rocaye araṇye śaktimān api rakṣaṇe.. 28..
यत् सृष्टासि मया सार्धं वनवासाय मैथिलि।न विहातुं मया शक्या प्रीतिरात्मवता यथा॥ २९॥
यत् सृष्टा असि मया सार्धम् वन-वासाय मैथिलि।न विहातुम् मया शक्या प्रीतिः आत्मवता यथा॥ २९॥
yat sṛṣṭā asi mayā sārdham vana-vāsāya maithili.na vihātum mayā śakyā prītiḥ ātmavatā yathā.. 29..
धर्मस्तु गजनासोरु सद्भिराचरितः पुरा।तं चाहमनुवर्तिष्ये यथा सूर्यं सुवर्चला॥ ३०॥
धर्मः तु गज-नासा-उरु सद्भिः आचरितः पुरा।तम् च अहम् अनुवर्तिष्ये यथा सूर्यम् सुवर्चला॥ ३०॥
dharmaḥ tu gaja-nāsā-uru sadbhiḥ ācaritaḥ purā.tam ca aham anuvartiṣye yathā sūryam suvarcalā.. 30..
न खल्वहं न गच्छेयं वनं जनकनन्दिनि।वचनं तन्नयति मां पितुः सत्योपबृंहितम्॥ ३१॥
न खलु अहम् न गच्छेयम् वनम् जनकनन्दिनि।वचनम् तत् नयति माम् पितुः सत्य-उपबृंहितम्॥ ३१॥
na khalu aham na gaccheyam vanam janakanandini.vacanam tat nayati mām pituḥ satya-upabṛṃhitam.. 31..
एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता।आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे॥ ३२॥
एष धर्मः च सुश्रोणि पितुः मातुः च वश्य-ता।आज्ञाम् च अहम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे॥ ३२॥
eṣa dharmaḥ ca suśroṇi pituḥ mātuḥ ca vaśya-tā.ājñām ca aham vyatikramya na aham jīvitum utsahe.. 32..
अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते।स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्॥ ३३॥
अस्वाधीनम् कथम् दैवम् प्रकारैः अभिराध्यते।स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम्॥ ३३॥
asvādhīnam katham daivam prakāraiḥ abhirādhyate.svādhīnam samatikramya mātaram pitaram gurum.. 33..
यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि।नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते॥ ३४॥
यत्र त्रयम् त्रयः लोकाः पवित्रम् तद्-समम् भुवि।न अन्यत् अस्ति शुभ-अपाङ्गे तेन इदम् अभिराध्यते॥ ३४॥
yatra trayam trayaḥ lokāḥ pavitram tad-samam bhuvi.na anyat asti śubha-apāṅge tena idam abhirādhyate.. 34..
न सत्यं दानमानौ वा यज्ञो वाप्याप्तदक्षिणाः।तथा बलकराः सीते यथा सेवा पितुर्मता॥ ३५॥
न सत्यम् दान-मानौ वा यज्ञः वा अपि आप्त-दक्षिणाः।तथा बल-कराः सीते यथा सेवा पितुः मता॥ ३५॥
na satyam dāna-mānau vā yajñaḥ vā api āpta-dakṣiṇāḥ.tathā bala-karāḥ sīte yathā sevā pituḥ matā.. 35..
स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च।गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम्॥ ३६॥
स्वर्गः धनम् वा धान्यम् वा विद्या पुत्राः सुखानि च।गुरु-वृत्ति-अनुरोधेन न किंचिद् अपि दुर्लभम्॥ ३६॥
svargaḥ dhanam vā dhānyam vā vidyā putrāḥ sukhāni ca.guru-vṛtti-anurodhena na kiṃcid api durlabham.. 36..
देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथापरान्।प्राप्नुवन्ति महात्मानो मातापितृपरायणाः॥ ३७॥
देव-गन्धर्व-गोलोकान् ब्रह्म-लोकान् तथा अपरान्।प्राप्नुवन्ति महात्मानः माता-पितृ-परायणाः॥ ३७॥
deva-gandharva-golokān brahma-lokān tathā aparān.prāpnuvanti mahātmānaḥ mātā-pitṛ-parāyaṇāḥ.. 37..
स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः।तथा वर्तितुमिच्छामि स हि धर्मः सनातनः॥ ३८॥
स मा पिता यथा शास्ति सत्य-धर्म-पथे स्थितः।तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः॥ ३८॥
sa mā pitā yathā śāsti satya-dharma-pathe sthitaḥ.tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ.. 38..
मम सन्ना मतिः सीते नेतुं त्वां दण्डकावनम्।वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता॥ ३९॥
मम सन्ना मतिः सीते नेतुम् त्वाम् दण्डक-वनम्।वसिष्यामि इति सा त्वम् माम् अनुयातुम् सु निश्चिता॥ ३९॥
mama sannā matiḥ sīte netum tvām daṇḍaka-vanam.vasiṣyāmi iti sā tvam mām anuyātum su niścitā.. 39..
सा हि दिष्टानवद्याङ्गि वनाय मदिरेक्षणे।अनुगच्छस्व मां भीरु सहधर्मचरी भव॥ ४०॥
सा हि दिष्ट-अनवद्य-अङ्गि वनाय मदिरा-ईक्षणे।अनुगच्छस्व माम् भीरु सहधर्मचरी भव॥ ४०॥
sā hi diṣṭa-anavadya-aṅgi vanāya madirā-īkṣaṇe.anugacchasva mām bhīru sahadharmacarī bhava.. 40..
सर्वथा सदृशं सीते मम स्वस्य कुलस्य च।व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम्॥ ४१॥
सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च।व्यवसायम् अनुक्रान्ता कान्ते त्वम् अति शोभनम्॥ ४१॥
sarvathā sadṛśam sīte mama svasya kulasya ca.vyavasāyam anukrāntā kānte tvam ati śobhanam.. 41..
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः।नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते॥ ४२॥
आरभस्व शुभ-श्रोणि वन-वास-क्षमाः क्रियाः।न इदानीम् त्वत् ऋते सीते स्वर्गः अपि मम रोचते॥ ४२॥
ārabhasva śubha-śroṇi vana-vāsa-kṣamāḥ kriyāḥ.na idānīm tvat ṛte sīte svargaḥ api mama rocate.. 42..
ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्।देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम्॥ ४३॥
ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम्।देहि च आशंसमानेभ्यः संत्वरस्व च मा चिरम्॥ ४३॥
brāhmaṇebhyaḥ ca ratnāni bhikṣukebhyaḥ ca bhojanam.dehi ca āśaṃsamānebhyaḥ saṃtvarasva ca mā ciram.. 43..
भूषणानि महार्हाणि वरवस्त्राणि यानि च।रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः॥ ४४॥
भूषणानि महार्हाणि वर-वस्त्राणि यानि च।रमणीयाः च ये केचिद् क्रीडा-अर्थाः च अपि उपस्कराः॥ ४४॥
bhūṣaṇāni mahārhāṇi vara-vastrāṇi yāni ca.ramaṇīyāḥ ca ye kecid krīḍā-arthāḥ ca api upaskarāḥ.. 44..
शयनीयानि यानानि मम चान्यानि यानि च।देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्॥ ४५॥
शयनीयानि यानानि मम च अन्यानि यानि च।देहि स्व-भृत्य-वर्गस्य ब्राह्मणानाम् अनन्तरम्॥ ४५॥
śayanīyāni yānāni mama ca anyāni yāni ca.dehi sva-bhṛtya-vargasya brāhmaṇānām anantaram.. 45..
अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः।क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे॥ ४६॥
अनुकूलम् तु सा भर्तुः ज्ञात्वा गमनम् आत्मनः।क्षिप्रम् प्रमुदिता देवी दातुम् एव प्रचक्रमे॥ ४६॥
anukūlam tu sā bhartuḥ jñātvā gamanam ātmanaḥ.kṣipram pramuditā devī dātum eva pracakrame.. 46..
ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम्।धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी॥ ४७॥
ततस् प्रहृष्टा प्रतिपूर्ण-मानसा यशस्विनी भर्तुः अवेक्ष्य भाषितम्।धनानि रत्नानि च दातुम् अङ्गना प्रचक्रमे धर्म-भृताम् मनस्विनी॥ ४७॥
tatas prahṛṣṭā pratipūrṇa-mānasā yaśasvinī bhartuḥ avekṣya bhāṣitam.dhanāni ratnāni ca dātum aṅganā pracakrame dharma-bhṛtām manasvinī.. 47..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे त्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe triṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In