This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकत्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekatriṃśaḥ sargaḥ ..2..
एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः।बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन्॥ १॥
एवम् श्रुत्वा स संवादम् लक्ष्मणः पूर्वम् आगतः।बाष्प-पर्याकुल-मुखः शोकम् सोढुम् अशक्नुवन्॥ १॥
evam śrutvā sa saṃvādam lakṣmaṇaḥ pūrvam āgataḥ.bāṣpa-paryākula-mukhaḥ śokam soḍhum aśaknuvan.. 1..
स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः।सीतामुवाचातियशां राघवं च महाव्रतम्॥ २॥
स भ्रातुः चरणौ गाढम् निपीड्य रघुनन्दनः।सीताम् उवाच अति यशाम् राघवम् च महा-व्रतम्॥ २॥
sa bhrātuḥ caraṇau gāḍham nipīḍya raghunandanaḥ.sītām uvāca ati yaśām rāghavam ca mahā-vratam.. 2..
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्।अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः॥ ३॥
यदि गन्तुम् कृता बुद्धिः वनम् मृग-गज-आयुतम्।अहम् त्वा अनुगमिष्यामि वनम् अग्रे धनुः-धरः॥ ३॥
yadi gantum kṛtā buddhiḥ vanam mṛga-gaja-āyutam.aham tvā anugamiṣyāmi vanam agre dhanuḥ-dharaḥ.. 3..
मया समेतोऽरण्यानि रम्याणि विचरिष्यसि।पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः॥ ४॥
मया समेतः अरण्यानि रम्याणि विचरिष्यसि।पक्षिभिः मृग-यूथैः च संघुष्टानि समन्ततः॥ ४॥
mayā sametaḥ araṇyāni ramyāṇi vicariṣyasi.pakṣibhiḥ mṛga-yūthaiḥ ca saṃghuṣṭāni samantataḥ.. 4..
न देवलोकाक्रमणं नामरत्वमहं वृणे।ऐश्वर्यं चापि लोकानां कामये न त्वया विना॥ ५॥
न देव-लोक-आक्रमणम् न अमर-त्वम् अहम् वृणे।ऐश्वर्यम् च अपि लोकानाम् कामये न त्वया विना॥ ५॥
na deva-loka-ākramaṇam na amara-tvam aham vṛṇe.aiśvaryam ca api lokānām kāmaye na tvayā vinā.. 5..
एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः।रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत्॥ ६॥
एवम् ब्रुवाणः सौमित्रिः वन-वासाय निश्चितः।रामेण बहुभिः सान्त्वैः निषिद्धः पुनर् अब्रवीत्॥ ६॥
evam bruvāṇaḥ saumitriḥ vana-vāsāya niścitaḥ.rāmeṇa bahubhiḥ sāntvaiḥ niṣiddhaḥ punar abravīt.. 6..
अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम्।किमिदानीं पुनरपि क्रियते मे निवारणम्॥ ७॥
अनुज्ञातः तु भवता पूर्वम् एव यत् अस्मि अहम्।किम् इदानीम् पुनर् अपि क्रियते मे निवारणम्॥ ७॥
anujñātaḥ tu bhavatā pūrvam eva yat asmi aham.kim idānīm punar api kriyate me nivāraṇam.. 7..
यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः।एतदिच्छामि विज्ञातुं संशयो हि ममानघ॥ ८॥
यद्-अर्थम् प्रतिषेधः मे क्रियते गन्तुम् इच्छतः।एतत् इच्छामि विज्ञातुम् संशयः हि मम अनघ॥ ८॥
yad-artham pratiṣedhaḥ me kriyate gantum icchataḥ.etat icchāmi vijñātum saṃśayaḥ hi mama anagha.. 8..
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्॥ ९॥
ततस् अब्रवीत् महा-तेजाः रामः लक्ष्मणम् अग्रतस्।स्थितम् प्राक् गामिनम् धीरम् याचमानम् कृत-अञ्जलिम्॥ ९॥
tatas abravīt mahā-tejāḥ rāmaḥ lakṣmaṇam agratas.sthitam prāk gāminam dhīram yācamānam kṛta-añjalim.. 9..
स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः।प्रियः प्राणसमो वश्यो विजेयश्च सखा च मे॥ १०॥
स्निग्धः धर्म-रतः धीरः सततम् सत्-पथे स्थितः।प्रियः प्राण-समः वश्यः विजेयः च सखा च मे॥ १०॥
snigdhaḥ dharma-rataḥ dhīraḥ satatam sat-pathe sthitaḥ.priyaḥ prāṇa-samaḥ vaśyaḥ vijeyaḥ ca sakhā ca me.. 10..
मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्।को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्॥ ११॥
मया अद्य सह सौमित्रे त्वयि गच्छति तत् वनम्।कः भजिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम्॥ ११॥
mayā adya saha saumitre tvayi gacchati tat vanam.kaḥ bhajiṣyati kausalyām sumitrām vā yaśasvinīm.. 11..
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव।स कामपाशपर्यस्तो महातेजा महीपतिः॥ १२॥
अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव।स काम-पाश-पर्यस्तः महा-तेजाः महीपतिः॥ १२॥
abhivarṣati kāmaiḥ yaḥ parjanyaḥ pṛthivīm iva.sa kāma-pāśa-paryastaḥ mahā-tejāḥ mahīpatiḥ.. 12..
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता।दुःखितानां सपत्नीनां न करिष्यति शोभनम्॥ १३॥
सा हि राज्यम् इदम् प्राप्य नृपस्य अश्वपतेः सुता।दुःखितानाम् सपत्नीनाम् न करिष्यति शोभनम्॥ १३॥
sā hi rājyam idam prāpya nṛpasya aśvapateḥ sutā.duḥkhitānām sapatnīnām na kariṣyati śobhanam.. 13..
न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्।भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः॥ १४॥
न भरिष्यति कौसल्याम् सुमित्राम् च सु दुःखिताम्।भरतः राज्यम् आसाद्य कैकेय्याम् पर्यवस्थितः॥ १४॥
na bhariṣyati kausalyām sumitrām ca su duḥkhitām.bharataḥ rājyam āsādya kaikeyyām paryavasthitaḥ.. 14..
तामार्यां स्वयमेवेह राजानुग्रहणेन वा।सौमित्रे भर कौसल्यामुक्तमर्थममुं चर॥ १५॥
ताम् आर्याम् स्वयम् एवा इह राज-अनुग्रहणेन वा।सौमित्रे भर कौसल्याम् उक्तम् अर्थम् अमुम् चर॥ १५॥
tām āryām svayam evā iha rāja-anugrahaṇena vā.saumitre bhara kausalyām uktam artham amum cara.. 15..
एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता।धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान्॥ १६॥
एवम् मयि च ते भक्तिः भविष्यति सु दर्शिता।धर्म-ज्ञ-गुरु-पूजायाम् धर्मः च अपि अतुलः महान्॥ १६॥
evam mayi ca te bhaktiḥ bhaviṣyati su darśitā.dharma-jña-guru-pūjāyām dharmaḥ ca api atulaḥ mahān.. 16..
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन।अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम्॥ १७॥
एवम् कुरुष्व सौमित्रे मद्-कृते रघुनन्दन।अस्माभिः विप्रहीणायाः मातुः नः न भवेत् सुखम्॥ १७॥
evam kuruṣva saumitre mad-kṛte raghunandana.asmābhiḥ viprahīṇāyāḥ mātuḥ naḥ na bhavet sukham.. 17..
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्॥ १८॥
एवम् उक्तः तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।प्रत्युवाच तदा रामम् वाक्य-ज्ञः वाक्य-कोविदम्॥ १८॥
evam uktaḥ tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā.pratyuvāca tadā rāmam vākya-jñaḥ vākya-kovidam.. 18..
तवैव तेजसा वीर भरतः पूजयिष्यति।कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः॥ १९॥
तव एव तेजसा वीर भरतः पूजयिष्यति।कौसल्याम् च सुमित्राम् च प्रयतः न अस्ति संशयः॥ १९॥
tava eva tejasā vīra bharataḥ pūjayiṣyati.kausalyām ca sumitrām ca prayataḥ na asti saṃśayaḥ.. 19..
यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्।प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः॥ २०॥
यदि दुःस्थः न रक्षेत भरतः राज्यम् उत्तमम्।प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः॥ २०॥
yadi duḥsthaḥ na rakṣeta bharataḥ rājyam uttamam.prāpya durmanasā vīra garveṇa ca viśeṣataḥ.. 20..
तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः।तत्पक्षानपि तान् सर्वांस्त्रैलोक्यमपि किं तु सा॥ २१॥
तम् अहम् दुर्मतिम् क्रूरम् वधिष्यामि न संशयः।तद्-पक्षान् अपि तान् सर्वान् त्रैलोक्यम् अपि किम् तु सा॥ २१॥
tam aham durmatim krūram vadhiṣyāmi na saṃśayaḥ.tad-pakṣān api tān sarvān trailokyam api kim tu sā.. 21..
कौसल्या बिभृयादार्या सहस्रं मद्विधानपि।यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्॥ २२॥
कौसल्या बिभृयात् आर्या सहस्रम् मद्विधान् अपि।यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीविनाम्॥ २२॥
kausalyā bibhṛyāt āryā sahasram madvidhān api.yasyāḥ sahasram grāmāṇām samprāptam upajīvinām.. 22..
तदात्मभरणे चैव मम मातुस्तथैव च।पर्याप्ता मद्विधानां च भरणाय मनस्विनी॥ २३॥
तद्-आत्म-भरणे च एव मम मातुः तथा एव च।पर्याप्ता मद्विधानाम् च भरणाय मनस्विनी॥ २३॥
tad-ātma-bharaṇe ca eva mama mātuḥ tathā eva ca.paryāptā madvidhānām ca bharaṇāya manasvinī.. 23..
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते।कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते॥ २४॥
कुरुष्व माम् अनुचरम् वैधर्म्यम् ना इह विद्यते।कृतार्थः अहम् भविष्यामि तव च अर्थः प्रकल्प्यते॥ २४॥
kuruṣva mām anucaram vaidharmyam nā iha vidyate.kṛtārthaḥ aham bhaviṣyāmi tava ca arthaḥ prakalpyate.. 24..
धनुरादाय सगुणं खनित्रपिटकाधरः।अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन्॥ २५॥
धनुः आदाय स गुणम् खनित्र-पिटका-धरः।अग्रतस् ते गमिष्यामि पन्थानम् तव दर्शयन्॥ २५॥
dhanuḥ ādāya sa guṇam khanitra-piṭakā-dharaḥ.agratas te gamiṣyāmi panthānam tava darśayan.. 25..
आहरिष्यामि ते नित्यं मूलानि च फलानि च।वन्यानि च तथान्यानि स्वाहार्हाणि तपस्विनाम्॥ २६॥
आहरिष्यामि ते नित्यम् मूलानि च फलानि च।वन्यानि च तथा अन्यानि स्वाहा-अर्हाणि तपस्विनाम्॥ २६॥
āhariṣyāmi te nityam mūlāni ca phalāni ca.vanyāni ca tathā anyāni svāhā-arhāṇi tapasvinām.. 26..
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे।अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते॥ २७॥
भवान् तु सह वैदेह्या गिरि-सानुषु रंस्यसे।अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते॥ २७॥
bhavān tu saha vaidehyā giri-sānuṣu raṃsyase.aham sarvam kariṣyāmi jāgrataḥ svapataḥ ca te.. 27..
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्।व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्॥ २८॥
रामः तु अनेन वाक्येन सु प्रीतः प्रत्युवाच तम्।व्रज आपृच्छस्व सौमित्रे सर्वम् एव सुहृद्-जनम्॥ २८॥
rāmaḥ tu anena vākyena su prītaḥ pratyuvāca tam.vraja āpṛcchasva saumitre sarvam eva suhṛd-janam.. 28..
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्।जनकस्य महायज्ञे धनुषी रौद्रदर्शने॥ २९॥
ये च राज्ञः ददौ दिव्ये महात्मा वरुणः स्वयम्।जनकस्य महा-यज्ञे धनुषी रौद्र-दर्शने॥ २९॥
ye ca rājñaḥ dadau divye mahātmā varuṇaḥ svayam.janakasya mahā-yajñe dhanuṣī raudra-darśane.. 29..
अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायकौ।आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ॥ ३०॥
अभेद्ये कवचे दिव्ये तूणी च अक्षय्य-सायकौ।आदित्य-विमल-आभौ द्वौ खड्गौ हेम-परिष्कृतौ॥ ३०॥
abhedye kavace divye tūṇī ca akṣayya-sāyakau.āditya-vimala-ābhau dvau khaḍgau hema-pariṣkṛtau.. 30..
सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि।सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण॥ ३१॥
सत्कृत्य निहितम् सर्वम् एतत् आचार्य-सद्मनि।सर्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण॥ ३१॥
satkṛtya nihitam sarvam etat ācārya-sadmani.sarvam āyudham ādāya kṣipram āvraja lakṣmaṇa.. 31..
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः।इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्॥ ३२॥
स सुहृद्-जनम् आमन्त्र्य वन-वासाय निश्चितः।इक्ष्वाकु-गुरुम् आगम्य जग्राह आयुधम् उत्तमम्॥ ३२॥
sa suhṛd-janam āmantrya vana-vāsāya niścitaḥ.ikṣvāku-gurum āgamya jagrāha āyudham uttamam.. 32..
तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्।रामाय दर्शयामास सौमित्रिः सर्वमायुधम्॥ ३३॥
तत् दिव्यम् राज-शार्दूलः सत्कृतम् माल्य-भूषितम्।रामाय दर्शयामास सौमित्रिः सर्वम् आयुधम्॥ ३३॥
tat divyam rāja-śārdūlaḥ satkṛtam mālya-bhūṣitam.rāmāya darśayāmāsa saumitriḥ sarvam āyudham.. 33..
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्।काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण॥ ३४॥
तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम्।काले त्वम् आगतः सौम्य कांक्षिते मम लक्ष्मण॥ ३४॥
tam uvāca ātmavān rāmaḥ prītyā lakṣmaṇam āgatam.kāle tvam āgataḥ saumya kāṃkṣite mama lakṣmaṇa.. 34..
अहं प्रदातुमिच्छामि यदिदं मामकं धनम्।ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप॥ ३५॥
अहम् प्रदातुम् इच्छामि यत् इदम् मामकम् धनम्।ब्राह्मणेभ्यः तपस्विभ्यः त्वया सह परंतप॥ ३५॥
aham pradātum icchāmi yat idam māmakam dhanam.brāhmaṇebhyaḥ tapasvibhyaḥ tvayā saha paraṃtapa.. 35..
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः।तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्॥ ३६॥
वसन्ति इह दृढम् भक्त्या गुरुषु द्विजसत्तमाः।तेषाम् अपि च मे भूयस् सर्वेषाम् च उपजीविनाम्॥ ३६॥
vasanti iha dṛḍham bhaktyā guruṣu dvijasattamāḥ.teṣām api ca me bhūyas sarveṣām ca upajīvinām.. 36..
वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्।अपि प्रयास्यामि वनं समस्ता- नभ्यर्च्य शिष्टानपरान् द्विजातीन्॥ ३७॥
वसिष्ठ-पुत्रम् तु सुयज्ञम् आर्यम् त्वम् आनय आशु प्रवरम् द्विजानाम्।अपि प्रयास्यामि वनम् समस्तान् अभ्यर्च्य शिष्टान् अपरान् द्विजातीन्॥ ३७॥
vasiṣṭha-putram tu suyajñam āryam tvam ānaya āśu pravaram dvijānām.api prayāsyāmi vanam samastān abhyarcya śiṣṭān aparān dvijātīn.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे एकत्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ekatriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In