This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्वात्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvātriṃśaḥ sargaḥ ..2..
ततः शासनमाज्ञाय भ्रातुः प्रियकरं हितम्।गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्॥ १॥
ततस् शासनम् आज्ञाय भ्रातुः प्रिय-करम् हितम्।गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम्॥ १॥
tatas śāsanam ājñāya bhrātuḥ priya-karam hitam.gatvā sa praviveśa āśu suyajñasya niveśanam.. 1..
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्।सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः॥ २॥
तम् विप्रम् अग्नि-अगार-स्थम् वन्दित्वा लक्ष्मणः अब्रवीत्।सखे अभ्यागच्छ पश्य त्वम् वेश्म दुष्कर-कारिणः॥ २॥
tam vipram agni-agāra-stham vanditvā lakṣmaṇaḥ abravīt.sakhe abhyāgaccha paśya tvam veśma duṣkara-kāriṇaḥ.. 2..
ततः संध्यामुपास्थाय गत्वा सौमित्रिणा सह।ऋद्धं स प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्॥ ३॥
ततस् संध्याम् उपास्थाय गत्वा सौमित्रिणा सह।ऋद्धम् स प्राविशत् लक्ष्म्या रम्यम् राम-निवेशनम्॥ ३॥
tatas saṃdhyām upāsthāya gatvā saumitriṇā saha.ṛddham sa prāviśat lakṣmyā ramyam rāma-niveśanam.. 3..
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः।सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि॥ ५॥
जातरूप-मयैः मुख्यैः अङ्गदैः कुण्डलैः शुभैः।स हेम-सूत्रैः मणिभिः केयूरैः वलयैः अपि॥ ५॥
jātarūpa-mayaiḥ mukhyaiḥ aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ.sa hema-sūtraiḥ maṇibhiḥ keyūraiḥ valayaiḥ api.. 5..
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्।सुयज्ञं स तदोवाच रामः सीताप्रचोदितः॥ ६॥
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत्।सुयज्ञम् स तदा उवाच रामः सीता-प्रचोदितः॥ ६॥
anyaiḥ ca ratnaiḥ bahubhiḥ kākutsthaḥ pratyapūjayat.suyajñam sa tadā uvāca rāmaḥ sītā-pracoditaḥ.. 6..
हारं च हेमसूत्रं च भार्यायै सौम्य हारय।रशनां चाथ सा सीता दातुमिच्छति ते सखी॥ ७॥
हारम् च हेमसूत्रम् च भार्यायै सौम्य हारय।रशनाम् च अथ सा सीता दातुम् इच्छति ते सखी॥ ७॥
hāram ca hemasūtram ca bhāryāyai saumya hāraya.raśanām ca atha sā sītā dātum icchati te sakhī.. 7..
अङ्गदानि च चित्राणि केयूराणि शुभानि च।प्रयच्छति सखी तुभ्यं भार्यायै गच्छती वनम्॥ ८॥
अङ्गदानि च चित्राणि केयूराणि शुभानि च।प्रयच्छति सखी तुभ्यम् भार्यायै गच्छती वनम्॥ ८॥
aṅgadāni ca citrāṇi keyūrāṇi śubhāni ca.prayacchati sakhī tubhyam bhāryāyai gacchatī vanam.. 8..
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्।तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि॥ ९॥
पर्यङ्कम् अग्र्य-आस्तरणम् नाना रत्न-विभूषितम्।तम् अपि इच्छति वैदेही प्रतिष्ठापयितुम् त्वयि॥ ९॥
paryaṅkam agrya-āstaraṇam nānā ratna-vibhūṣitam.tam api icchati vaidehī pratiṣṭhāpayitum tvayi.. 9..
नागः शत्रुंजयो नाम मातुलोऽयं ददौ मम।तं ते निष्कसहस्रेण ददामि द्विजपुङ्गव॥ १०॥
नागः शत्रुंजयः नाम मातुलः अयम् ददौ मम।तम् ते निष्क-सहस्रेण ददामि द्विज-पुङ्गव॥ १०॥
nāgaḥ śatruṃjayaḥ nāma mātulaḥ ayam dadau mama.tam te niṣka-sahasreṇa dadāmi dvija-puṅgava.. 10..
इत्युक्तः स तु रामेण सुयज्ञः प्रतिगृह्य तत्।रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः॥ ११॥
इति उक्तः स तु रामेण सुयज्ञः प्रतिगृह्य तत्।राम-लक्ष्मण-सीतानाम् प्रयुयोज आशिषः शिवाः॥ ११॥
iti uktaḥ sa tu rāmeṇa suyajñaḥ pratigṛhya tat.rāma-lakṣmaṇa-sītānām prayuyoja āśiṣaḥ śivāḥ.. 11..
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदम्।सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्॥ १२॥
अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियंवदम्।सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदशेश्वरम्॥ १२॥
atha bhrātaram avyagram priyam rāmaḥ priyaṃvadam.saumitrim tam uvāca idam brahmā iva tridaśeśvaram.. 12..
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ।अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः॥ १३॥
अगस्त्यम् कौशिकम् च एव तौ उभौ ब्राह्मण-उत्तमौ।अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः॥ १३॥
agastyam kauśikam ca eva tau ubhau brāhmaṇa-uttamau.arcaya āhūya saumitre ratnaiḥ sasyam iva ambubhiḥ.. 13..
तर्पयस्व महाबाहो गोसहस्रेण राघव।सुवर्णरजतैश्चैव मणिभिश्च महाधनैः॥ १४॥
तर्पयस्व महा-बाहो गो-सहस्रेण राघव।सुवर्ण-रजतैः च एव मणिभिः च महाधनैः॥ १४॥
tarpayasva mahā-bāho go-sahasreṇa rāghava.suvarṇa-rajataiḥ ca eva maṇibhiḥ ca mahādhanaiḥ.. 14..
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति।आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्॥ १५॥
कौसल्याम् च यः आशीर्भिः भक्तः पर्युपतिष्ठति।आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेद-विद्॥ १५॥
kausalyām ca yaḥ āśīrbhiḥ bhaktaḥ paryupatiṣṭhati.ācāryaḥ taittirīyāṇām abhirūpaḥ ca veda-vid.. 15..
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय।कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः॥ १६॥
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय।कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः॥ १६॥
tasya yānam ca dāsīḥ ca saumitre sampradāpaya.kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ.. 16..
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः।तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा॥ १७॥
सूतः चित्ररथः च आर्यः सचिवः सु चिर-उषितः।तोषय एनम् महार्हैः च रत्नैः वस्त्रैः धनैः तथा॥ १७॥
sūtaḥ citrarathaḥ ca āryaḥ sacivaḥ su cira-uṣitaḥ.toṣaya enam mahārhaiḥ ca ratnaiḥ vastraiḥ dhanaiḥ tathā.. 17..
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च।ये चेमे कठकालापा बहवो दण्डमाणवाः॥ १८॥
पशुकाभिः च सर्वाभिः गवाम् दश-शतेन च।ये च इमे कठक-आलापाः बहवः दण्ड-माणवाः॥ १८॥
paśukābhiḥ ca sarvābhiḥ gavām daśa-śatena ca.ye ca ime kaṭhaka-ālāpāḥ bahavaḥ daṇḍa-māṇavāḥ.. 18..
नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन।अलसाः स्वादुकामाश्च महतां चापि सम्मताः॥ १९॥
नित्य-स्वाध्याय-शील-त्वात् न अन्यत् कुर्वन्ति किंचन।अलसाः स्वादु-कामाः च महताम् च अपि सम्मताः॥ १९॥
nitya-svādhyāya-śīla-tvāt na anyat kurvanti kiṃcana.alasāḥ svādu-kāmāḥ ca mahatām ca api sammatāḥ.. 19..
तेषामशीतियानानि रत्नपूर्णानि दापय।शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा॥ २०॥
तेषाम् अशीति-यानानि रत्न-पूर्णानि दापय।शालिवाह-सहस्रम् च द्वे शते भद्रकान् तथा॥ २०॥
teṣām aśīti-yānāni ratna-pūrṇāni dāpaya.śālivāha-sahasram ca dve śate bhadrakān tathā.. 20..
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु।मेखलीनां महासङ्घः कौसल्यां समुपस्थितः।तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय॥ २१॥
व्यञ्जन-अर्थम् च सौमित्रे गो-सहस्रम् उपाकुरु।मेखलीनाम् महा-सङ्घः कौसल्याम् समुपस्थितः।तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय॥ २१॥
vyañjana-artham ca saumitre go-sahasram upākuru.mekhalīnām mahā-saṅghaḥ kausalyām samupasthitaḥ.teṣām sahasram saumitre pratyekam sampradāpaya.. 21..
अम्बा यथा नो नन्देच्च कौसल्या मम दक्षिणाम्।तथा द्विजातींस्तान् सर्वाल्ँलक्ष्मणार्चय सर्वशः॥ २२॥
अम्बा यथा नः नन्देत् च कौसल्या मम दक्षिणाम्।तथा द्विजातीन् तान् सर्वान् लक्ष्मण अर्चय सर्वशस्॥ २२॥
ambā yathā naḥ nandet ca kausalyā mama dakṣiṇām.tathā dvijātīn tān sarvān lakṣmaṇa arcaya sarvaśas.. 22..
ततः पुरुषशार्दूलस्तद् धनं लक्ष्मणः स्वयम्।यथोक्तं ब्राह्मणेन्द्राणामददाद् धनदो यथा॥ २३॥
ततस् पुरुष-शार्दूलः तत् धनम् लक्ष्मणः स्वयम्।यथोक्तम् ब्राह्मण-इन्द्राणाम् अददात् धनदः यथा॥ २३॥
tatas puruṣa-śārdūlaḥ tat dhanam lakṣmaṇaḥ svayam.yathoktam brāhmaṇa-indrāṇām adadāt dhanadaḥ yathā.. 23..
अथाब्रवीद् बाष्पगलांस्तिष्ठतश्चोपजीविनः।स प्रदाय बहुद्रव्यमेकैकस्योपजीवनम्॥ २४॥
अथ अब्रवीत् बाष्प-गलान् तिष्ठतः च उपजीविनः।स प्रदाय बहु-द्रव्यम् एकैकस्य उपजीवनम्॥ २४॥
atha abravīt bāṣpa-galān tiṣṭhataḥ ca upajīvinaḥ.sa pradāya bahu-dravyam ekaikasya upajīvanam.. 24..
लक्ष्मणस्य च यद् वेश्म गृहं च यदिदं मम।अशून्यं कार्यमेकैकं यावदागमनं मम॥ २५॥
लक्ष्मणस्य च यत् वेश्म गृहम् च यत् इदम् मम।अ शून्यम् कार्यम् एकैकम् यावत् आगमनम् मम॥ २५॥
lakṣmaṇasya ca yat veśma gṛham ca yat idam mama.a śūnyam kāryam ekaikam yāvat āgamanam mama.. 25..
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्।उवाचेदं धनाध्यक्षं धनमानीयतां मम॥ २६॥
इति उक्त्वा दुःखितम् सर्वम् जनम् तम् उपजीविनम्।उवाच इदम् धनाध्यक्षम् धनम् आनीयताम् मम॥ २६॥
iti uktvā duḥkhitam sarvam janam tam upajīvinam.uvāca idam dhanādhyakṣam dhanam ānīyatām mama.. 26..
ततोऽस्य धनमाजह्रुः सर्व एवोपजीविनः।स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत॥ २७॥
ततस् अस्य धनम् आजह्रुः सर्वे एव उपजीविनः।स राशिः सु महान् तत्र दर्शनीयः हि अदृश्यत॥ २७॥
tatas asya dhanam ājahruḥ sarve eva upajīvinaḥ.sa rāśiḥ su mahān tatra darśanīyaḥ hi adṛśyata.. 27..
ततः स पुरुषव्याघ्रस्तद् धनं सहलक्ष्मणः।द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्॥ २८॥
ततस् स पुरुष-व्याघ्रः तत् धनम् सहलक्ष्मणः।द्विजेभ्यः बाल-वृद्धेभ्यः कृपणेभ्यः हि अदापयत्॥ २८॥
tatas sa puruṣa-vyāghraḥ tat dhanam sahalakṣmaṇaḥ.dvijebhyaḥ bāla-vṛddhebhyaḥ kṛpaṇebhyaḥ hi adāpayat.. 28..
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः।क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली॥ २९॥
तत्र आसीत् पिङ्गलः गार्ग्यः त्रिजटः नाम वै द्विजः।क्षत-वृत्तिः वने नित्यम् फाल-कुद्दाल-लाङ्गली॥ २९॥
tatra āsīt piṅgalaḥ gārgyaḥ trijaṭaḥ nāma vai dvijaḥ.kṣata-vṛttiḥ vane nityam phāla-kuddāla-lāṅgalī.. 29..
तं वृद्धं तरुणी भार्या बालानादाय दारकान्।अब्रवीद् ब्राह्मणं वाक्यं स्त्रीणां भर्ता हि देवता॥ ३०॥
तम् वृद्धम् तरुणी भार्या बालान् आदाय दारकान्।अब्रवीत् ब्राह्मणम् वाक्यम् स्त्रीणाम् भर्ता हि देवता॥ ३०॥
tam vṛddham taruṇī bhāryā bālān ādāya dārakān.abravīt brāhmaṇam vākyam strīṇām bhartā hi devatā.. 30..
अपास्य फालं कुद्दालं कुरुष्व वचनं मम।रामं दर्शय धर्मज्ञं यदि किंचिदवाप्स्यसि॥ ३१॥
अपास्य फालम् कुद्दालम् कुरुष्व वचनम् मम।रामम् दर्शय धर्म-ज्ञम् यदि किंचिद् अवाप्स्यसि॥ ३१॥
apāsya phālam kuddālam kuruṣva vacanam mama.rāmam darśaya dharma-jñam yadi kiṃcid avāpsyasi.. 31..
स भार्याया वचः श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्।स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्॥ ३२॥
स भार्यायाः वचः श्रुत्वा शाटीम् आच्छाद्य दुश्छदाम्।स प्रातिष्ठत पन्थानम् यत्र राम-निवेशनम्॥ ३२॥
sa bhāryāyāḥ vacaḥ śrutvā śāṭīm ācchādya duśchadām.sa prātiṣṭhata panthānam yatra rāma-niveśanam.. 32..
भृग्वङ्गिरःसमं दीप्त्या त्रिजटं जनसंसदि।आपञ्चमायाः कक्ष्याया नैतं कश्चिदवारयत्॥ ३३॥
भृगु-अङ्गिरः-समम् दीप्त्या त्रिजटम् जन-संसदि।आ पञ्चमायाः कक्ष्यायाः न एतम् कश्चिद् अवारयत्॥ ३३॥
bhṛgu-aṅgiraḥ-samam dīptyā trijaṭam jana-saṃsadi.ā pañcamāyāḥ kakṣyāyāḥ na etam kaścid avārayat.. 33..
स राममासाद्य तदा त्रिजटो वाक्यमब्रवीत्।निर्धनो बहुपुत्रोऽस्मि राजपुत्र महाबल॥ ३४॥
स रामम् आसाद्य तदा त्रिजटः वाक्यम् अब्रवीत्।निर्धनः बहु-पुत्रः अस्मि राज-पुत्र महा-बल॥ ३४॥
sa rāmam āsādya tadā trijaṭaḥ vākyam abravīt.nirdhanaḥ bahu-putraḥ asmi rāja-putra mahā-bala.. 34..
क्षतवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति।तमुवाच ततो रामः परिहाससमन्वितम्॥ ३५॥
क्षत-वृत्तिः वने नित्यम् प्रत्यवेक्षस्व माम् इति।तम् उवाच ततस् रामः परिहास-समन्वितम्॥ ३५॥
kṣata-vṛttiḥ vane nityam pratyavekṣasva mām iti.tam uvāca tatas rāmaḥ parihāsa-samanvitam.. 35..
गवां सहस्रमप्येकं न च विश्राणितं मया।परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे॥ ३६॥
गवाम् सहस्रम् अपि एकम् न च विश्राणितम् मया।परिक्षिपसि दण्डेन यावत् तावत् अवाप्स्यसे॥ ३६॥
gavām sahasram api ekam na ca viśrāṇitam mayā.parikṣipasi daṇḍena yāvat tāvat avāpsyase.. 36..
स शाटीं परितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्।आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः॥ ३७॥
स शाटीम् परितस् कट्याम् सम्भ्रान्तः परिवेष्ट्य ताम्।आविध्य दण्डम् चिक्षेप सर्व-प्राणेन वेगतः॥ ३७॥
sa śāṭīm paritas kaṭyām sambhrāntaḥ pariveṣṭya tām.āvidhya daṇḍam cikṣepa sarva-prāṇena vegataḥ.. 37..
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः।गोव्रजे बहुसाहस्रे पपातोक्षणसंनिधौ॥ ३८॥
स तीर्त्वा सरयू-पारम् दण्डः तस्य करात् च्युतः।गो-व्रजे बहु-साहस्रे पपात उक्षण-संनिधौ॥ ३८॥
sa tīrtvā sarayū-pāram daṇḍaḥ tasya karāt cyutaḥ.go-vraje bahu-sāhasre papāta ukṣaṇa-saṃnidhau.. 38..
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्।आनयामास ता गावस्त्रिजटस्याश्रमं प्रति॥ ३९॥
तम् परिष्वज्य धर्म-आत्मा आ तस्मात् सरयू-तटात्।आनयामास ताः गावः त्रिजटस्य आश्रमम् प्रति॥ ३९॥
tam pariṣvajya dharma-ātmā ā tasmāt sarayū-taṭāt.ānayāmāsa tāḥ gāvaḥ trijaṭasya āśramam prati.. 39..
उवाच च तदा रामस्तं गार्ग्यमभिसान्त्वयन्।मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम॥ ४०॥
उवाच च तदा रामः तम् गार्ग्यम् अभिसान्त्वयन्।मन्युः न खलु कर्तव्यः परिहासः हि अयम् मम॥ ४०॥
uvāca ca tadā rāmaḥ tam gārgyam abhisāntvayan.manyuḥ na khalu kartavyaḥ parihāsaḥ hi ayam mama.. 40..
इदं हि तेजस्तव यद् दुरत्ययं तदेव जिज्ञासितुमिच्छता मया।इमं भवानर्थमभिप्रचोदितो वृणीष्व किंचेदपरं व्यवस्यसि॥ ४१॥
इदम् हि तेजः तव यत् दुरत्ययम् तत् एव जिज्ञासितुम् इच्छता मया।इमम् भवान् अर्थम् अभिप्रचोदितः वृणीष्व किंचेद् अपरम् व्यवस्यसि॥ ४१॥
idam hi tejaḥ tava yat duratyayam tat eva jijñāsitum icchatā mayā.imam bhavān artham abhipracoditaḥ vṛṇīṣva kiṃced aparam vyavasyasi.. 41..
ब्रवीमि सत्येन न ते स्म यन्त्रणां धनं हि यद्यन्मम विप्रकारणात्।भवत्सु सम्यक्प्रतिपादनेन मयार्जितं चैव यशस्करं भवेत्॥ ४२॥
ब्रवीमि सत्येन न ते स्म यन्त्रणाम् धनम् हि यत् यत् मम विप्रकारणात्।भवत्सु सम्यक् प्रतिपादनेन मया अर्जितम् च एव यशस्करम् भवेत्॥ ४२॥
bravīmi satyena na te sma yantraṇām dhanam hi yat yat mama viprakāraṇāt.bhavatsu samyak pratipādanena mayā arjitam ca eva yaśaskaram bhavet.. 42..
ततः सभार्यस्त्रिजटो महामुनि- र्गवामनीकं प्रतिगृह्य मोदितः।यशोबलप्रीतिसुखोपबृंहिणी- स्तदाशिषः प्रत्यवदन्महात्मनः॥ ४३॥
ततस् स भार्यः त्रिजटः महा-मुनिः गवामनीकम् प्रतिगृह्य मोदितः।यशः-बल-प्रीति-सुख-उपबृंहिणीः तद्-आशिषः प्रत्यवदत् महात्मनः॥ ४३॥
tatas sa bhāryaḥ trijaṭaḥ mahā-muniḥ gavāmanīkam pratigṛhya moditaḥ.yaśaḥ-bala-prīti-sukha-upabṛṃhiṇīḥ tad-āśiṣaḥ pratyavadat mahātmanaḥ.. 43..
स चापि रामः प्रतिपूर्णपौरुषो महाधनं धर्मबलैरुपार्जितम्।नियोजयामास सुहृज्जने चिराद् यथार्हसम्मानवचः प्रचोदितः॥ ४४॥
स च अपि रामः प्रतिपूर्ण-पौरुषः महाधनम् धर्म-बलैः उपार्जितम्।नियोजयामास सुहृद्-जने चिरात् यथार्ह-सम्मान-वचः प्रचोदितः॥ ४४॥
sa ca api rāmaḥ pratipūrṇa-pauruṣaḥ mahādhanam dharma-balaiḥ upārjitam.niyojayāmāsa suhṛd-jane cirāt yathārha-sammāna-vacaḥ pracoditaḥ.. 44..
द्विजः सुहृद् भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च यो भवेत्।न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः॥ ४५॥
द्विजः सुहृद् भृत्य-जनः अथवा तदा दरिद्र-भिक्षा-चरणः च यः भवेत्।न तत्र कश्चिद् न बभूव तर्पितः यथार्ह-सम्मानन-दान-सम्भ्रमैः॥ ४५॥
dvijaḥ suhṛd bhṛtya-janaḥ athavā tadā daridra-bhikṣā-caraṇaḥ ca yaḥ bhavet.na tatra kaścid na babhūva tarpitaḥ yathārha-sammānana-dāna-sambhramaiḥ.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे द्वात्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe dvātriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In