This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रयस्त्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe trayastriṃśaḥ sargaḥ ..2..
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥ १॥
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यः धनम् बहु।जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ॥ १॥
dattvā tu saha vaidehyā brāhmaṇebhyaḥ dhanam bahu.jagmatuḥ pitaram draṣṭum sītayā saha rāghavau.. 1..
ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे।मालादामभिरासक्ते सीतया समलंकृते॥ २॥
ततस् गृहीते प्रेष्याभ्याम् अशोभेताम् तदा आयुधे।माला-दामभिः आसक्ते सीतया समलंकृते॥ २॥
tatas gṛhīte preṣyābhyām aśobhetām tadā āyudhe.mālā-dāmabhiḥ āsakte sītayā samalaṃkṛte.. 2..
ततः प्रासादहर्म्याणि विमानशिखराणि च।अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥ ३॥
ततस् प्रासाद-हर्म्याणि विमान-शिखराणि च।अभिरुह्य जनः श्रीमान् उदासीनः व्यलोकयत्॥ ३॥
tatas prāsāda-harmyāṇi vimāna-śikharāṇi ca.abhiruhya janaḥ śrīmān udāsīnaḥ vyalokayat.. 3..
न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः।आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम्॥ ४॥
न हि रथ्याः सु शक्यन्ते गन्तुम् बहु-जन-आकुलाः।आरुह्य तस्मात् प्रासादात् दीनाः पश्यन्ति राघवम्॥ ४॥
na hi rathyāḥ su śakyante gantum bahu-jana-ākulāḥ.āruhya tasmāt prāsādāt dīnāḥ paśyanti rāghavam.. 4..
पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।ऊचुर्बहुजना वाचः शोकोपहतचेतसः॥ ५॥
पदातिम् स अनुजम् दृष्ट्वा स सीतम् च जनाः तदा।ऊचुः बहु-जनाः वाचः शोक-उपहत-चेतसः॥ ५॥
padātim sa anujam dṛṣṭvā sa sītam ca janāḥ tadā.ūcuḥ bahu-janāḥ vācaḥ śoka-upahata-cetasaḥ.. 5..
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥ ६॥
यम् यान्तम् अनुयाति स्म चतुर्-अङ्ग-बलम् महत्।तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः॥ ६॥
yam yāntam anuyāti sma catur-aṅga-balam mahat.tam ekam sītayā sārdham anuyāti sma lakṣmaṇaḥ.. 6..
ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्।नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात्॥ ७॥
ऐश्वर्यस्य रसज्ञः सन् कामानाम् च आकरः महान्।न इच्छति एव अनृतम् कर्तुम् वचनम् धर्म-गौरवात्॥ ७॥
aiśvaryasya rasajñaḥ san kāmānām ca ākaraḥ mahān.na icchati eva anṛtam kartum vacanam dharma-gauravāt.. 7..
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥ ८॥
या न शक्या पुरा द्रष्टुम् भूतैः आकाश-गैः अपि।ताम् अद्य सीताम् पश्यन्ति राजमार्ग-गताः जनाः॥ ८॥
yā na śakyā purā draṣṭum bhūtaiḥ ākāśa-gaiḥ api.tām adya sītām paśyanti rājamārga-gatāḥ janāḥ.. 8..
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्॥ ९॥
अङ्गराग-उचिताम् सीताम् रक्तचन्दन-सेविनीम्।वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्ण-ताम्॥ ९॥
aṅgarāga-ucitām sītām raktacandana-sevinīm.varṣam uṣṇam ca śītam ca neṣyati āśu vivarṇa-tām.. 9..
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।नहि राजा प्रियं पुत्रं विवासयितुमर्हति॥ १०॥
अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते।नहि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति॥ १०॥
adya nūnam daśarathaḥ sattvam āviśya bhāṣate.nahi rājā priyam putram vivāsayitum arhati.. 10..
निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्।किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥ ११॥
निर्गुणस्य अपि पुत्रस्य कथम् स्यात् विनिवासनम्।किम् पुनर् यस्य लोकः अयम् जितः वृत्तेन केवलम्॥ ११॥
nirguṇasya api putrasya katham syāt vinivāsanam.kim punar yasya lokaḥ ayam jitaḥ vṛttena kevalam.. 11..
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्॥ १२॥
आनृशंस्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः।राघवम् शोभयन्ति एते षष्-गुणाः पुरुष-ऋषभम्॥ १२॥
ānṛśaṃsyam anukrośaḥ śrutam śīlam damaḥ śamaḥ.rāghavam śobhayanti ete ṣaṣ-guṇāḥ puruṣa-ṛṣabham.. 12..
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः।औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्॥ १३॥
तस्मात् तस्य उपघातेन प्रजाः परम-पीडिताः।औदकानि इव सत्त्वानि ग्रीष्मे सलिल-संक्षयात्॥ १३॥
tasmāt tasya upaghātena prajāḥ parama-pīḍitāḥ.audakāni iva sattvāni grīṣme salila-saṃkṣayāt.. 13..
पीडया पीडितं सर्वं जगदस्य जगत्पतेः।मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥ १४॥
पीडया पीडितम् सर्वम् जगत् अस्य जगत्पतेः।मूलस्य इव उपघातेन वृक्षः पुष्प-फल-उपगः॥ १४॥
pīḍayā pīḍitam sarvam jagat asya jagatpateḥ.mūlasya iva upaghātena vṛkṣaḥ puṣpa-phala-upagaḥ.. 14..
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः॥ १५॥
मूलम् हि एष मनुष्याणाम् धर्म-सारः महा-द्युतिः।पुष्पम् फलम् च पत्रम् च शाखाः च अस्य इतरे जनाः॥ १५॥
mūlam hi eṣa manuṣyāṇām dharma-sāraḥ mahā-dyutiḥ.puṣpam phalam ca patram ca śākhāḥ ca asya itare janāḥ.. 15..
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।गच्छन्तमनुगच्छामो येन गच्छति राघवः॥ १६॥
ते लक्ष्मणः इव क्षिप्रम् स पत्न्यः सहबान्धवाः।गच्छन्तम् अनुगच्छामः येन गच्छति राघवः॥ १६॥
te lakṣmaṇaḥ iva kṣipram sa patnyaḥ sahabāndhavāḥ.gacchantam anugacchāmaḥ yena gacchati rāghavaḥ.. 16..
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥ १७॥
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।एक-दुःख-सुखाः रामम् अनुगच्छाम धार्मिकम्॥ १७॥
udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca.eka-duḥkha-sukhāḥ rāmam anugacchāma dhārmikam.. 17..
समुद्धृतनिधानानि परिध्वस्ताजिराणि च।उपात्तधनधान्यानि हृतसाराणि सर्वशः॥ १८॥
समुद्धृत-निधानानि परिध्वस्त-अजिराणि च।उपात्त-धन-धान्यानि हृत-साराणि सर्वशस्॥ १८॥
samuddhṛta-nidhānāni paridhvasta-ajirāṇi ca.upātta-dhana-dhānyāni hṛta-sārāṇi sarvaśas.. 18..
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।मूषकैः परिधावद्भिरुद्बिलैरावृतानि च॥ १९॥
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः।मूषकैः परिधावद्भिः उद्बिलैः आवृतानि च॥ १९॥
rajasā abhyavakīrṇāni parityaktāni daivataiḥ.mūṣakaiḥ paridhāvadbhiḥ udbilaiḥ āvṛtāni ca.. 19..
अपेतोदकधूमानि हीनसम्मार्जनानि च।प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च॥ २०॥
अपेत-उदक-धूमानि हीन-सम्मार्जनानि च।प्रणष्ट-बलि-कर्म-इज्या-मन्त्र-होम-जपानि च॥ २०॥
apeta-udaka-dhūmāni hīna-sammārjanāni ca.praṇaṣṭa-bali-karma-ijyā-mantra-homa-japāni ca.. 20..
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्॥ २१॥
दुष्कालेन इव भग्नानि भिन्न-भाजनवन्ति च।अस्मद्-त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्॥ २१॥
duṣkālena iva bhagnāni bhinna-bhājanavanti ca.asmad-tyaktāni kaikeyī veśmāni pratipadyatām.. 21..
वनं नगरमेवास्तु येन गच्छति राघवः।अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्॥ २२॥
वनम् नगरम् एव अस्तु येन गच्छति राघवः।अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम्॥ २२॥
vanam nagaram eva astu yena gacchati rāghavaḥ.asmābhiḥ ca parityaktam puram sampadyatām vanam.. 22..
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि॥ २३॥
बिलानि दंष्ट्रिणः सर्वे सानूनि मृग-पक्षिणः।त्यजन्तु अस्मद्-भयात् भीताः गजाः सिंहाः वनानि अपि॥ २३॥
bilāni daṃṣṭriṇaḥ sarve sānūni mṛga-pakṣiṇaḥ.tyajantu asmad-bhayāt bhītāḥ gajāḥ siṃhāḥ vanāni api.. 23..
अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च।तृणमांसफलादानां देशं व्यालमृगद्विजम्॥ २४॥
अस्मद्-त्यक्तम् प्रपद्यन्तु सेव्यमानम् त्यजन्तु च।तृण-मांस-फल-आदानाम् देशम् व्याल-मृग-द्विजम्॥ २४॥
asmad-tyaktam prapadyantu sevyamānam tyajantu ca.tṛṇa-māṃsa-phala-ādānām deśam vyāla-mṛga-dvijam.. 24..
प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।राघवेण वयं सर्वे वने वत्स्याम निर्वृताः॥ २५॥
प्रपद्यताम् हि कैकेयी स पुत्रा सह बान्धवैः।राघवेण वयम् सर्वे वने वत्स्याम निर्वृताः॥ २५॥
prapadyatām hi kaikeyī sa putrā saha bāndhavaiḥ.rāghaveṇa vayam sarve vane vatsyāma nirvṛtāḥ.. 25..
इत्येवं विविधा वाचो नानाजनसमीरिताः।शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम्॥ २६॥
इति एवम् विविधाः वाचः नाना जन-समीरिताः।शुश्राव राघवः श्रुत्वा न विचक्रे अस्य मानसम्॥ २६॥
iti evam vividhāḥ vācaḥ nānā jana-samīritāḥ.śuśrāva rāghavaḥ śrutvā na vicakre asya mānasam.. 26..
स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्।अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः॥ २७॥
स तु वेश्म पुनर् मातुः कैलास-शिखर-प्रभम्।अभिचक्राम धर्म-आत्मा मत्त-मातङ्ग-विक्रमः॥ २७॥
sa tu veśma punar mātuḥ kailāsa-śikhara-prabham.abhicakrāma dharma-ātmā matta-mātaṅga-vikramaḥ.. 27..
विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः॥ २८॥
विनीत-वीर-पुरुषम् प्रविश्य तु नृप-आलयम्।ददर्श अवस्थितम् दीनम् सुमन्त्रम् अविदूरतः॥ २८॥
vinīta-vīra-puruṣam praviśya tu nṛpa-ālayam.dadarśa avasthitam dīnam sumantram avidūrataḥ.. 28..
प्रतीक्षमाणोऽभिजनं तदार्त- मनार्तरूपः प्रहसन्निवाथ।जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः॥ २९॥
प्रतीक्षमाणः अभिजनम् तदा आर्त-मनाः-आर्त-रूपः प्रहसन् इव अथ।जगाम रामः पितरम् दिदृक्षुः पितुः निदेशम् विधिवत् चिकीर्षुः॥ २९॥
pratīkṣamāṇaḥ abhijanam tadā ārta-manāḥ-ārta-rūpaḥ prahasan iva atha.jagāma rāmaḥ pitaram didṛkṣuḥ pituḥ nideśam vidhivat cikīrṣuḥ.. 29..
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् नृपमार्तरूपम्।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्॥ ३०॥
तत् पूर्वम् ऐक्ष्वाक-सुतः महात्मा रामः गमिष्यन् नृपम् आर्त-रूपम्।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् पितुः महात्मा प्रतिहारण-अर्थम्॥ ३०॥
tat pūrvam aikṣvāka-sutaḥ mahātmā rāmaḥ gamiṣyan nṛpam ārta-rūpam.vyatiṣṭhata prekṣya tadā sumantram pituḥ mahātmā pratihāraṇa-artham.. 30..
पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः।स राघवः प्रेक्ष्य सुमन्त्रमब्रवी- न्निवेदयस्वागमनं नृपाय मे॥ ३१॥
पितुः निदेशेन तु धर्म-वत्सलः वन-प्रवेशे कृत-बुद्धि-निश्चयः।स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीत् निवेदयस्व आगमनम् नृपाय मे॥ ३१॥
pituḥ nideśena tu dharma-vatsalaḥ vana-praveśe kṛta-buddhi-niścayaḥ.sa rāghavaḥ prekṣya sumantram abravīt nivedayasva āgamanam nṛpāya me.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे त्रयस्त्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe trayastriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In