This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुस्त्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe catustriṃśaḥ sargaḥ ..2..
ततः कमलपत्राक्षः श्यामो निरुपमो महान्।उवाच रामस्तं सूतं पितुराख्याहि मामिति॥ १॥
ततस् कमल-पत्र-अक्षः श्यामः निरुपमः महान्।उवाच रामः तम् सूतम् पितुः आख्याहि माम् इति॥ १॥
tatas kamala-patra-akṣaḥ śyāmaḥ nirupamaḥ mahān.uvāca rāmaḥ tam sūtam pituḥ ākhyāhi mām iti.. 1..
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्।प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह॥ २॥
स राम-प्रेषितः क्षिप्रम् संताप-कलुष-इन्द्रियम्।प्रविश्य नृपतिम् सूतः निःश्वसन्तम् ददर्श ह॥ २॥
sa rāma-preṣitaḥ kṣipram saṃtāpa-kaluṣa-indriyam.praviśya nṛpatim sūtaḥ niḥśvasantam dadarśa ha.. 2..
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥ ३॥
उपरक्तम् इव आदित्यम् भस्म-छन्नम् इव अनलम्।तटाकम् इव निस्तोयम् अपश्यत् जगतीपतिम्॥ ३॥
uparaktam iva ādityam bhasma-channam iva analam.taṭākam iva nistoyam apaśyat jagatīpatim.. 3..
आबोध्य च महाप्राज्ञः परमाकुलचेतनम्।राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत्॥ ४॥
आबोध्य च महा-प्राज्ञः परम-आकुल-चेतनम्।रामम् एव अनुशोचन्तम् सूतः प्राञ्जलिः अब्रवीत्॥ ४॥
ābodhya ca mahā-prājñaḥ parama-ākula-cetanam.rāmam eva anuśocantam sūtaḥ prāñjaliḥ abravīt.. 4..
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा।भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्॥ ५॥
तम् वर्धयित्वा राजानम् पूर्वम् सूतः जय-आशिषा।भय-विक्लवया वाचा मन्दया श्लक्ष्णया अब्रवीत्॥ ५॥
tam vardhayitvā rājānam pūrvam sūtaḥ jaya-āśiṣā.bhaya-viklavayā vācā mandayā ślakṣṇayā abravīt.. 5..
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्॥ ६॥
अयम् स पुरुष-व्याघ्रः द्वारि तिष्ठति ते सुतः।ब्राह्मणेभ्यः धनम् दत्त्वा सर्वम् च एव उपजीविनाम्॥ ६॥
ayam sa puruṣa-vyāghraḥ dvāri tiṣṭhati te sutaḥ.brāhmaṇebhyaḥ dhanam dattvā sarvam ca eva upajīvinām.. 6..
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः।सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते॥ ७॥
स त्वाम् पश्यतु भद्रम् ते रामः सत्य-पराक्रमः।सर्वान् सुहृदः आपृच्छ्य त्वाम् हि इदानीम् दिदृक्षते॥ ७॥
sa tvām paśyatu bhadram te rāmaḥ satya-parākramaḥ.sarvān suhṛdaḥ āpṛcchya tvām hi idānīm didṛkṣate.. 7..
गमिष्यति महारण्यं तं पश्य जगतीपते।वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः॥ ८॥
गमिष्यति महा-अरण्यम् तम् पश्य जगतीपते।वृतम् राज-गुणैः सर्वैः आदित्यम् इव रश्मिभिः॥ ८॥
gamiṣyati mahā-araṇyam tam paśya jagatīpate.vṛtam rāja-guṇaiḥ sarvaiḥ ādityam iva raśmibhiḥ.. 8..
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः।आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्॥ ९॥
स सत्य-वाक्यः धर्म-आत्मा गाम्भीर्यात् सागर-उपमः।आकाशः इव निष्पङ्कः नरेन्द्रः प्रत्युवाच तम्॥ ९॥
sa satya-vākyaḥ dharma-ātmā gāmbhīryāt sāgara-upamaḥ.ākāśaḥ iva niṣpaṅkaḥ narendraḥ pratyuvāca tam.. 9..
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्॥ १०॥
सुमन्त्र आनय मे दारान् ये केचिद् इह मामकाः।दारैः परिवृतः सर्वैः द्रष्टुम् इच्छामि राघवम्॥ १०॥
sumantra ānaya me dārān ye kecid iha māmakāḥ.dāraiḥ parivṛtaḥ sarvaiḥ draṣṭum icchāmi rāghavam.. 10..
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्॥ ११॥
सः अन्तःपुरम् अतीत्य एव स्त्रियः ताः वाक्यम् अब्रवीत्।आर्यः ह्वयति वः राजा गम्यताम् तत्र मा चिरम्॥ ११॥
saḥ antaḥpuram atītya eva striyaḥ tāḥ vākyam abravīt.āryaḥ hvayati vaḥ rājā gamyatām tatra mā ciram.. 11..
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया।प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम्॥ १२॥
एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप-आज्ञया।प्रचक्रमुः तत् भवनम् भर्तुः आज्ञाय शासनम्॥ १२॥
evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpa-ājñayā.pracakramuḥ tat bhavanam bhartuḥ ājñāya śāsanam.. 12..
अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः।कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः॥ १३॥
अर्धसप्तशताः तत्र प्रमदाः ताम्र-लोचनाः।कौसल्याम् परिवार्य अथ शनैस् जग्मुः धृत-व्रताः॥ १३॥
ardhasaptaśatāḥ tatra pramadāḥ tāmra-locanāḥ.kausalyām parivārya atha śanais jagmuḥ dhṛta-vratāḥ.. 13..
आगतेषु च दारेषु समवेक्ष्य महीपतिः।उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्॥ १४॥
आगतेषु च दारेषु समवेक्ष्य महीपतिः।उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम्॥ १४॥
āgateṣu ca dāreṣu samavekṣya mahīpatiḥ.uvāca rājā tam sūtam sumantra ānaya me sutam.. 14..
स सूतो राममादाय लक्ष्मणं मैथिलीं तथा।जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः॥ १५॥
स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तथा।जगाम अभिमुखः तूर्णम् सकाशम् जगतीपतेः॥ १५॥
sa sūtaḥ rāmam ādāya lakṣmaṇam maithilīm tathā.jagāma abhimukhaḥ tūrṇam sakāśam jagatīpateḥ.. 15..
स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्।उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः॥ १६॥
स राजा पुत्रम् आयान्तम् दृष्ट्वा चारात् कृत-अञ्जलिम्।उत्पपात आसनात् तूर्णम् आर्तः स्त्री-जन-संवृतः॥ १६॥
sa rājā putram āyāntam dṛṣṭvā cārāt kṛta-añjalim.utpapāta āsanāt tūrṇam ārtaḥ strī-jana-saṃvṛtaḥ.. 16..
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः॥ १७॥
सः अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः।दुःख-आर्तः पपात भुवि मूर्च्छितः॥ १७॥
saḥ abhidudrāva vegena rāmam dṛṣṭvā viśām patiḥ.duḥkha-ārtaḥ papāta bhuvi mūrcchitaḥ.. 17..
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः।विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा॥ १८॥
तम् रामः अभ्यपतत् क्षिप्रम् लक्ष्मणः च महा-रथः।विसंज्ञम् इव दुःखेन स शोकम् नृपतिम् तथा॥ १८॥
tam rāmaḥ abhyapatat kṣipram lakṣmaṇaḥ ca mahā-rathaḥ.visaṃjñam iva duḥkhena sa śokam nṛpatim tathā.. 18..
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि।हा हा रामेति सहसा भूषणध्वनिमिश्रितः॥ १९॥
स्त्री-सहस्र-निनादः च संजज्ञे राज-वेश्मनि।हा हा राम इति सहसा भूषण-ध्वनि-मिश्रितः॥ १९॥
strī-sahasra-ninādaḥ ca saṃjajñe rāja-veśmani.hā hā rāma iti sahasā bhūṣaṇa-dhvani-miśritaḥ.. 19..
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्॥ २०॥
तम् परिष्वज्य बाहुभ्याम् तौ उभौ राम-लक्ष्मणौ।पर्यङ्के सीतया सार्धम् रुदन्तः समवेशयन्॥ २०॥
tam pariṣvajya bāhubhyām tau ubhau rāma-lakṣmaṇau.paryaṅke sītayā sārdham rudantaḥ samaveśayan.. 20..
अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्।उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम्॥ २१॥
अथ रामः मुहूर्तस्य लब्ध-संज्ञम् महीपतिम्।उवाच प्राञ्जलिः बाष्प-शोक-अर्णव-परिप्लुतम्॥ २१॥
atha rāmaḥ muhūrtasya labdha-saṃjñam mahīpatim.uvāca prāñjaliḥ bāṣpa-śoka-arṇava-pariplutam.. 21..
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः।प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्॥ २२॥
आपृच्छे त्वाम् महा-राज सर्वेषाम् ईश्वरः असि नः।प्रस्थितम् दण्डक-अरण्यम् पश्य त्वम् कुशलेन माम्॥ २२॥
āpṛcche tvām mahā-rāja sarveṣām īśvaraḥ asi naḥ.prasthitam daṇḍaka-araṇyam paśya tvam kuśalena mām.. 22..
लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्।कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः॥ २३॥
लक्ष्मणम् च अनुजानीहि सीता च अन्वेतु माम् वनम्।कारणैः बहुभिः तथ्यैः वार्यमाणौ न च इच्छतः॥ २३॥
lakṣmaṇam ca anujānīhi sītā ca anvetu mām vanam.kāraṇaiḥ bahubhiḥ tathyaiḥ vāryamāṇau na ca icchataḥ.. 23..
अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद।लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्॥ २४॥
अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद।लक्ष्मणम् माम् च सीताम् च प्रजापतिः इव आत्मजान्॥ २४॥
anujānīhi sarvān naḥ śokam utsṛjya mānada.lakṣmaṇam mām ca sītām ca prajāpatiḥ iva ātmajān.. 24..
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्॥ २५॥
प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगतीपतेः।उवाच राजा सम्प्रेक्ष्य वन-वासाय राघवम्॥ २५॥
pratīkṣamāṇam avyagram anujñām jagatīpateḥ.uvāca rājā samprekṣya vana-vāsāya rāghavam.. 25..
अहं राघव कैकेय्या वरदानेन मोहितः।अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्॥ २६॥
अहम् राघव कैकेय्याः वर-दानेन मोहितः।अयोध्यायाम् त्वम् एव अद्य भव राजा निगृह्य माम्॥ २६॥
aham rāghava kaikeyyāḥ vara-dānena mohitaḥ.ayodhyāyām tvam eva adya bhava rājā nigṛhya mām.. 26..
एवमुक्तो नृपतिना रामो धर्मभृतां वरः।प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः॥ २७॥
एवम् उक्तः नृपतिना रामः धर्म-भृताम् वरः।प्रत्युवाच अञ्जलिम् कृत्वा पितरम् वाक्य-कोविदः॥ २७॥
evam uktaḥ nṛpatinā rāmaḥ dharma-bhṛtām varaḥ.pratyuvāca añjalim kṛtvā pitaram vākya-kovidaḥ.. 27..
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः।अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता॥ २८॥
भवान् वर्ष-सहस्राय पृथिव्याः नृपते पतिः।अहम् तु अरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता॥ २८॥
bhavān varṣa-sahasrāya pṛthivyāḥ nṛpate patiḥ.aham tu araṇye vatsyāmi na me rājyasya kāṃkṣitā.. 28..
नव पञ्च च वर्षाणि वनवासे विहृत्य ते।पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप॥ २९॥
नव पञ्च च वर्षाणि वन-वासे विहृत्य ते।पुनर् पादौ ग्रहीष्यामि प्रतिज्ञा-अन्ते नराधिप॥ २९॥
nava pañca ca varṣāṇi vana-vāse vihṛtya te.punar pādau grahīṣyāmi pratijñā-ante narādhipa.. 29..
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः।कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्॥ ३०॥
रुदन् आर्तः प्रियम् पुत्रम् सत्य-पाशेन संयुतः।कैकेय्या चोद्यमानः तु मिथस् राजा तम् अब्रवीत्॥ ३०॥
rudan ārtaḥ priyam putram satya-pāśena saṃyutaḥ.kaikeyyā codyamānaḥ tu mithas rājā tam abravīt.. 30..
श्रेयसे वृद्धये तात पुनरागमनाय च।गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्॥ ३१॥
श्रेयसे वृद्धये तात पुनरागमनाय च।गच्छस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतोभयम्॥ ३१॥
śreyase vṛddhaye tāta punarāgamanāya ca.gacchasva ariṣṭam avyagraḥ panthānam akutobhayam.. 31..
न हि सत्यात्मनस्तात धर्माभिमनसस्तव।संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन॥ ३२॥
न हि सत्य-आत्मनः तात धर्म-अभिमनसः तव।संनिवर्तयितुम् बुद्धिः शक्यते रघुनन्दन॥ ३२॥
na hi satya-ātmanaḥ tāta dharma-abhimanasaḥ tava.saṃnivartayitum buddhiḥ śakyate raghunandana.. 32..
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा।एकाहं दर्शनेनापि साधु तावच्चराम्यहम्॥ ३३॥
अद्य तु इदानीम् रजनीम् पुत्र मा गच्छ सर्वथा।एका अहम् दर्शनेन अपि साधु तावत् चरामि अहम्॥ ३३॥
adya tu idānīm rajanīm putra mā gaccha sarvathā.ekā aham darśanena api sādhu tāvat carāmi aham.. 33..
मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्।तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि॥ ३४॥
मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम्।तर्पितः सर्व-कामैः त्वम् श्वस् काल्ये साधयिष्यसि॥ ३४॥
mātaram mām ca sampaśyan vasa imām adya śarvarīm.tarpitaḥ sarva-kāmaiḥ tvam śvas kālye sādhayiṣyasi.. 34..
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय।त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम्॥ ३५॥
दुष्करम् क्रियते पुत्र सर्वथा राघव प्रिय।त्वया हि मद्-प्रिय-अर्थम् तु वनम् एवम् उपाश्रितम्॥ ३५॥
duṣkaram kriyate putra sarvathā rāghava priya.tvayā hi mad-priya-artham tu vanam evam upāśritam.. 35..
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव।छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया॥ ३६॥
न च एतत् मे प्रियम् पुत्र शपे सत्येन राघव।छन्नया चलितः तु अस्मि स्त्रिया भस्म-अग्नि-कल्पया॥ ३६॥
na ca etat me priyam putra śape satyena rāghava.channayā calitaḥ tu asmi striyā bhasma-agni-kalpayā.. 36..
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः॥ ३७॥
वञ्चना या तु लब्धा मे ताम् त्वम् निस्तर्तुम् इच्छसि।अनया वृत्त-सादिन्या कैकेय्या अभिप्रचोदितः॥ ३७॥
vañcanā yā tu labdhā me tām tvam nistartum icchasi.anayā vṛtta-sādinyā kaikeyyā abhipracoditaḥ.. 37..
न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम।अपानृतकथं पुत्र पितरं कर्तुमिच्छसि॥ ३८॥
न च एतत् आश्चर्यतमम् यत् त्वम् ज्येष्ठः सुतः मम।अपानृत-कथम् पुत्र पितरम् कर्तुम् इच्छसि॥ ३८॥
na ca etat āścaryatamam yat tvam jyeṣṭhaḥ sutaḥ mama.apānṛta-katham putra pitaram kartum icchasi.. 38..
अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्।लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्॥ ३९॥
अथ रामः तदा श्रुत्वा पितुः आर्तस्य भाषितम्।लक्ष्मणेन सह भ्रात्रा दीनः वचनम् अब्रवीत्॥ ३९॥
atha rāmaḥ tadā śrutvā pituḥ ārtasya bhāṣitam.lakṣmaṇena saha bhrātrā dīnaḥ vacanam abravīt.. 39..
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।अपक्रमणमेवातः सर्वकामैरहं वृणे॥ ४०॥
प्राप्स्यामि यान् अद्य गुणान् कः मे श्वस् तान् प्रदास्यति।अपक्रमणम् एव अतस् सर्व-कामैः अहम् वृणे॥ ४०॥
prāpsyāmi yān adya guṇān kaḥ me śvas tān pradāsyati.apakramaṇam eva atas sarva-kāmaiḥ aham vṛṇe.. 40..
इयं सराष्ट्रा सजना धनधान्यसमाकुला।मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ ४१॥
इयम् स राष्ट्रा स जना धन-धान्य-समाकुला।मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ ४१॥
iyam sa rāṣṭrā sa janā dhana-dhānya-samākulā.mayā visṛṣṭā vasudhā bharatāya pradīyatām.. 41..
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति।यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया॥ ४२॥
वन-वास-कृता बुद्धिः न च मे अद्य चलिष्यति।यः तु युद्धे वरः दत्तः कैकेय्यै वर-द त्वया॥ ४२॥
vana-vāsa-kṛtā buddhiḥ na ca me adya caliṣyati.yaḥ tu yuddhe varaḥ dattaḥ kaikeyyai vara-da tvayā.. 42..
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव।अहं निदेशं भवतो यथोक्तमनुपालयन्॥ ४३॥
दीयताम् निखिलेन एव सत्यः त्वम् भव पार्थिव।अहम् निदेशम् भवतः यथा उक्तम् अनुपालयन्॥ ४३॥
dīyatām nikhilena eva satyaḥ tvam bhava pārthiva.aham nideśam bhavataḥ yathā uktam anupālayan.. 43..
चतुर्दश समा वत्स्ये वने वनचरैः सह।मा विमर्शो वसुमती भरताय प्रदीयताम्॥ ४४॥
चतुर्दश समाः वत्स्ये वने वन-चरैः सह।मा विमर्शः वसुमती भरताय प्रदीयताम्॥ ४४॥
caturdaśa samāḥ vatsye vane vana-caraiḥ saha.mā vimarśaḥ vasumatī bharatāya pradīyatām.. 44..
नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम्।यथानिदेशं कर्तुं वै तवैव रघुनन्दन॥ ४५॥
नहि मे कांक्षितम् राज्यम् सुखम् आत्मनि वा प्रियम्।यथा निदेशम् कर्तुम् वै तव एव रघुनन्दन॥ ४५॥
nahi me kāṃkṣitam rājyam sukham ātmani vā priyam.yathā nideśam kartum vai tava eva raghunandana.. 45..
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ४६॥
अपगच्छतु ते दुःखम् मा भूः बाष्प-परिप्लुतः।नहि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः॥ ४६॥
apagacchatu te duḥkham mā bhūḥ bāṣpa-pariplutaḥ.nahi kṣubhyati durdharṣaḥ samudraḥ saritām patiḥ.. 46..
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्।नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम्॥ ४७॥
न एव अहम् राज्यम् इच्छामि न सुखम् न च मेदिनीम्।न एव सर्वान् इमान् कामान् न स्वर्गम् न च जीवितुम्॥ ४७॥
na eva aham rājyam icchāmi na sukham na ca medinīm.na eva sarvān imān kāmān na svargam na ca jīvitum.. 47..
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ।प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे॥ ४८॥
त्वाम् अहम् सत्यम् इच्छामि न अनृतम् पुरुष-ऋषभ।प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे॥ ४८॥
tvām aham satyam icchāmi na anṛtam puruṣa-ṛṣabha.pratyakṣam tava satyena sukṛtena ca te śape.. 48..
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो।स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः॥ ४९॥
न च शक्यम् मया तात स्थातुम् क्षणम् अपि प्रभो।स शोकम् धारयस्व इमम् नहि मे अस्ति विपर्ययः॥ ४९॥
na ca śakyam mayā tāta sthātum kṣaṇam api prabho.sa śokam dhārayasva imam nahi me asti viparyayaḥ.. 49..
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव।मया चोक्तं व्रजामीति तत्सत्यमनुपालये॥ ५०॥
अर्थितः हि अस्मि कैकेय्याः वनम् गच्छ इति राघव।मया च उक्तम् व्रजामि इति तत् सत्यम् अनुपालये॥ ५०॥
arthitaḥ hi asmi kaikeyyāḥ vanam gaccha iti rāghava.mayā ca uktam vrajāmi iti tat satyam anupālaye.. 50..
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्।प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते॥ ५१॥
मा च उत्कण्ठाम् कृथाः देव वने रंस्यामहे वयम्।प्रशान्त-हरिण-आकीर्णे नाना शकुनि-नादिते॥ ५१॥
mā ca utkaṇṭhām kṛthāḥ deva vane raṃsyāmahe vayam.praśānta-hariṇa-ākīrṇe nānā śakuni-nādite.. 51..
पिता हि दैवतं तात देवतानामपि स्मृतम्।तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः॥ ५२॥
पिता हि दैवतम् तात देवतानाम् अपि स्मृतम्।तस्मात् दैवतम् इति एव करिष्यामि पितुः वचः॥ ५२॥
pitā hi daivatam tāta devatānām api smṛtam.tasmāt daivatam iti eva kariṣyāmi pituḥ vacaḥ.. 52..
चतुर्दशसु वर्षेषु गतेषु नृपसत्तम।पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्॥ ५३॥
चतुर्दशसु वर्षेषु गतेषु नृप-सत्तम।पुनर् द्रक्ष्यसि माम् प्राप्तम् संतापः अयम् विमुच्यताम्॥ ५३॥
caturdaśasu varṣeṣu gateṣu nṛpa-sattama.punar drakṣyasi mām prāptam saṃtāpaḥ ayam vimucyatām.. 53..
येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः।स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः॥ ५४॥
येन संस्तम्भनीयः अयम् सर्वः बाष्प-कलः जनः।स त्वम् पुरुष-शार्दूल किमर्थम् विक्रियाम् गतः॥ ५४॥
yena saṃstambhanīyaḥ ayam sarvaḥ bāṣpa-kalaḥ janaḥ.sa tvam puruṣa-śārdūla kimartham vikriyām gataḥ.. 54..
पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम्।अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्॥ ५५॥
पुरम् च राष्ट्रम् च मही च केवला मया विसृष्टा भरताय दीयताम्।अहम् निदेशम् भवतः अनुपालयन् वनम् गमिष्यामि चिराय सेवितुम्॥ ५५॥
puram ca rāṣṭram ca mahī ca kevalā mayā visṛṣṭā bharatāya dīyatām.aham nideśam bhavataḥ anupālayan vanam gamiṣyāmi cirāya sevitum.. 55..
मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम्।शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्॥ ५६॥
मया विसृष्टाम् भरतः महीम् इमाम् स शैल-खण्डाम् स पुर-उपकाननाम्।शिवासु सीमासु अनुशास्तु केवलम् त्वया यत् उक्तम् नृपते तथा अस्तु तत्॥ ५६॥
mayā visṛṣṭām bharataḥ mahīm imām sa śaila-khaṇḍām sa pura-upakānanām.śivāsu sīmāsu anuśāstu kevalam tvayā yat uktam nṛpate tathā astu tat.. 56..
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये।यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ॥ ५७॥
न मे तथा पार्थिव धीयते मनः महत्सु कामेषु न च आत्मनः प्रिये।यथा निदेशे तव शिष्ट-सम्मते व्यपैतु दुःखम् तव मद्-कृते अनघ॥ ५७॥
na me tathā pārthiva dhīyate manaḥ mahatsu kāmeṣu na ca ātmanaḥ priye.yathā nideśe tava śiṣṭa-sammate vyapaitu duḥkham tava mad-kṛte anagha.. 57..
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान् वसुधां न मैथिलीम्।न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा॥ ५८॥
तत् अद्य न एव अनघ राज्यम् अव्ययम् न सर्व-कामान् वसुधाम् न मैथिलीम्।न चिन्तितम् त्वाम् अनृतेन योजयन् वृणीय सत्यम् व्रतम् अस्तु ते तथा॥ ५८॥
tat adya na eva anagha rājyam avyayam na sarva-kāmān vasudhām na maithilīm.na cintitam tvām anṛtena yojayan vṛṇīya satyam vratam astu te tathā.. 58..
फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च।वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः॥ ५९॥
फलानि मूलानि च भक्षयन् वने गिरीन् च पश्यन् सरितः सरांसि च।वनम् प्रविश्य एव विचित्र-पादपम् सुखी भविष्यामि तव अस्तु निर्वृतिः॥ ५९॥
phalāni mūlāni ca bhakṣayan vane girīn ca paśyan saritaḥ sarāṃsi ca.vanam praviśya eva vicitra-pādapam sukhī bhaviṣyāmi tava astu nirvṛtiḥ.. 59..
एवं स राजा व्यसनाभिपन्न- स्तापेन दुःखेन च पीड्यमानः।आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव चिचेष्ट किंचित्॥ ६०॥
एवम् स राजा व्यसन-अभिपन्नः तापेन दुःखेन च पीड्यमानः।आलिङ्ग्य पुत्रम् सु विनष्ट-संज्ञः भूमिम् गतः ना एव चिचेष्ट किंचिद्॥ ६०॥
evam sa rājā vyasana-abhipannaḥ tāpena duḥkhena ca pīḍyamānaḥ.āliṅgya putram su vinaṣṭa-saṃjñaḥ bhūmim gataḥ nā eva ciceṣṭa kiṃcid.. 60..
देव्यः समस्ता रुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम्।रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम्॥ ६१॥
देव्यः समस्ताः रुरुदुः समेताः स्ताम् वर्जयित्वा नरदेव-पत्नीम्।रुदन् सुमन्त्रः अपि जगाम मूर्च्छाम् हाहाकृतम् तत्र बभूव सर्वम्॥ ६१॥
devyaḥ samastāḥ ruruduḥ sametāḥ stām varjayitvā naradeva-patnīm.rudan sumantraḥ api jagāma mūrcchām hāhākṛtam tatra babhūva sarvam.. 61..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे चतुस्त्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe catustriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In