This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चत्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcatriṃśaḥ sargaḥ ..2..
ततो निधूय सहसा शिरो निःश्वस्य चासकृत्।पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च॥ १॥
ततस् निधूय सहसा शिरः निःश्वस्य च असकृत्।पाणिम् पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च॥ १॥
tatas nidhūya sahasā śiraḥ niḥśvasya ca asakṛt.pāṇim pāṇau viniṣpiṣya dantān kaṭakaṭāyya ca.. 1..
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।कोपाभिभूतः सहसा संतापमशुभं गतः॥ २॥
लोचने कोप-संरक्ते वर्णम् पूर्व-उचितम् जहत्।कोप-अभिभूतः सहसा संतापम् अशुभम् गतः॥ २॥
locane kopa-saṃrakte varṇam pūrva-ucitam jahat.kopa-abhibhūtaḥ sahasā saṃtāpam aśubham gataḥ.. 2..
मनः समीक्षमाणश्च सूतो दशरथस्य च।कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः॥ ३॥
मनः समीक्षमाणः च सूतः दशरथस्य च।कम्पयन् इव कैकेय्याः हृदयम् वाच्-शरैः शितैः॥ ३॥
manaḥ samīkṣamāṇaḥ ca sūtaḥ daśarathasya ca.kampayan iva kaikeyyāḥ hṛdayam vāc-śaraiḥ śitaiḥ.. 3..
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः।कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत॥ ४॥
वाक्य-वज्रैः अनुपमैः निर्भिन्दन् इव च अशुभैः।कैकेय्याः सर्व-मर्माणि सुमन्त्रः प्रत्यभाषत॥ ४॥
vākya-vajraiḥ anupamaiḥ nirbhindan iva ca aśubhaiḥ.kaikeyyāḥ sarva-marmāṇi sumantraḥ pratyabhāṣata.. 4..
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्।भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च॥ ५॥
यस्याः तव पतिः त्यक्तः राजा दशरथः स्वयम्।भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च॥ ५॥
yasyāḥ tava patiḥ tyaktaḥ rājā daśarathaḥ svayam.bhartā sarvasya jagataḥ sthāvarasya carasya ca.. 5..
नह्यकार्यतमं किंचित्तव देवीह विद्यते।पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः॥ ६॥
न हि अकार्यतमम् किंचिद् तव देवि इह विद्यते।पति-घ्नीम् त्वाम् अहम् मन्ये कुल-घ्नीम् अपि च अन्ततस्॥ ६॥
na hi akāryatamam kiṃcid tava devi iha vidyate.pati-ghnīm tvām aham manye kula-ghnīm api ca antatas.. 6..
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः॥ ७॥
यत् महा-इन्द्रम् इव अजय्यम् दुष्प्रकम्प्यम् इव अचलम्।महोदधिम् इव अक्षोभ्यम् संतापयसि कर्मभिः॥ ७॥
yat mahā-indram iva ajayyam duṣprakampyam iva acalam.mahodadhim iva akṣobhyam saṃtāpayasi karmabhiḥ.. 7..
मावमंस्था दशरथं भर्तारं वरदं पतिम्।भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते॥ ८॥
मा अवमंस्थाः दशरथम् भर्तारम् वर-दम् पतिम्।भर्तुः इच्छा हि नारीणाम् पुत्र-कोट्याः विशिष्यते॥ ८॥
mā avamaṃsthāḥ daśaratham bhartāram vara-dam patim.bhartuḥ icchā hi nārīṇām putra-koṭyāḥ viśiṣyate.. 8..
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि॥ ९॥
यथावयस् हि राज्यानि प्राप्नुवन्ति नृप-क्षये।इक्ष्वाकु-कुल-नाथे अस्मिन् तम् लोपयितुम् इच्छसि॥ ९॥
yathāvayas hi rājyāni prāpnuvanti nṛpa-kṣaye.ikṣvāku-kula-nāthe asmin tam lopayitum icchasi.. 9..
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्।वयं तत्र गमिष्यामो यत्र रामो गमिष्यति॥ १०॥
राजा भवतु ते पुत्रः भरतः शास्तु मेदिनीम्।वयम् तत्र गमिष्यामः यत्र रामः गमिष्यति॥ १०॥
rājā bhavatu te putraḥ bharataḥ śāstu medinīm.vayam tatra gamiṣyāmaḥ yatra rāmaḥ gamiṣyati.. 10..
न च ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति।तादृशं त्वममर्यादमद्य कर्म करिष्यसि॥ ११॥
न च ते विषये कश्चिद् ब्राह्मणः वस्तुम् अर्हति।तादृशम् त्वम् अमर्यादम् अद्य कर्म करिष्यसि॥ ११॥
na ca te viṣaye kaścid brāhmaṇaḥ vastum arhati.tādṛśam tvam amaryādam adya karma kariṣyasi.. 11..
नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्।त्यक्ता या बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा॥ १२॥
नूनम् सर्वे गमिष्यामः मार्गम् राम-निषेवितम्।त्यक्ता या बान्धवैः सर्वैः ब्राह्मणैः साधुभिः सदा॥ १२॥
nūnam sarve gamiṣyāmaḥ mārgam rāma-niṣevitam.tyaktā yā bāndhavaiḥ sarvaiḥ brāhmaṇaiḥ sādhubhiḥ sadā.. 12..
का प्रीती राज्यलाभेन तव देवि भविष्यति।तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि॥ १३॥
का प्रीतिः राज्य-लाभेन तव देवि भविष्यति।तादृशम् त्वम् अमर्यादम् कर्म कर्तुम् चिकीर्षसि॥ १३॥
kā prītiḥ rājya-lābhena tava devi bhaviṣyati.tādṛśam tvam amaryādam karma kartum cikīrṣasi.. 13..
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।आचरन्त्या न विवृता सद्यो भवति मेदिनी॥ १४॥
आश्चर्यम् इव पश्यामि यस्याः ते वृत्तम् ईदृशम्।आचरन्त्याः न विवृता सद्यस् भवति मेदिनी॥ १४॥
āścaryam iva paśyāmi yasyāḥ te vṛttam īdṛśam.ācarantyāḥ na vivṛtā sadyas bhavati medinī.. 14..
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः।धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्॥ १५॥
महा-ब्रह्मर्षि-सृष्टाः वा ज्वलन्तः भीम-दर्शनाः।धिक् वाग्दण्डाः न हिंसन्ति राम-प्रव्राजने स्थिताम्॥ १५॥
mahā-brahmarṣi-sṛṣṭāḥ vā jvalantaḥ bhīma-darśanāḥ.dhik vāgdaṇḍāḥ na hiṃsanti rāma-pravrājane sthitām.. 15..
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः।यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्॥ १६॥
आम्रम् छित्त्वा कुठारेण निम्बम् परिचरेत् तु कः।यः च एनम् पयसा सिञ्चेत् न एव अस्य मधुरः भवेत्॥ १६॥
āmram chittvā kuṭhāreṇa nimbam paricaret tu kaḥ.yaḥ ca enam payasā siñcet na eva asya madhuraḥ bhavet.. 16..
आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च।न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः॥ १७॥
आभिजात्यम् हि ते मन्ये यथा मातुः तथा एव च।न हि निम्बात् स्रवेत् क्षौद्रम् लोके निगदितम् वचः॥ १७॥
ābhijātyam hi te manye yathā mātuḥ tathā eva ca.na hi nimbāt sravet kṣaudram loke nigaditam vacaḥ.. 17..
तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम्।पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम्॥ १८॥
तव मातुः असत्-ग्राहम् विद्म पूर्वम् यथा श्रुतम्।पितुः ते वर-दः कश्चिद् ददौ वरम् अनुत्तमम्॥ १८॥
tava mātuḥ asat-grāham vidma pūrvam yathā śrutam.pituḥ te vara-daḥ kaścid dadau varam anuttamam.. 18..
सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः।तेन तिर्यग्गतानां च भूतानां विदितं वचः॥ १९॥
सर्व-भूत-रुतम् तस्मात् संजज्ञे वसुधाधिपः।तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः॥ १९॥
sarva-bhūta-rutam tasmāt saṃjajñe vasudhādhipaḥ.tena tiryaggatānām ca bhūtānām viditam vacaḥ.. 19..
ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः।पितुस्ते विदितो भावः स तत्र बहुधाहसत्॥ २०॥
ततस् जृम्भस्य शयने विरुतात् भूरि-वर्चसः।पितुः ते विदितः भावः स तत्र बहुधा अहसत्॥ २०॥
tatas jṛmbhasya śayane virutāt bhūri-varcasaḥ.pituḥ te viditaḥ bhāvaḥ sa tatra bahudhā ahasat.. 20..
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्॥ २१॥
तत्र ते जननी क्रुद्धा मृत्यु-पाशम् अभीप्सती।हासम् ते नृपते सौम्य जिज्ञासामि इति च अब्रवीत्॥ २१॥
tatra te jananī kruddhā mṛtyu-pāśam abhīpsatī.hāsam te nṛpate saumya jijñāsāmi iti ca abravīt.. 21..
नृपश्चोवाच तां देवीं हासं शंसामि ते यदि।ततो मे मरणं सद्यो भविष्यति न संशयः॥ २२॥
नृपः च उवाच ताम् देवीम् हासम् शंसामि ते यदि।ततस् मे मरणम् सद्यस् भविष्यति न संशयः॥ २२॥
nṛpaḥ ca uvāca tām devīm hāsam śaṃsāmi te yadi.tatas me maraṇam sadyas bhaviṣyati na saṃśayaḥ.. 22..
माता ते पितरं देवि पुनः केकयमब्रवीत्।शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि॥ २३॥
माता ते पितरम् देवि पुनर् केकयम् अब्रवीत्।शंस मे जीव वा मा वा न माम् त्वम् प्रहसिष्यसि॥ २३॥
mātā te pitaram devi punar kekayam abravīt.śaṃsa me jīva vā mā vā na mām tvam prahasiṣyasi.. 23..
प्रियया च तथोक्तः स केकयः पृथिवीपतिः।तस्मै तं वरदायार्थं कथयामास तत्त्वतः॥ २४॥
प्रियया च तथा उक्तः स केकयः पृथिवीपतिः।तस्मै तम् वर-दाय अर्थम् कथयामास तत्त्वतः॥ २४॥
priyayā ca tathā uktaḥ sa kekayaḥ pṛthivīpatiḥ.tasmai tam vara-dāya artham kathayāmāsa tattvataḥ.. 24..
ततः स वरदः साधू राजानं प्रत्यभाषत।म्रियतां ध्वंसतां वेयं मा शंसीस्त्वं महीपते॥ २५॥
ततस् स वर-दः साधुः राजानम् प्रत्यभाषत।म्रियताम् ध्वंसताम् वा इयम् मा शंसीः त्वम् महीपते॥ २५॥
tatas sa vara-daḥ sādhuḥ rājānam pratyabhāṣata.mriyatām dhvaṃsatām vā iyam mā śaṃsīḥ tvam mahīpate.. 25..
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः।मातरं ते निरस्याशु विजहार कुबेरवत्॥ २६॥
स तत् श्रुत्वा वचः तस्य प्रसन्न-मनसः नृपः।मातरम् ते निरस्य आशु विजहार कुबेर-वत्॥ २६॥
sa tat śrutvā vacaḥ tasya prasanna-manasaḥ nṛpaḥ.mātaram te nirasya āśu vijahāra kubera-vat.. 26..
तथा त्वमपि राजानं दुर्जनाचरिते पथि।असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनी॥ २७॥
तथा त्वम् अपि राजानम् दुर्जन-आचरिते पथि।असत्-ग्राहम् इमम् मोहात् कुरुषे पाप-दर्शिनी॥ २७॥
tathā tvam api rājānam durjana-ācarite pathi.asat-grāham imam mohāt kuruṣe pāpa-darśinī.. 27..
सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति मा।पितॄन् समनुजायन्ते नरा मातरमङ्गनाः॥ २८॥
सत्यः च अत्र प्रवादः अयम् लौकिकः प्रतिभाति मा।पितॄन् समनुजायन्ते नराः मातरम् अङ्गनाः॥ २८॥
satyaḥ ca atra pravādaḥ ayam laukikaḥ pratibhāti mā.pitṝn samanujāyante narāḥ mātaram aṅganāḥ.. 28..
नैवं भव गृहाणेदं यदाह वसुधाधिपः।भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव॥ २९॥
न एवम् भव गृहाण इदम् यत् आह वसुधाधिपः।भर्तुः इच्छाम् उपास्व इह जनस्य अस्य गतिः भव॥ २९॥
na evam bhava gṛhāṇa idam yat āha vasudhādhipaḥ.bhartuḥ icchām upāsva iha janasya asya gatiḥ bhava.. 29..
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्।भर्तारं लोकभर्तारमसद्धर्ममुपादध॥ ३०॥
मा त्वम् प्रोत्साहिता पापैः देवराज-सम-प्रभम्।भर्तारम् लोक-भर्तारम् असत्-धर्मम् उपादध॥ ३०॥
mā tvam protsāhitā pāpaiḥ devarāja-sama-prabham.bhartāram loka-bhartāram asat-dharmam upādadha.. 30..
नहि मिथ्या प्रतिज्ञातं करिष्यति तवानघः।श्रीमान् दशरथो राजा देवि राजीवलोचनः॥ ३१॥
नहि मिथ्या प्रतिज्ञातम् करिष्यति तव अनघः।श्रीमान् दशरथः राजा देवि राजीव-लोचनः॥ ३१॥
nahi mithyā pratijñātam kariṣyati tava anaghaḥ.śrīmān daśarathaḥ rājā devi rājīva-locanaḥ.. 31..
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्यापि रक्षिता।रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्॥ ३२॥
ज्येष्ठः वदान्यः कर्मण्यः स्वधर्मस्य अपि रक्षिता।रक्षिता जीव-लोकस्य बलिः रामः अभिषिच्यताम्॥ ३२॥
jyeṣṭhaḥ vadānyaḥ karmaṇyaḥ svadharmasya api rakṣitā.rakṣitā jīva-lokasya baliḥ rāmaḥ abhiṣicyatām.. 32..
परिवादो हि ते देवि महाँल्लोके चरिष्यति।यदि रामो वनं याति विहाय पितरं नृपम्॥ ३३॥
परिवादः हि ते देवि महान् लोके चरिष्यति।यदि रामः वनम् याति विहाय पितरम् नृपम्॥ ३३॥
parivādaḥ hi te devi mahān loke cariṣyati.yadi rāmaḥ vanam yāti vihāya pitaram nṛpam.. 33..
स्वराज्यं राघवः पातु भव त्वं विगतज्वरा।नहि ते राघवादन्यः क्षमः पुरवरे वसन्॥ ३४॥
स्व-राज्यम् राघवः पातु भव त्वम् विगत-ज्वरा।नहि ते राघवात् अन्यः क्षमः पुरवरे वसन्॥ ३४॥
sva-rājyam rāghavaḥ pātu bhava tvam vigata-jvarā.nahi te rāghavāt anyaḥ kṣamaḥ puravare vasan.. 34..
रामे हि यौवराज्यस्थे राजा दशरथो वनम्।प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्॥ ३५॥
रामे हि यौवराज्य-स्थे राजा दशरथः वनम्।प्रवेक्ष्यति महा-इष्वासः पूर्व-वृत्तम् अनुस्मरन्॥ ३५॥
rāme hi yauvarājya-sthe rājā daśarathaḥ vanam.pravekṣyati mahā-iṣvāsaḥ pūrva-vṛttam anusmaran.. 35..
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि।भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः॥ ३६॥
इति सान्त्वैः च तीक्ष्णैः च कैकेयीम् राज-संसदि।भूयस् संक्षोभयामास सुमन्त्रः तु कृताञ्जलिः॥ ३६॥
iti sāntvaiḥ ca tīkṣṇaiḥ ca kaikeyīm rāja-saṃsadi.bhūyas saṃkṣobhayāmāsa sumantraḥ tu kṛtāñjaliḥ.. 36..
नैव सा क्षुभ्यते देवी न च स्म परिदूयते।न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा॥ ३७॥
ना एव सा क्षुभ्यते देवी न च स्म परिदूयते।न च अस्याः मुख-वर्णस्य लक्ष्यते विक्रिया तदा॥ ३७॥
nā eva sā kṣubhyate devī na ca sma paridūyate.na ca asyāḥ mukha-varṇasya lakṣyate vikriyā tadā.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे पञ्चत्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe pañcatriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In