This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-३६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षड्त्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaḍtriṃśaḥ sargaḥ ..2..
ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।सबाष्पमतिनिःश्वस्य जगादेदं पुनर्वचः॥ १॥
ततस् सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया।स बाष्पम् अतिनिःश्वस्य जगाद इदम् पुनर्वचः॥ १॥
tatas sumantram aikṣvākaḥ pīḍitaḥ atra pratijñayā.sa bāṣpam atiniḥśvasya jagāda idam punarvacaḥ.. 1..
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः।राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्॥ २॥
सूत रत्न-सु सम्पूर्णा चतुर्विध-बला चमूः।राघवस्य अनुयात्रा-अर्थम् क्षिप्रम् प्रतिविधीयताम्॥ २॥
sūta ratna-su sampūrṇā caturvidha-balā camūḥ.rāghavasya anuyātrā-artham kṣipram pratividhīyatām.. 2..
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः।शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः॥ ३॥
रूपाजीवाः च वादिन्यः वणिजः च महाधनाः।शोभयन्तु कुमारस्य वाहिनीः सु प्रसारिताः॥ ३॥
rūpājīvāḥ ca vādinyaḥ vaṇijaḥ ca mahādhanāḥ.śobhayantu kumārasya vāhinīḥ su prasāritāḥ.. 3..
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय॥ ४॥
ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः।तेषाम् बहुविधम् दत्त्वा तान् अपि अत्र नियोजय॥ ४॥
ye ca enam upajīvanti ramate yaiḥ ca vīryataḥ.teṣām bahuvidham dattvā tān api atra niyojaya.. 4..
आयुधानि च मुख्यानि नागराः शकटानि च।अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः॥ ५॥
आयुधानि च मुख्यानि नागराः शकटानि च।अनुगच्छन्तु काकुत्स्थम् व्याधाः च अरण्य-कोविदाः॥ ५॥
āyudhāni ca mukhyāni nāgarāḥ śakaṭāni ca.anugacchantu kākutstham vyādhāḥ ca araṇya-kovidāḥ.. 5..
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु।नदीश्च विविधाः पश्यन् न राज्यं संस्मरिष्यति॥ ६॥
निघ्नन् मृगान् कुञ्जरान् च पिबन् च आरण्यकम् मधु।नदीः च विविधाः पश्यन् न राज्यम् संस्मरिष्यति॥ ६॥
nighnan mṛgān kuñjarān ca piban ca āraṇyakam madhu.nadīḥ ca vividhāḥ paśyan na rājyam saṃsmariṣyati.. 6..
धान्यकोशश्च यः कश्चिद् धनकोशश्च मामकः।तौ राममनुगच्छेतां वसन्तं निर्जने वने॥ ७॥
धान्य-कोशः च यः कश्चिद् धन-कोशः च मामकः।तौ रामम् अनुगच्छेताम् वसन्तम् निर्जने वने॥ ७॥
dhānya-kośaḥ ca yaḥ kaścid dhana-kośaḥ ca māmakaḥ.tau rāmam anugacchetām vasantam nirjane vane.. 7..
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने॥ ८॥
यजन् पुण्येषु देशेषु विसृजन् च आप्त-दक्षिणाः।ऋषिभिः च अपि संगम्य प्रवत्स्यति सुखम् वने॥ ८॥
yajan puṇyeṣu deśeṣu visṛjan ca āpta-dakṣiṇāḥ.ṛṣibhiḥ ca api saṃgamya pravatsyati sukham vane.. 8..
भरतश्च महाबाहुरयोध्यां पालयिष्यति।सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति॥ ९॥
भरतः च महा-बाहुः अयोध्याम् पालयिष्यति।सर्व-कामैः पुनर् श्रीमान् रामः संसाध्यताम् इति॥ ९॥
bharataḥ ca mahā-bāhuḥ ayodhyām pālayiṣyati.sarva-kāmaiḥ punar śrīmān rāmaḥ saṃsādhyatām iti.. 9..
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्।मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत॥ १०॥
एवम् ब्रुवति काकुत्स्थे कैकेय्याः भयम् आगतम्।मुखम् च अपि अगमत् शोषम् स्वरः च अपि व्यरुध्यत॥ १०॥
evam bruvati kākutsthe kaikeyyāḥ bhayam āgatam.mukham ca api agamat śoṣam svaraḥ ca api vyarudhyata.. 10..
सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता।राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्॥ ११॥
सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता।राजानम् एव अभिमुखी कैकेयी वाक्यम् अब्रवीत्॥ ११॥
sā viṣaṇṇā ca saṃtrastā mukhena pariśuṣyatā.rājānam eva abhimukhī kaikeyī vākyam abravīt.. 11..
राज्यं गतधनं साधो पीतमण्डां सुरामिव।निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते॥ १२॥
राज्यम् गत-धनम् साधो पीत-मण्डाम् सुराम् इव।निरास्वाद्यतमम् शून्यम् भरतः ना अभिपत्स्यते॥ १२॥
rājyam gata-dhanam sādho pīta-maṇḍām surām iva.nirāsvādyatamam śūnyam bharataḥ nā abhipatsyate.. 12..
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।राजा दशरथो वाक्यमुवाचायतलोचनाम्॥ १३॥
कैकेय्याम् मुक्त-लज्जायाम् वदन्त्याम् अति दारुणम्।राजा दशरथः वाक्यम् उवाच आयत-लोचनाम्॥ १३॥
kaikeyyām mukta-lajjāyām vadantyām ati dāruṇam.rājā daśarathaḥ vākyam uvāca āyata-locanām.. 13..
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते।अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः॥ १४॥
वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते।अनार्ये कृत्यम् आरब्धम् किम् न पूर्वम् उपारुधः॥ १४॥
vahantam kim tudasi mām niyujya dhuri mā āhite.anārye kṛtyam ārabdham kim na pūrvam upārudhaḥ.. 14..
तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना।कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्॥ १५॥
तस्य एतत् क्रोध-संयुक्तम् उक्तम् श्रुत्वा वर-अङ्गना।कैकेयी द्विगुणम् क्रुद्धा राजानम् इदम् अब्रवीत्॥ १५॥
tasya etat krodha-saṃyuktam uktam śrutvā vara-aṅganā.kaikeyī dviguṇam kruddhā rājānam idam abravīt.. 15..
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्।असमञ्ज इति ख्यातं तथायं गन्तुमर्हति॥ १६॥
तव एव वंशे सगरः ज्येष्ठ-पुत्रम् उपारुधत्।असमञ्जः इति ख्यातम् तथा अयम् गन्तुम् अर्हति॥ १६॥
tava eva vaṃśe sagaraḥ jyeṣṭha-putram upārudhat.asamañjaḥ iti khyātam tathā ayam gantum arhati.. 16..
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्।व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत॥ १७॥
एवम् उक्तः धिक् इति एव राजा दशरथः अब्रवीत्।व्रीडितः च जनः सर्वः सा च तत् न अवबुध्यत॥ १७॥
evam uktaḥ dhik iti eva rājā daśarathaḥ abravīt.vrīḍitaḥ ca janaḥ sarvaḥ sā ca tat na avabudhyata.. 17..
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः।शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्॥ १८॥
तत्र वृद्धः महामात्रः सिद्धार्थः नाम नामतः।शुचिः बहु-मतः राज्ञः कैकेयीम् इदम् अब्रवीत्॥ १८॥
tatra vṛddhaḥ mahāmātraḥ siddhārthaḥ nāma nāmataḥ.śuciḥ bahu-mataḥ rājñaḥ kaikeyīm idam abravīt.. 18..
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्।सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः॥ १९॥
असमञ्जः गृहीत्वा तु क्रीडतः पथि दारकान्।सरय्वाम् प्रक्षिपन् अप्सु रमते तेन दुर्मतिः॥ १९॥
asamañjaḥ gṛhītvā tu krīḍataḥ pathi dārakān.sarayvām prakṣipan apsu ramate tena durmatiḥ.. 19..
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्।असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन॥ २०॥
तम् दृष्ट्वा नागराः सर्वे क्रुद्धाः राजानम् अब्रुवन्।असमञ्जम् वृणीष्व एकम् अस्मान् वा राष्ट्र-वर्धन॥ २०॥
tam dṛṣṭvā nāgarāḥ sarve kruddhāḥ rājānam abruvan.asamañjam vṛṇīṣva ekam asmān vā rāṣṭra-vardhana.. 20..
तानुवाच ततो राजा किंनिमित्तमिदं भयम्।ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥ २१॥
तान् उवाच ततस् राजा किंनिमित्तम् इदम् भयम्।ताः च अपि राज्ञा सम्पृष्टाः वाक्यम् प्रकृतयः अब्रुवन्॥ २१॥
tān uvāca tatas rājā kiṃnimittam idam bhayam.tāḥ ca api rājñā sampṛṣṭāḥ vākyam prakṛtayaḥ abruvan.. 21..
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतसः।सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते॥ २२॥
क्रीडतः तु एष नः पुत्रान् बालान् उद्भ्रान्त-चेतसः।सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते॥ २२॥
krīḍataḥ tu eṣa naḥ putrān bālān udbhrānta-cetasaḥ.sarayvām prakṣipan maurkhyāt atulām prītim aśnute.. 22..
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः।तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया॥ २३॥
स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नराधिपः।तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय-चिकीर्षया॥ २३॥
sa tāsām vacanam śrutvā prakṛtīnām narādhipaḥ.tam tatyāja ahitam putram tāsām priya-cikīrṣayā.. 23..
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्।यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता॥ २४॥
तम् यानम् शीघ्रम् आरोप्य स भार्यम् स परिच्छदम्।यावज्जीवम् विवास्यः अयम् इति तान् अन्वशात् पिता॥ २४॥
tam yānam śīghram āropya sa bhāryam sa paricchadam.yāvajjīvam vivāsyaḥ ayam iti tān anvaśāt pitā.. 24..
स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्।दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत्॥ २५॥
स फालपिटकम् गृह्य गिरि-दुर्गाणि अलोकयत्।दिशः सर्वाः तु अनुचरन् स यथा पाप-कर्म-कृत्॥ २५॥
sa phālapiṭakam gṛhya giri-durgāṇi alokayat.diśaḥ sarvāḥ tu anucaran sa yathā pāpa-karma-kṛt.. 25..
इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः।रामः किमकरोत् पापं येनैवमुपरुध्यते॥ २६॥
इति एनम् अत्यजत् राजा सगरः वै सु धार्मिकः।रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते॥ २६॥
iti enam atyajat rājā sagaraḥ vai su dhārmikaḥ.rāmaḥ kim akarot pāpam yena evam uparudhyate.. 26..
नहि कंचन पश्यामो राघवस्यागुणं वयम्।दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्॥ २७॥
नहि कंचन पश्यामः राघवस्य अगुणम् वयम्।दुर्लभः हि अस्य निरयः शशाङ्कस्य इव कल्मषम्॥ २७॥
nahi kaṃcana paśyāmaḥ rāghavasya aguṇam vayam.durlabhaḥ hi asya nirayaḥ śaśāṅkasya iva kalmaṣam.. 27..
अथवा देवि त्वं कंचिद् दोषं पश्यसि राघवे।तमद्य ब्रूहि तत्त्वेन तदा रामो विवास्यते॥ २८॥
अथवा देवि त्वम् कंचिद् दोषम् पश्यसि राघवे।तम् अद्य ब्रूहि तत्त्वेन तदा रामः विवास्यते॥ २८॥
athavā devi tvam kaṃcid doṣam paśyasi rāghave.tam adya brūhi tattvena tadā rāmaḥ vivāsyate.. 28..
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च।निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान्॥ २९॥
अदुष्टस्य हि संत्यागः सत्-पथे निरतस्य च।निर्दहेत् अपि शक्रस्य द्युतिम् धर्म-विरोधवान्॥ २९॥
aduṣṭasya hi saṃtyāgaḥ sat-pathe niratasya ca.nirdahet api śakrasya dyutim dharma-virodhavān.. 29..
तदलं देवि रामस्य श्रिया विहतया त्वया।लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने॥ ३०॥
तत् अलम् देवि रामस्य श्रिया विहतया त्वया।लोकतः अपि हि ते रक्ष्यः परिवादः शुभ-आनने॥ ३०॥
tat alam devi rāmasya śriyā vihatayā tvayā.lokataḥ api hi te rakṣyaḥ parivādaḥ śubha-ānane.. 30..
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वरः।शोकोपहतया वाचा कैकेयीमिदमब्रवीत्॥ ३१॥
श्रुत्वा तु सिद्धार्थ-वचः राजा श्रान्ततर-स्वरः।शोक-उपहतया वाचा कैकेयीम् इदम् अब्रवीत्॥ ३१॥
śrutvā tu siddhārtha-vacaḥ rājā śrāntatara-svaraḥ.śoka-upahatayā vācā kaikeyīm idam abravīt.. 31..
एतद्वचो नेच्छसि पापरूपे हितं न जानासि ममात्मनोऽथवा।आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता॥ ३२॥
एतत् वचः ना इच्छसि पाप-रूपे हितम् न जानासि मम आत्मनः अथवा।आस्थाय मार्गम् कृपणम् कु चेष्टा चेष्टा हि ते साधु-पथात् अपेता॥ ३२॥
etat vacaḥ nā icchasi pāpa-rūpe hitam na jānāsi mama ātmanaḥ athavā.āsthāya mārgam kṛpaṇam ku ceṣṭā ceṣṭā hi te sādhu-pathāt apetā.. 32..
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च।सर्वे च राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम्॥ ३३॥
अनुव्रजिष्यामि अहम् अद्य रामम् राज्यम् परित्यज्य सुखम् धनम् च।सर्वे च राज्ञा भरतेन च त्वम् यथासुखम् भुङ्क्ष्व चिराय राज्यम्॥ ३३॥
anuvrajiṣyāmi aham adya rāmam rājyam parityajya sukham dhanam ca.sarve ca rājñā bharatena ca tvam yathāsukham bhuṅkṣva cirāya rājyam.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-३६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे षड्त्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ṣaḍtriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In