This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तत्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptatriṃśaḥ sargaḥ ..2..
महामात्रवचः श्रुत्वा रामो दशरथं तदा।अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १॥
महामात्र-वचः श्रुत्वा रामः दशरथम् तदा।अभ्यभाषत वाक्यम् तु विनय-ज्ञः विनीत-वत्॥ १॥
mahāmātra-vacaḥ śrutvā rāmaḥ daśaratham tadā.abhyabhāṣata vākyam tu vinaya-jñaḥ vinīta-vat.. 1..
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः।किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २॥
त्यक्त-भोगस्य मे राजन् वने वन्येन जीवतः।किम् कार्यम् अनुयात्रेण त्यक्त-सङ्गस्य सर्वतस्॥ २॥
tyakta-bhogasya me rājan vane vanyena jīvataḥ.kim kāryam anuyātreṇa tyakta-saṅgasya sarvatas.. 2..
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३॥
यः हि दत्त्वा द्विप-श्रेष्ठम् कक्ष्यायाम् कुरुते मनः।रज्जु-स्नेहेन किम् तस्य त्यजतः कुञ्जर-उत्तमम्॥ ३॥
yaḥ hi dattvā dvipa-śreṣṭham kakṣyāyām kurute manaḥ.rajju-snehena kim tasya tyajataḥ kuñjara-uttamam.. 3..
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४॥
तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत्पते।सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे॥ ४॥
tathā mama satām śreṣṭha kim dhvajinyā jagatpate.sarvāṇi eva anujānāmi cīrāṇi eva ānayantu me.. 4..
खनित्रपिटके चोभे समानयत गच्छत।चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५॥
खनित्र-पिटके च उभे समानयत गच्छत।चतुर्दश वने वासम् वर्षाणि वसतः मम॥ ५॥
khanitra-piṭake ca ubhe samānayata gacchata.caturdaśa vane vāsam varṣāṇi vasataḥ mama.. 5..
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६॥
अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम्।उवाच परिधत्स्व इति जन-ओघे निरपत्रपा॥ ६॥
atha cīrāṇi kaikeyī svayam āhṛtya rāghavam.uvāca paridhatsva iti jana-oghe nirapatrapā.. 6..
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७॥
स चीरे पुरुष-व्याघ्रः कैकेय्याः प्रतिगृह्य ते।सूक्ष्म-वस्त्रम् अवक्षिप्य मुनि-वस्त्राणि अवस्त ह॥ ७॥
sa cīre puruṣa-vyāghraḥ kaikeyyāḥ pratigṛhya te.sūkṣma-vastram avakṣipya muni-vastrāṇi avasta ha.. 7..
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८॥
लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे।तापस-आच्छादने च एव जग्राह पितुः अग्रतस्॥ ८॥
lakṣmaṇaḥ ca api tatra eva vihāya vasane śubhe.tāpasa-ācchādane ca eva jagrāha pituḥ agratas.. 8..
अथात्मपरिधानार्थं सीता कौशेयवासिनी।सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९॥
अथ आत्म-परिधान-अर्थम् सीता कौशेय-वासिनी।सम्प्रेक्ष्य चीरम् संत्रस्ता पृषती वागुराम् इव॥ ९॥
atha ātma-paridhāna-artham sītā kauśeya-vāsinī.samprekṣya cīram saṃtrastā pṛṣatī vāgurām iva.. 9..
सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा॥ १०॥
सा व्यपत्रपमाणा इव प्रगृह्य च सु दुर्मनाः।कैकेय्याः कुश-चीरे ते जानकी शुभ-लक्षणा॥ १०॥
sā vyapatrapamāṇā iva pragṛhya ca su durmanāḥ.kaikeyyāḥ kuśa-cīre te jānakī śubha-lakṣaṇā.. 10..
अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्॥ ११॥
अश्रु-सम्पूर्ण-नेत्रा च धर्म-ज्ञा धर्म-दर्शिनी।गन्धर्वराज-प्रतिमम् भर्तारम् इदम् अब्रवीत्॥ ११॥
aśru-sampūrṇa-netrā ca dharma-jñā dharma-darśinī.gandharvarāja-pratimam bhartāram idam abravīt.. 11..
कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः।इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः॥ १२॥
कथम् नु चीरम् बघ्नन्ति मुनयः वन-वासिनः।इति हि अकुशला सीता सा मुमोह मुहुर् मुहुर्॥ १२॥
katham nu cīram baghnanti munayaḥ vana-vāsinaḥ.iti hi akuśalā sītā sā mumoha muhur muhur.. 12..
कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना।तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा॥ १३॥
कृत्वा कण्ठे स्म सा चीरम् एकम् आदाय पाणिना।तस्थौ हि अकुशला तत्र व्रीडिता जनकात्मजा॥ १३॥
kṛtvā kaṇṭhe sma sā cīram ekam ādāya pāṇinā.tasthau hi akuśalā tatra vrīḍitā janakātmajā.. 13..
तस्यास्तत् क्षिप्रमागत्य रामो धर्मभृतां वरः।चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १४॥
तस्याः तत् क्षिप्रम् आगत्य रामः धर्म-भृताम् वरः।चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम्॥ १४॥
tasyāḥ tat kṣipram āgatya rāmaḥ dharma-bhṛtām varaḥ.cīram babandha sītāyāḥ kauśeyasya upari svayam.. 14..
रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम्॥ १५॥
रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरम् उत्तमम्।अन्तःपुरचराः नार्यः मुमुचुः वारि नेत्र-जम्॥ १५॥
rāmam prekṣya tu sītāyāḥ badhnantam cīram uttamam.antaḥpuracarāḥ nāryaḥ mumucuḥ vāri netra-jam.. 15..
ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्।वत्स नैवं नियुक्तेयं वनवासे मनस्विनी॥ १६॥
ऊचुः च परम-आयत्ताः रामम् ज्वलित-तेजसम्।वत्स ना एवम् नियुक्ता इयम् वन-वासे मनस्विनी॥ १६॥
ūcuḥ ca parama-āyattāḥ rāmam jvalita-tejasam.vatsa nā evam niyuktā iyam vana-vāse manasvinī.. 16..
पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।तावद् दर्शनमस्या नः सफलं भवतु प्रभो॥ १७॥
पितुः वाक्य-अनुरोधेन गतस्य विजनम् वनम्।तावत् दर्शनम् अस्याः नः सफलम् भवतु प्रभो॥ १७॥
pituḥ vākya-anurodhena gatasya vijanam vanam.tāvat darśanam asyāḥ naḥ saphalam bhavatu prabho.. 17..
लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक।नेयमर्हति कल्याणि वस्तुं तापसवद् वने॥ १८॥
लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक।न इयम् अर्हति कल्याणि वस्तुम् तापस-वत् वने॥ १८॥
lakṣmaṇena sahāyena vanam gacchasva putraka.na iyam arhati kalyāṇi vastum tāpasa-vat vane.. 18..
कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी।धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि॥ १९॥
कुरु नः याचनाम् पुत्र सीता तिष्ठतु भामिनी।धर्म-नित्यः स्वयम् स्थातुम् न हि इदानीम् त्वम् इच्छसि॥ १९॥
kuru naḥ yācanām putra sītā tiṣṭhatu bhāminī.dharma-nityaḥ svayam sthātum na hi idānīm tvam icchasi.. 19..
तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।बबन्धैव तथा चीरं सीतया तुल्यशीलया॥ २०॥
तासाम् एवंविधाः वाचः शृण्वन् दशरथ-आत्मजः।बबन्ध एव तथा चीरम् सीतया तुल्य-शीलया॥ २०॥
tāsām evaṃvidhāḥ vācaḥ śṛṇvan daśaratha-ātmajaḥ.babandha eva tathā cīram sītayā tulya-śīlayā.. 20..
चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः।निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्॥ २१॥
चीरे गृहीते तु तया स बाष्पः नृपतेः गुरुः।निवार्य सीताम् कैकेयीम् वसिष्ठः वाक्यम् अब्रवीत्॥ २१॥
cīre gṛhīte tu tayā sa bāṣpaḥ nṛpateḥ guruḥ.nivārya sītām kaikeyīm vasiṣṭhaḥ vākyam abravīt.. 21..
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि।वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि॥ २२॥
अतिप्रवृत्ते दुर्मेधे कैकेयि कुल-पांसनि।वञ्चयित्वा तु राजानम् न प्रमाणे अवतिष्ठसि॥ २२॥
atipravṛtte durmedhe kaikeyi kula-pāṃsani.vañcayitvā tu rājānam na pramāṇe avatiṣṭhasi.. 22..
न गन्तव्यं वनं देव्या सीतया शीलवर्जिते।अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्॥ २३॥
न गन्तव्यम् वनम् देव्या सीतया शील-वर्जिते।अनुष्ठास्यति रामस्य सीता प्रकृतम् आसनम्॥ २३॥
na gantavyam vanam devyā sītayā śīla-varjite.anuṣṭhāsyati rāmasya sītā prakṛtam āsanam.. 23..
आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्।आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्॥ २४॥
आत्मा हि दाराः सर्वेषाम् दार-संग्रह-वर्तिनाम्।आत्मा इयम् इति रामस्य पालयिष्यति मेदिनीम्॥ २४॥
ātmā hi dārāḥ sarveṣām dāra-saṃgraha-vartinām.ātmā iyam iti rāmasya pālayiṣyati medinīm.. 24..
अथ यास्यति वैदेही वनं रामेण संगता।वयमत्रानुयास्यामः पुरं चेदं गमिष्यति॥ २५॥
अथ यास्यति वैदेही वनम् रामेण संगता।वयम् अत्र अनुयास्यामः पुरम् च इदम् गमिष्यति॥ २५॥
atha yāsyati vaidehī vanam rāmeṇa saṃgatā.vayam atra anuyāsyāmaḥ puram ca idam gamiṣyati.. 25..
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्॥ २६॥
अन्तपालाः च यास्यन्ति स दारः यत्र राघवः।सह उपजीव्यम् राष्ट्रम् च पुरम् च स परिच्छदम्॥ २६॥
antapālāḥ ca yāsyanti sa dāraḥ yatra rāghavaḥ.saha upajīvyam rāṣṭram ca puram ca sa paricchadam.. 26..
भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः।वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्॥ २७॥
भरतः च स शत्रुघ्नः चीर-वासाः वनेचरः।वने वसन्तम् काकुत्स्थम् अनुवत्स्यति पूर्वजम्॥ २७॥
bharataḥ ca sa śatrughnaḥ cīra-vāsāḥ vanecaraḥ.vane vasantam kākutstham anuvatsyati pūrvajam.. 27..
ततः शून्यां गतजनां वसुधां पादपैः सह।त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता॥ २८॥
ततस् शून्याम् गत-जनाम् वसुधाम् पादपैः सह।त्वम् एका शाधि दुर्वृत्ता प्रजानाम् अहिते स्थिता॥ २८॥
tatas śūnyām gata-janām vasudhām pādapaiḥ saha.tvam ekā śādhi durvṛttā prajānām ahite sthitā.. 28..
न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः।तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति॥ २९॥
न हि तत् भविता राष्ट्रम् यत्र रामः न भूपतिः।तत् वनम् भविता राष्ट्रम् यत्र रामः निवत्स्यति॥ २९॥
na hi tat bhavitā rāṣṭram yatra rāmaḥ na bhūpatiḥ.tat vanam bhavitā rāṣṭram yatra rāmaḥ nivatsyati.. 29..
न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति।त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः॥ ३०॥
न हि अदत्ताम् महीम् पित्रा भरतः शास्तुम् इच्छति।त्वयि वा पुत्र-वत् वस्तुम् यदि जातः महीपतेः॥ ३०॥
na hi adattām mahīm pitrā bharataḥ śāstum icchati.tvayi vā putra-vat vastum yadi jātaḥ mahīpateḥ.. 30..
यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि।पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति॥ ३१॥
यदि अपि त्वम् क्षिति-तलात् गगनम् च उत्पतिष्यसि।पितृ-वंश-चरित्र-ज्ञः सः अन्यथा न करिष्यति॥ ३१॥
yadi api tvam kṣiti-talāt gaganam ca utpatiṣyasi.pitṛ-vaṃśa-caritra-jñaḥ saḥ anyathā na kariṣyati.. 31..
तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्।लोके नहि स विद्येत यो न राममनुव्रतः॥ ३२॥
तत् त्वया पुत्र-गर्धिन्या पुत्रस्य कृतम् अप्रियम्।लोके नहि स विद्येत यः न रामम् अनुव्रतः॥ ३२॥
tat tvayā putra-gardhinyā putrasya kṛtam apriyam.loke nahi sa vidyeta yaḥ na rāmam anuvrataḥ.. 32..
द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्।गच्छतः सह रामेण पादपांश्च तदुन्मुखान्॥ ३३॥
द्रक्ष्यसि अद्य एव कैकेयि पशु-व्याल-मृग-द्विजान्।गच्छतः सह रामेण पादपान् च तद्-उन्मुखान्॥ ३३॥
drakṣyasi adya eva kaikeyi paśu-vyāla-mṛga-dvijān.gacchataḥ saha rāmeṇa pādapān ca tad-unmukhān.. 33..
अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्।न चीरमस्याः प्रविधीयतेति न्यवारयत् तद् वसनं वसिष्ठः॥ ३४॥
अथ उत्तमानि आभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्।न चीरम् अस्याः प्रविधीयते इति न्यवारयत् तत् वसनम् वसिष्ठः॥ ३४॥
atha uttamāni ābharaṇāni devi dehi snuṣāyai vyapanīya cīram.na cīram asyāḥ pravidhīyate iti nyavārayat tat vasanam vasiṣṭhaḥ.. 34..
एकस्य रामस्य वने निवास- स्त्वया वृतः केकयराजपुत्रि।विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण॥ ३५॥
एकस्य रामस्य वने निवासः त्वया वृतः केकय-राज-पुत्रि।विभूषिता इयम् प्रतिकर्म-नित्या वसतु अरण्ये सह राघवेण॥ ३५॥
ekasya rāmasya vane nivāsaḥ tvayā vṛtaḥ kekaya-rāja-putri.vibhūṣitā iyam pratikarma-nityā vasatu araṇye saha rāghaveṇa.. 35..
यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री।वस्त्रैश्च सर्वैः सहितैर्विधानै- र्नेयं वृता ते वरसम्प्रदाने॥ ३६॥
यानैः च मुख्यैः परिचारकैः च सु संवृता गच्छतु राज-पुत्री।वस्त्रैः च सर्वैः सहितैः विधानैः न इयम् वृता ते वर-सम्प्रदाने॥ ३६॥
yānaiḥ ca mukhyaiḥ paricārakaiḥ ca su saṃvṛtā gacchatu rāja-putrī.vastraiḥ ca sarvaiḥ sahitaiḥ vidhānaiḥ na iyam vṛtā te vara-sampradāne.. 36..
तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे।नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा॥ ३७॥
तस्मिन् तथा जल्पति विप्र-मुख्ये गुरौ नृपस्य अप्रतिम-प्रभावे।ना एव स्म सीता विनिवृत्त-भावा प्रियस्य भर्तुः प्रतिकार-कामा॥ ३७॥
tasmin tathā jalpati vipra-mukhye gurau nṛpasya apratima-prabhāve.nā eva sma sītā vinivṛtta-bhāvā priyasya bhartuḥ pratikāra-kāmā.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे सप्तत्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe saptatriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In