This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टात्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭātriṃśaḥ sargaḥ ..2..
तस्यां चीरं वसानायां नाथवत्यामनाथवत्।प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति॥ १॥
तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथ-वत्।प्रचुक्रोश जनः सर्वः धिक् त्वाम् दशरथम् तु इति॥ १॥
tasyām cīram vasānāyām nāthavatyām anātha-vat.pracukrośa janaḥ sarvaḥ dhik tvām daśaratham tu iti.. 1..
तेन तत्र प्रणादेन दुःखितः स महीपतिः।चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः॥ २॥
तेन तत्र प्रणादेन दुःखितः स महीपतिः।चिच्छेद जीविते श्रद्धाम् धर्मे यशसि च आत्मनः॥ २॥
tena tatra praṇādena duḥkhitaḥ sa mahīpatiḥ.ciccheda jīvite śraddhām dharme yaśasi ca ātmanaḥ.. 2..
स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ ३॥
स निःश्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत्।कैकेयि कुश-चीरेण न सीता गन्तुम् अर्हति॥ ३॥
sa niḥśvasya uṣṇam aikṣvākaḥ tām bhāryām idam abravīt.kaikeyi kuśa-cīreṇa na sītā gantum arhati.. 3..
सुकुमारी च बाला च सततं च सुखोचिता।नेयं वनस्य योग्येति सत्यमाह गुरुर्मम॥ ४॥
सुकुमारी च बाला च सततम् च सुख-उचिता।न इयम् वनस्य योग्या इति सत्यम् आह गुरुः मम॥ ४॥
sukumārī ca bālā ca satatam ca sukha-ucitā.na iyam vanasya yogyā iti satyam āha guruḥ mama.. 4..
इयं हि कस्यापि करोति किंचित् तपस्विनी राजवरस्य पुत्री।या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५॥
इयम् हि कस्य अपि करोति किंचिद् तपस्विनी राज-वरस्य पुत्री।या चीरम् आसाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणी इव काचिद् ॥ ५॥
iyam hi kasya api karoti kiṃcid tapasvinī rāja-varasya putrī.yā cīram āsādya janasya madhye sthitā visaṃjñā śramaṇī iva kācid .. 5..
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा।यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः॥ ६॥
चीराणि अपास्यात् जनकस्य कन्या न इयम् प्रतिज्ञा मम दत्त-पूर्वा।यथासुखम् गच्छतु राज-पुत्री वनम् समग्रा सह सर्व-रत्नैः॥ ६॥
cīrāṇi apāsyāt janakasya kanyā na iyam pratijñā mama datta-pūrvā.yathāsukham gacchatu rāja-putrī vanam samagrā saha sarva-ratnaiḥ.. 6..
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्।त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मा दहेद् वेणुमिवात्मपुष्पम्॥ ७॥
अ जीवन-अर्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्।त्वया हि बाल्यात् प्रतिपन्नम् एतत् तत् मा दहेत् वेणुम् इव आत्म-पुष्पम्॥ ७॥
a jīvana-arheṇa mayā nṛśaṃsā kṛtā pratijñā niyamena tāvat.tvayā hi bālyāt pratipannam etat tat mā dahet veṇum iva ātma-puṣpam.. 7..
रामेण यदि ते पापे किंचित्कृतमशोभनम्।अपकारः क इह ते वैदेह्या दर्शितोऽधमे॥ ८॥
रामेण यदि ते पापे किंचिद् कृतम् अशोभनम्।अपकारः कः इह ते वैदेह्याः दर्शितः अधमे॥ ८॥
rāmeṇa yadi te pāpe kiṃcid kṛtam aśobhanam.apakāraḥ kaḥ iha te vaidehyāḥ darśitaḥ adhame.. 8..
मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी।अपकारं कमिव ते करोति जनकात्मजा॥ ९॥
मृगी इव उत्फुल्ल-नयना मृदु-शीला मनस्विनी।अपकारम् कम् इव ते करोति जनकात्मजा॥ ९॥
mṛgī iva utphulla-nayanā mṛdu-śīlā manasvinī.apakāram kam iva te karoti janakātmajā.. 9..
ननु पर्याप्तमेवं ते पापे रामविवासनम्।किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १०॥
ननु पर्याप्तम् एवम् ते पापे राम-विवासनम्।किम् एभिः कृपणैः भूयस् पातकैः अपि ते कृतैः॥ १०॥
nanu paryāptam evam te pāpe rāma-vivāsanam.kim ebhiḥ kṛpaṇaiḥ bhūyas pātakaiḥ api te kṛtaiḥ.. 10..
प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता।रामं यदभिषेकाय त्वमिहागतमब्रवीः॥ ११॥
प्रतिज्ञातम् मया तावत् त्वया उक्तम् देवि शृण्वता।रामम् यत् अभिषेकाय त्वम् इह आगतम् अब्रवीः॥ ११॥
pratijñātam mayā tāvat tvayā uktam devi śṛṇvatā.rāmam yat abhiṣekāya tvam iha āgatam abravīḥ.. 11..
तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि।मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्॥ १२॥
तत् तु एतत् समतिक्रम्य निरयम् गन्तुम् इच्छसि।मैथिलीम् अपि या हि त्वम् ईक्षसे चीर-वासिनीम्॥ १२॥
tat tu etat samatikramya nirayam gantum icchasi.maithilīm api yā hi tvam īkṣase cīra-vāsinīm.. 12..
एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्।अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १३॥
एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम्।अवाक्शिरसम् आसीनम् इदम् वचनम् अब्रवीत्॥ १३॥
evam bruvantam pitaram rāmaḥ samprasthitaḥ vanam.avākśirasam āsīnam idam vacanam abravīt.. 13..
इयं धार्मिक कौसल्या मम माता यशस्विनी।वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते॥ १४॥
इयम् धार्मिक कौसल्या मम माता यशस्विनी।वृद्धा च अक्षुद्र-शीला च न च त्वाम् देव गर्हते॥ १४॥
iyam dhārmika kausalyā mama mātā yaśasvinī.vṛddhā ca akṣudra-śīlā ca na ca tvām deva garhate.. 14..
मया विहीनां वरद प्रपन्नां शोकसागरम्।अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि॥ १५॥
मया विहीनाम् वर-द प्रपन्नाम् शोक-सागरम्।अदृष्ट-पूर्व-व्यसनाम् भूयस् सम्मन्तुम् अर्हसि॥ १५॥
mayā vihīnām vara-da prapannām śoka-sāgaram.adṛṣṭa-pūrva-vyasanām bhūyas sammantum arhasi.. 15..
पुत्रशोकं यथा नर्च्छेत् त्वया पूज्येन पूजिता।मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी॥ १६॥
पुत्र-शोकम् यथा न ऋच्छेत् त्वया पूज्येन पूजिता।माम् हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी॥ १६॥
putra-śokam yathā na ṛcchet tvayā pūjyena pūjitā.mām hi saṃcintayantī sā tvayi jīvet tapasvinī.. 16..
इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि।यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्॥ १७॥
इमाम् महा-इन्द्र-उपम जात-गर्धिनीम् तथा विधातुम् जननीम् मम अर्हसि।यथा वन-स्थे मयि शोक-कर्शिता न जीवितम् न्यस्य यम-क्षयम् व्रजेत्॥ १७॥
imām mahā-indra-upama jāta-gardhinīm tathā vidhātum jananīm mama arhasi.yathā vana-sthe mayi śoka-karśitā na jīvitam nyasya yama-kṣayam vrajet.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे अष्टात्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe aṣṭātriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In