This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe catvāriṃśaḥ sargaḥ ..2..
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥ १॥
अथ रामः च सीता च लक्ष्मणः च कृताञ्जलिः।उपसंगृह्य राजानम् चक्रुः दीनाः प्रदक्षिणम्॥ १॥
atha rāmaḥ ca sītā ca lakṣmaṇaḥ ca kṛtāñjaliḥ.upasaṃgṛhya rājānam cakruḥ dīnāḥ pradakṣiṇam.. 1..
तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया।राघवः शोकसम्मूढो जननीमभ्यवादयत्॥ २॥
तम् च अपि समनुज्ञाप्य धर्म-ज्ञः सह सीतया।राघवः शोक-सम्मूढः जननीम् अभ्यवादयत्॥ २॥
tam ca api samanujñāpya dharma-jñaḥ saha sītayā.rāghavaḥ śoka-sammūḍhaḥ jananīm abhyavādayat.. 2..
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।अपि मातुः सुमित्राया जग्राह चरणौ पुनः॥ ३॥
अन्वक्षम् लक्ष्मणः भ्रातुः कौसल्याम् अभ्यवादयत्।अपि मातुः सुमित्रायाः जग्राह चरणौ पुनर्॥ ३॥
anvakṣam lakṣmaṇaḥ bhrātuḥ kausalyām abhyavādayat.api mātuḥ sumitrāyāḥ jagrāha caraṇau punar.. 3..
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्॥ ४॥
तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत्।हित-कामा महा-बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम्॥ ४॥
tam vandamānam rudatī mātā saumitrim abravīt.hita-kāmā mahā-bāhum mūrdhni upāghrāya lakṣmaṇam.. 4..
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥ ५॥
सृष्टः त्वम् वन-वासाय सु अनुरक्तः सुहृद्-जने।रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्छति॥ ५॥
sṛṣṭaḥ tvam vana-vāsāya su anuraktaḥ suhṛd-jane.rāme pramādam mā kārṣīḥ putra bhrātari gacchati.. 5..
व्यसनी वा समृद्धो वा गतिरेष तवानघ।एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्॥ ६॥
व्यसनी वा समृद्धः वा गतिः एष तव अनघ।एष लोके सताम् धर्मः यत् ज्येष्ठ-वश-गः भवेत्॥ ६॥
vyasanī vā samṛddhaḥ vā gatiḥ eṣa tava anagha.eṣa loke satām dharmaḥ yat jyeṣṭha-vaśa-gaḥ bhavet.. 6..
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि॥ ७॥
इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम्।दानम् दीक्षा च यज्ञेषु तनुत्यागः मृधेषु हि॥ ७॥
idam hi vṛttam ucitam kulasya asya sanātanam.dānam dīkṣā ca yajñeṣu tanutyāgaḥ mṛdheṣu hi.. 7..
लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्।सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्॥ ८॥
लक्ष्मणम् तु एवम् उक्त्वा असौ संसिद्धम् प्रिय-राघवम्।सुमित्रा गच्छ गच्छ इति पुनर् पुनर् उवाच तम्॥ ८॥
lakṣmaṇam tu evam uktvā asau saṃsiddham priya-rāghavam.sumitrā gaccha gaccha iti punar punar uvāca tam.. 8..
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥ ९॥
रामम् दशरथम् विद्धि माम् विद्धि जनकात्मजाम्।अयोध्याम् अटवीम् विद्धि गच्छ तात यथासुखम्॥ ९॥
rāmam daśaratham viddhi mām viddhi janakātmajām.ayodhyām aṭavīm viddhi gaccha tāta yathāsukham.. 9..
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।विनीतो विनयज्ञश्च मातलिर्वासवं यथा॥ १०॥
ततस् सुमन्त्रः काकुत्स्थम् प्राञ्जलिः वाक्यम् अब्रवीत्।विनीतः विनय-ज्ञः च मातलिः वासवम् यथा॥ १०॥
tatas sumantraḥ kākutstham prāñjaliḥ vākyam abravīt.vinītaḥ vinaya-jñaḥ ca mātaliḥ vāsavam yathā.. 10..
रथमारोह भद्रं ते राजपुत्र महायशः।क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे॥ ११॥
रथम् आरोह भद्रम् ते राज-पुत्र महा-यशः।क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसे॥ ११॥
ratham āroha bhadram te rāja-putra mahā-yaśaḥ.kṣipram tvām prāpayiṣyāmi yatra mām rāma vakṣyase.. 11..
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः॥ १२॥
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।तानि उपक्रमितव्यानि यानि देव्या प्रचोदितः॥ १२॥
caturdaśa hi varṣāṇi vastavyāni vane tvayā.tāni upakramitavyāni yāni devyā pracoditaḥ.. 12..
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा।आरुरोह वरारोहा कृत्वालंकारमात्मनः॥ १३॥
तम् रथम् सूर्य-संकाशम् सीता हृष्टेन चेतसा।आरुरोह वरारोहा कृत्वा अलंकारम् आत्मनः॥ १३॥
tam ratham sūrya-saṃkāśam sītā hṛṣṭena cetasā.āruroha varārohā kṛtvā alaṃkāram ātmanaḥ.. 13..
वनवासं हि संख्याय वासांस्याभरणानि च।भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥ १४॥
वन-वासम् हि संख्याय वासांसि आभरणानि च।भर्तारम् अनुगच्छन्त्यै सीतायै श्वशुरः ददौ॥ १४॥
vana-vāsam hi saṃkhyāya vāsāṃsi ābharaṇāni ca.bhartāram anugacchantyai sītāyai śvaśuraḥ dadau.. 14..
तथैवायुधजातानि भ्रातृभ्यां कवचानि च।रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत्॥ १५॥
तथा एव आयुध-जातानि भ्रातृभ्याम् कवचानि च।रथोपस्थे प्रविन्यस्य स चर्म कठिनम् च यत्॥ १५॥
tathā eva āyudha-jātāni bhrātṛbhyām kavacāni ca.rathopasthe pravinyasya sa carma kaṭhinam ca yat.. 15..
अथो ज्वलनसंकाशं चामीकरविभूषितम्।तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ॥ १६॥
अथो ज्वलन-संकाशम् चामीकर-विभूषितम्।तम् आरुरुहतुः तूर्णम् भ्रातरौ राम-लक्ष्मणौ॥ १६॥
atho jvalana-saṃkāśam cāmīkara-vibhūṣitam.tam āruruhatuḥ tūrṇam bhrātarau rāma-lakṣmaṇau.. 16..
सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्।सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे॥ १७॥
सीता-तृतीयान् आरूढान् दृष्ट्वा रथम् अचोदयत्।सुमन्त्रः सम्मतान् अश्वान् वायु-वेग-समान् जवे॥ १७॥
sītā-tṛtīyān ārūḍhān dṛṣṭvā ratham acodayat.sumantraḥ sammatān aśvān vāyu-vega-samān jave.. 17..
प्रयाते तु महारण्यं चिररात्राय राघवे।बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च॥ १८॥
प्रयाते तु महा-अरण्यम् चिर-रात्राय राघवे।बभूव नगरे मूर्च्छा बल-मूर्च्छा जनस्य च॥ १८॥
prayāte tu mahā-araṇyam cira-rātrāya rāghave.babhūva nagare mūrcchā bala-mūrcchā janasya ca.. 18..
तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्।हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्॥ १९॥
तत् समाकुल-सम्भ्रान्तम् मत्त-संकुपित-द्विपम्।हय-सिञ्जित-निर्घोषम् पुरम् आसीत् महा-स्वनम्॥ १९॥
tat samākula-sambhrāntam matta-saṃkupita-dvipam.haya-siñjita-nirghoṣam puram āsīt mahā-svanam.. 19..
ततः सबालवृद्धा सा पुरी परमपीडिता।राममेवाभिदुद्राव घर्मार्तः सलिलं यथा॥ २०॥
ततस् स बाल-वृद्धा सा पुरी परम-पीडिता।रामम् एव अभिदुद्राव घर्म-आर्तः सलिलम् यथा॥ २०॥
tatas sa bāla-vṛddhā sā purī parama-pīḍitā.rāmam eva abhidudrāva gharma-ārtaḥ salilam yathā.. 20..
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः॥ २१॥
पार्श्वतस् पृष्ठतस् च अपि लम्बमानाः तद्-उन्मुखाः।बाष्प-पूर्ण-मुखाः सर्वे तम् ऊचुः भृश-निःस्वनाः॥ २१॥
pārśvatas pṛṣṭhatas ca api lambamānāḥ tad-unmukhāḥ.bāṣpa-pūrṇa-mukhāḥ sarve tam ūcuḥ bhṛśa-niḥsvanāḥ.. 21..
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः।मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति॥ २२॥
संयच्छ वाजिनाम् रश्मीन् सूत याहि शनैस् शनैस्।मुखम् द्रक्ष्याम रामस्य दुर्दर्शम् नः भविष्यति॥ २२॥
saṃyaccha vājinām raśmīn sūta yāhi śanais śanais.mukham drakṣyāma rāmasya durdarśam naḥ bhaviṣyati.. 22..
आयसं हृदयं नूनं राममातुरसंशयम्।यद् देवगर्भप्रतिमे वनं याति न भिद्यते॥ २३॥
आयसम् हृदयम् नूनम् राम-मातुः असंशयम्।यत् देव-गर्भ-प्रतिमे वनम् याति न भिद्यते॥ २३॥
āyasam hṛdayam nūnam rāma-mātuḥ asaṃśayam.yat deva-garbha-pratime vanam yāti na bhidyate.. 23..
कृतकृत्या हि वैदेही छायेवानुगता पतिम्।न जहाति रता धर्मे मेरुमर्कप्रभा यथा॥ २४॥
कृतकृत्या हि वैदेही छाया इव अनुगता पतिम्।न जहाति रता धर्मे मेरुम् अर्क-प्रभा यथा॥ २४॥
kṛtakṛtyā hi vaidehī chāyā iva anugatā patim.na jahāti ratā dharme merum arka-prabhā yathā.. 24..
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि॥ २५॥
अहो लक्ष्मण सिद्धार्थः सततम् प्रिय-वादिनम्।भ्रातरम् देव-संकाशम् यः त्वम् परिचरिष्यसि॥ २५॥
aho lakṣmaṇa siddhārthaḥ satatam priya-vādinam.bhrātaram deva-saṃkāśam yaḥ tvam paricariṣyasi.. 25..
महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्।एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि॥ २६॥
महती एषा हि ते बुद्धिः एष च अभ्युदयः महान्।एष स्वर्गस्य मार्गः च यत् एनम् अनुगच्छसि॥ २६॥
mahatī eṣā hi te buddhiḥ eṣa ca abhyudayaḥ mahān.eṣa svargasya mārgaḥ ca yat enam anugacchasi.. 26..
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम्॥ २७॥
एवम् वदन्तः ते सोढुम् न शेकुः बाष्पम् आगतम्।नराः तम् अनुगच्छन्ति प्रियम् इक्ष्वाकु-नन्दनम्॥ २७॥
evam vadantaḥ te soḍhum na śekuḥ bāṣpam āgatam.narāḥ tam anugacchanti priyam ikṣvāku-nandanam.. 27..
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्॥ २८॥
अथ राजा वृतः स्त्रीभिः दीनाभिः दीन-चेतनः।निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात्॥ २८॥
atha rājā vṛtaḥ strībhiḥ dīnābhiḥ dīna-cetanaḥ.nirjagāma priyam putram drakṣyāmi iti bruvan gṛhāt.. 28..
शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः।यथा नादः करेणूनां बद्धे महति कुञ्जरे॥ २९॥
शुश्रुवे च अग्रतस् स्त्रीणाम् रुदतीनाम् महा-स्वनः।यथा नादः करेणूनाम् बद्धे महति कुञ्जरे॥ २९॥
śuśruve ca agratas strīṇām rudatīnām mahā-svanaḥ.yathā nādaḥ kareṇūnām baddhe mahati kuñjare.. 29..
पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ।परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा॥ ३०॥
पिता हि राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ।परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा॥ ३०॥
pitā hi rājā kākutsthaḥ śrīmān sannaḥ tadā babhau.paripūrṇaḥ śaśī kāle graheṇa upaplutaḥ yathā.. 30..
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।सूतं संचोदयामास त्वरितं वाह्यतामिति॥ ३१॥
स च श्रीमान् अचिन्त्य-आत्मा रामः दशरथ-आत्मजः।सूतम् संचोदयामास त्वरितम् वाह्यताम् इति॥ ३१॥
sa ca śrīmān acintya-ātmā rāmaḥ daśaratha-ātmajaḥ.sūtam saṃcodayāmāsa tvaritam vāhyatām iti.. 31..
रामो याहीति तं सूतं तिष्ठेति च जनस्तथा।उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः॥ ३२॥
रामः याहि इति तम् सूतम् तिष्ठ इति च जनः तथा।उभयम् ना अशकत् सूतः कर्तुम् अध्वनि चोदितः॥ ३२॥
rāmaḥ yāhi iti tam sūtam tiṣṭha iti ca janaḥ tathā.ubhayam nā aśakat sūtaḥ kartum adhvani coditaḥ.. 32..
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।पतितैरभ्यवहितं प्रणनाश महीरजः॥ ३३॥
निर्गच्छति महा-बाहौ रामे पौर-जन-अश्रुभिः।पतितैः अभ्यवहितम् प्रणनाश मही-रजः॥ ३३॥
nirgacchati mahā-bāhau rāme paura-jana-aśrubhiḥ.patitaiḥ abhyavahitam praṇanāśa mahī-rajaḥ.. 33..
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्।प्रयाणे राघवस्यासीत् पुरं परमपीडितम्॥ ३४॥
रुदित-अश्रु-परिद्यूनम् हाहाकृतम् अचेतनम्।प्रयाणे राघवस्य आसीत् पुरम् परम-पीडितम्॥ ३४॥
rudita-aśru-paridyūnam hāhākṛtam acetanam.prayāṇe rāghavasya āsīt puram parama-pīḍitam.. 34..
सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्।मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव॥ ३५॥
सुस्राव नयनैः स्त्रीणाम् अस्रम-आयास-सम्भवम्।मीन-संक्षोभ-चलितैः सलिलम् पङ्कजैः इव॥ ३५॥
susrāva nayanaiḥ strīṇām asrama-āyāsa-sambhavam.mīna-saṃkṣobha-calitaiḥ salilam paṅkajaiḥ iva.. 35..
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।निपपातैव दुःखेन कृत्तमूल इव द्रुमः॥ ३६॥
दृष्ट्वा तु नृपतिः श्रीमान् एकचित्त-गतम् पुरम्।निपपात एव दुःखेन कृत्त-मूलः इव द्रुमः॥ ३६॥
dṛṣṭvā tu nṛpatiḥ śrīmān ekacitta-gatam puram.nipapāta eva duḥkhena kṛtta-mūlaḥ iva drumaḥ.. 36..
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्॥ ३७॥
ततस् हलहला शब्दः जज्ञे रामस्य पृष्ठतस्।नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश-दुःखितम्॥ ३७॥
tatas halahalā śabdaḥ jajñe rāmasya pṛṣṭhatas.narāṇām prekṣya rājānam sīdantam bhṛśa-duḥkhitam.. 37..
हा रामेति जनाः केचिद् राममातेति चापरे।अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन्॥ ३८॥
हा राम इति जनाः केचिद् राम-माता इति च अपरे।अन्तःपुर-समृद्धम् च क्रोशन्तम् पर्यदेवयन्॥ ३८॥
hā rāma iti janāḥ kecid rāma-mātā iti ca apare.antaḥpura-samṛddham ca krośantam paryadevayan.. 38..
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।राजानं मातरं चैव ददर्शानुगतौ पथि॥ ३९॥
अन्वीक्षमाणः रामः तु विषण्णम् भ्रान्त-चेतसम्।राजानम् मातरम् च एव ददर्श अनुगतौ पथि॥ ३९॥
anvīkṣamāṇaḥ rāmaḥ tu viṣaṇṇam bhrānta-cetasam.rājānam mātaram ca eva dadarśa anugatau pathi.. 39..
स बद्ध इव पाशेन किशोरो मातरं यथा।धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत॥ ४०॥
स बद्धः इव पाशेन किशोरः मातरम् यथा।धर्म-पाशेन संयुक्तः प्रकाशम् न अभ्युदैक्षत॥ ४०॥
sa baddhaḥ iva pāśena kiśoraḥ mātaram yathā.dharma-pāśena saṃyuktaḥ prakāśam na abhyudaikṣata.. 40..
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्॥ ४१॥
पदातिनौ च यान-अर्हौ अ दुःख-अर्हौ सुख-उचितौ।दृष्ट्वा संचोदयामास शीघ्रम् याहि इति सारथिम्॥ ४१॥
padātinau ca yāna-arhau a duḥkha-arhau sukha-ucitau.dṛṣṭvā saṃcodayāmāsa śīghram yāhi iti sārathim.. 41..
नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः॥ ४२॥
नहि तत् पुरुष-व्याघ्रः दुःख-जम् दर्शनम् पितुः।मातुः च सहितुम् शक्तः तोत्त्रैः नुन्नः इव द्विपः॥ ४२॥
nahi tat puruṣa-vyāghraḥ duḥkha-jam darśanam pituḥ.mātuḥ ca sahitum śaktaḥ tottraiḥ nunnaḥ iva dvipaḥ.. 42..
प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्।बद्धवत्सा यथा धेनू राममाताभ्यधावत॥ ४३॥
प्रत्यगारम् इव आयान्ती स वत्सा वत्स-कारणात्।बद्ध-वत्सा यथा धेनुः राम-माता अभ्यधावत॥ ४३॥
pratyagāram iva āyāntī sa vatsā vatsa-kāraṇāt.baddha-vatsā yathā dhenuḥ rāma-mātā abhyadhāvata.. 43..
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च॥ ४४॥
तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम्।क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च॥ ४४॥
tathā rudantīm kausalyām ratham tam anudhāvatīm.krośantīm rāma rāma iti hā sīte lakṣmaṇa iti ca.. 44..
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम्॥ ४५॥
राम-लक्ष्मण-सीता-अर्थम् स्रवन्तीम् वारि नेत्र-जम्।असकृत् प्रैक्षत स ताम् नृत्यन्तीम् इव मातरम्॥ ४५॥
rāma-lakṣmaṇa-sītā-artham sravantīm vāri netra-jam.asakṛt praikṣata sa tām nṛtyantīm iva mātaram.. 45..
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा॥ ४६॥
तिष्ठ इति राजा चुक्रोश याहि याहि इति राघवः।सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा॥ ४६॥
tiṣṭha iti rājā cukrośa yāhi yāhi iti rāghavaḥ.sumantrasya babhūva ātmā cakrayoḥ iva ca antarā.. 46..
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥ ४७॥
न अश्रौषम् इति राजानम् उपालब्धः अपि वक्ष्यसि।चिरम् दुःखस्य पापिष्ठम् इति रामः तम् अब्रवीत्॥ ४७॥
na aśrauṣam iti rājānam upālabdhaḥ api vakṣyasi.ciram duḥkhasya pāpiṣṭham iti rāmaḥ tam abravīt.. 47..
स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम्।व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः॥ ४८॥
स रामस्य वचः कुर्वन् अनुज्ञाप्य च तम् जनम्।व्रजतः अपि हयान् शीघ्रम् चोदयामास सारथिः॥ ४८॥
sa rāmasya vacaḥ kurvan anujñāpya ca tam janam.vrajataḥ api hayān śīghram codayāmāsa sārathiḥ.. 48..
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।मनसाप्याशुवेगेन न न्यवर्तत मानुषम्॥ ४९॥
न्यवर्तत जनः राज्ञः रामम् कृत्वा प्रदक्षिणम्।मनसा अपि आशु-वेगेन न न्यवर्तत मानुषम्॥ ४९॥
nyavartata janaḥ rājñaḥ rāmam kṛtvā pradakṣiṇam.manasā api āśu-vegena na nyavartata mānuṣam.. 49..
यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्।इत्यमात्या महाराजमूचुर्दशरथं वचः॥ ५०॥
यम् इच्छेत् पुनर् आयातम् न एनम् दूरम् अनुव्रजेत्।इति अमात्याः महा-राजम् ऊचुः दशरथम् वचः॥ ५०॥
yam icchet punar āyātam na enam dūram anuvrajet.iti amātyāḥ mahā-rājam ūcuḥ daśaratham vacaḥ.. 50..
तेषां वचः सर्वगुणोपपन्नः प्रस्विन्नगात्रः प्रविषण्णरूपः।निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः॥ ५१॥
तेषाम् वचः सर्व-गुण-उपपन्नः प्रस्विन्न-गात्रः प्रविषण्ण-रूपः।निशम्य राजा कृपणः स भार्यः व्यवस्थितः तम् सुतम् ईक्षमाणः॥ ५१॥
teṣām vacaḥ sarva-guṇa-upapannaḥ prasvinna-gātraḥ praviṣaṇṇa-rūpaḥ.niśamya rājā kṛpaṇaḥ sa bhāryaḥ vyavasthitaḥ tam sutam īkṣamāṇaḥ.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे चत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe catvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In