This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकचत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekacatvāriṃśaḥ sargaḥ ..2..
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥१॥
तस्मिन् तु पुरुष-व्याघ्रे निष्क्रामति कृत-अञ्जलौ।आर्त-शब्दः हि संजज्ञे स्त्रीणाम् अन्तःपुरे महान्॥१॥
tasmin tu puruṣa-vyāghre niṣkrāmati kṛta-añjalau.ārta-śabdaḥ hi saṃjajñe strīṇām antaḥpure mahān..1..
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति॥ २॥
अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः।यः गतिः शरणम् च आसीत् स नाथः क्व नु गच्छति॥ २॥
anāthasya janasya asya durbalasya tapasvinaḥ.yaḥ gatiḥ śaraṇam ca āsīt sa nāthaḥ kva nu gacchati.. 2..
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति॥ ३॥
न क्रुध्यति अभिशस्तः अपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् सम-दुःखः क्व गच्छति॥ ३॥
na krudhyati abhiśastaḥ api krodhanīyāni varjayan.kruddhān prasādayan sarvān sama-duḥkhaḥ kva gacchati.. 3..
कौसल्यायां महातेजा यथा मातरि वर्तते।तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४॥
कौसल्यायाम् महा-तेजाः यथा मातरि वर्तते।तथा यः वर्तते अस्मासु महात्मा क्व नु गच्छति॥ ४॥
kausalyāyām mahā-tejāḥ yathā mātari vartate.tathā yaḥ vartate asmāsu mahātmā kva nu gacchati.. 4..
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५॥
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितः वनम्।परित्राता जनस्य अस्य जगतः क्व नु गच्छति॥ ५॥
kaikeyyā kliśyamānena rājñā saṃcoditaḥ vanam.paritrātā janasya asya jagataḥ kva nu gacchati.. 5..
अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्।धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति॥ ६॥
अहो निश्चेतनः राजा जीव-लोकस्य संक्षयम्।धर्म्यम् सत्य-व्रतम् रामम् वन-वासे प्रवत्स्यति॥ ६॥
aho niścetanaḥ rājā jīva-lokasya saṃkṣayam.dharmyam satya-vratam rāmam vana-vāse pravatsyati.. 6..
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७॥
इति सर्वाः महिष्यः ताः विवत्साः इव धेनवः।रुरुदुः च एव दुःख-आर्ताः स स्वरम् च विचुक्रुशुः॥ ७॥
iti sarvāḥ mahiṣyaḥ tāḥ vivatsāḥ iva dhenavaḥ.ruruduḥ ca eva duḥkha-ārtāḥ sa svaram ca vicukruśuḥ.. 7..
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः॥ ८॥
स तम् अन्तःपुरे घोरम् आर्त-शब्दम् महीपतिः।पुत्र-शोक-अभिसंतप्तः श्रुत्वा च आसीत् सु दुःखितः॥ ८॥
sa tam antaḥpure ghoram ārta-śabdam mahīpatiḥ.putra-śoka-abhisaṃtaptaḥ śrutvā ca āsīt su duḥkhitaḥ.. 8..
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत॥ ९॥
न अग्निहोत्राणि अहूयन्त न अपचन् गृहमेधिनः।अकुर्वन् न प्रजाः कार्यम् सूर्यः च अन्तरधीयत॥ ९॥
na agnihotrāṇi ahūyanta na apacan gṛhamedhinaḥ.akurvan na prajāḥ kāryam sūryaḥ ca antaradhīyata.. 9..
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्।पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत॥ १०॥
व्यसृजन् कवलान् नागाः गावः वत्सान् न पाययन्।पुत्राम् प्रथम-जम् लब्ध्वा जननी न अभ्यनन्दत॥ १०॥
vyasṛjan kavalān nāgāḥ gāvaḥ vatsān na pāyayan.putrām prathama-jam labdhvā jananī na abhyanandata.. 10..
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ ११॥
त्रिशङ्कुः लोहिताङ्गः च बृहस्पति-बुधौ अपि।दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ ११॥
triśaṅkuḥ lohitāṅgaḥ ca bṛhaspati-budhau api.dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ.. 11..
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ १२॥
नक्षत्राणि गत-अर्चींषि ग्रहाः च गत-तेजसः।विशाखाः च स धूमाः च नभसि प्रचकाशिरे॥ १२॥
nakṣatrāṇi gata-arcīṃṣi grahāḥ ca gata-tejasaḥ.viśākhāḥ ca sa dhūmāḥ ca nabhasi pracakāśire.. 12..
कालिकानिलवेगेन महोदधिरिवोत्थितः।रामे वनं प्रव्रजिते नगरं प्रचचाल तत्॥ १३॥
कालिका-अनिल-वेगेन महोदधिः इव उत्थितः।रामे वनम् प्रव्रजिते नगरम् प्रचचाल तत्॥ १३॥
kālikā-anila-vegena mahodadhiḥ iva utthitaḥ.rāme vanam pravrajite nagaram pracacāla tat.. 13..
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन॥ १४॥
दिशः पर्याकुलाः सर्वाः तिमिरेण इव संवृताः।न ग्रहः न अपि नक्षत्रम् प्रचकाशे न किंचन॥ १४॥
diśaḥ paryākulāḥ sarvāḥ timireṇa iva saṃvṛtāḥ.na grahaḥ na api nakṣatram pracakāśe na kiṃcana.. 14..
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १५॥
अकस्मात् नागरः सर्वः जनः दैन्यम् उपागमत्।आहारे वा विहारे वा न कश्चिद् अकरोत् मनः॥ १५॥
akasmāt nāgaraḥ sarvaḥ janaḥ dainyam upāgamat.āhāre vā vihāre vā na kaścid akarot manaḥ.. 15..
शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्।अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्॥ १६॥
शोक-पर्याय-संतप्तः सततम् दीर्घम् उच्छ्वसन्।अयोध्यायाम् जनः सर्वः चुक्रोश जगतीपतिम्॥ १६॥
śoka-paryāya-saṃtaptaḥ satatam dīrgham ucchvasan.ayodhyāyām janaḥ sarvaḥ cukrośa jagatīpatim.. 16..
बाष्पपर्याकुलमुखो राजमार्गगतो जनः।न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः॥ १७॥
बाष्प-पर्याकुल-मुखः राजमार्ग-गतः जनः।न हृष्टः लभ्यते कश्चिद् सर्वः शोक-परायणः॥ १७॥
bāṣpa-paryākula-mukhaḥ rājamārga-gataḥ janaḥ.na hṛṣṭaḥ labhyate kaścid sarvaḥ śoka-parāyaṇaḥ.. 17..
न वाति पवनः शीतो न शशी सौम्यदर्शनः।न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १८॥
न वाति पवनः शीतः न शशी सौम्य-दर्शनः।न सूर्यः तपते लोकम् सर्वम् पर्याकुलम् जगत्॥ १८॥
na vāti pavanaḥ śītaḥ na śaśī saumya-darśanaḥ.na sūryaḥ tapate lokam sarvam paryākulam jagat.. 18..
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १९॥
अनर्थिनः सुताः स्त्रीणाम् भर्तारः भ्रातरः तथा।सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन्॥ १९॥
anarthinaḥ sutāḥ strīṇām bhartāraḥ bhrātaraḥ tathā.sarve sarvam parityajya rāmam eva anvacintayan.. 19..
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे॥ २०॥
ये तु रामस्य सुहृदः सर्वे ते मूढ-चेतसः।शोक-भारेण च आक्रान्ताः शयनम् न एव भेजिरे॥ २०॥
ye tu rāmasya suhṛdaḥ sarve te mūḍha-cetasaḥ.śoka-bhāreṇa ca ākrāntāḥ śayanam na eva bhejire.. 20..
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता।चचाल घोरं भयशोकदीपिता सनागयोधाश्वगणा ननाद च॥ २१॥
ततस् तु अयोध्या रहिता महात्मना पुरन्दरेण इव मही स पर्वता।चचाल घोरम् भय-शोक-दीपिता स नाग-योध-अश्व-गणा ननाद च॥ २१॥
tatas tu ayodhyā rahitā mahātmanā purandareṇa iva mahī sa parvatā.cacāla ghoram bhaya-śoka-dīpitā sa nāga-yodha-aśva-gaṇā nanāda ca.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे एकचत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ekacatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In