This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाचत्वारिंशः सर्गः ॥२-४२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्वाचत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvācatvāriṃśaḥ sargaḥ ..2..
यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत।नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी॥ १॥
यावत् तु निर्यतः तस्य रजः-रूपम् अदृश्यत।न एव इक्ष्वाकु-वरः तावत् संजहार आत्म-चक्षुषी॥ १॥
yāvat tu niryataḥ tasya rajaḥ-rūpam adṛśyata.na eva ikṣvāku-varaḥ tāvat saṃjahāra ātma-cakṣuṣī.. 1..
यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्।तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने॥ २॥
यावत् राजा प्रियम् पुत्रम् पश्यति अत्यन्त-धार्मिकम्।तावत् व्यवर्धत इव अस्य धरण्याम् पुत्र-दर्शने॥ २॥
yāvat rājā priyam putram paśyati atyanta-dhārmikam.tāvat vyavardhata iva asya dharaṇyām putra-darśane.. 2..
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः।तदार्तश्च निषण्णश्च पपात धरणीतले॥ ३॥
न पश्यति रजः अपि अस्य यदा रामस्य भूमिपः।तदा आर्तः च निषण्णः च पपात धरणी-तले॥ ३॥
na paśyati rajaḥ api asya yadā rāmasya bhūmipaḥ.tadā ārtaḥ ca niṣaṇṇaḥ ca papāta dharaṇī-tale.. 3..
तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना।परं चास्यान्वगात् पार्श्वं कैकेयी सा सुमध्यमा॥ ४॥
तस्य दक्षिणम् अन्वागात् कौसल्या बाहुम् अङ्गना।परम् च अस्य अन्वगात् पार्श्वम् कैकेयी सा सुमध्यमा॥ ४॥
tasya dakṣiṇam anvāgāt kausalyā bāhum aṅganā.param ca asya anvagāt pārśvam kaikeyī sā sumadhyamā.. 4..
तां नयेन च सम्पन्नो धर्मेण विनयेन च।उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः॥ ५॥
ताम् नयेन च सम्पन्नः धर्मेण विनयेन च।उवाच राजा कैकेयीम् समीक्ष्य व्यथित-इन्द्रियः॥ ५॥
tām nayena ca sampannaḥ dharmeṇa vinayena ca.uvāca rājā kaikeyīm samīkṣya vyathita-indriyaḥ.. 5..
कैकेयि मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये।नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी॥ ६॥
कैकेयि मामक-अङ्गानि मा स्प्राक्षीः पाप-निश्चये।नहि त्वाम् द्रष्टुम् इच्छामि न भार्या न च बान्धवी॥ ६॥
kaikeyi māmaka-aṅgāni mā sprākṣīḥ pāpa-niścaye.nahi tvām draṣṭum icchāmi na bhāryā na ca bāndhavī.. 6..
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम।केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्॥ ७॥
ये च त्वाम् अनुजीवन्ति न अहम् तेषाम् न ते मम।केवल-अर्थ-पराम् हि त्वाम् त्यक्त-धर्माम् त्यजामि अहम्॥ ७॥
ye ca tvām anujīvanti na aham teṣām na te mama.kevala-artha-parām hi tvām tyakta-dharmām tyajāmi aham.. 7..
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्।अनुजानामि तत् सर्वमस्मिंल्लोके परत्र च॥ ८॥
अगृह्णाम् यत् च ते पाणिम् अग्निम् पर्यणयम् च यत्।अनुजानामि तत् सर्वम् अस्मिन् लोके परत्र च॥ ८॥
agṛhṇām yat ca te pāṇim agnim paryaṇayam ca yat.anujānāmi tat sarvam asmin loke paratra ca.. 8..
भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम्।यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत्॥ ९॥
भरतः चेद् प्रतीतः स्यात् राज्यम् प्राप्य एतत् अव्ययम्।यत् मे स दद्यात् पितृ-अर्थम् मा माम् तत् दत्तम् आगमत्॥ ९॥
bharataḥ ced pratītaḥ syāt rājyam prāpya etat avyayam.yat me sa dadyāt pitṛ-artham mā mām tat dattam āgamat.. 9..
अथ रेणुसमुद्ध्वस्तं समुत्थाप्य नराधिपम्।न्यवर्तत तदा देवी कौसल्या शोककर्शिता॥ १०॥
अथ रेणु-समुद्ध्वस्तम् समुत्थाप्य नराधिपम्।न्यवर्तत तदा देवी कौसल्या शोक-कर्शिता॥ १०॥
atha reṇu-samuddhvastam samutthāpya narādhipam.nyavartata tadā devī kausalyā śoka-karśitā.. 10..
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना।अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम्॥ ११॥
हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना।अन्वतप्यत धर्म-आत्मा पुत्रम् संचिन्त्य राघवम्॥ ११॥
hatvā iva brāhmaṇam kāmāt spṛṣṭvā agnim iva pāṇinā.anvatapyata dharma-ātmā putram saṃcintya rāghavam.. 11..
निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु।राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा॥ १२॥
निवृत्य एव निवृत्य एव सीदतः रथ-वर्त्मसु।राज्ञः न अतिबभौ रूपम् ग्रस्तस्य अंशुमतः यथा॥ १२॥
nivṛtya eva nivṛtya eva sīdataḥ ratha-vartmasu.rājñaḥ na atibabhau rūpam grastasya aṃśumataḥ yathā.. 12..
विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन्।नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्॥ १३॥
विललाप स दुःख-आर्तः प्रियम् पुत्रम् अनुस्मरन्।नगर-अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत्॥ १३॥
vilalāpa sa duḥkha-ārtaḥ priyam putram anusmaran.nagara-antam anuprāptam buddhvā putram atha abravīt.. 13..
वाहनानां च मुख्यानां वहतां तं ममात्मजम्।पदानि पथि दृश्यन्ते स महात्मा न दृश्यते॥ १४॥
वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम्।पदानि पथि दृश्यन्ते स महात्मा न दृश्यते॥ १४॥
vāhanānām ca mukhyānām vahatām tam mama ātmajam.padāni pathi dṛśyante sa mahātmā na dṛśyate.. 14..
यः सुखेनोपधानेषु शेते चन्दनरूषितः।वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः॥ १५॥
यः सुखेन उपधानेषु शेते चन्दन-रूषितः।वीज्यमानः महार्हाभिः स्त्रीभिः मम सुत-उत्तमः॥ १५॥
yaḥ sukhena upadhāneṣu śete candana-rūṣitaḥ.vījyamānaḥ mahārhābhiḥ strībhiḥ mama suta-uttamaḥ.. 15..
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः।काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते॥ १६॥
स नूनम् क्वचिद् एव अद्य वृक्ष-मूलम् उपाश्रितः।काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते॥ १६॥
sa nūnam kvacid eva adya vṛkṣa-mūlam upāśritaḥ.kāṣṭham vā yadi vā aśmānam upadhāya śayiṣyate.. 16..
उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः।विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः॥ १७॥
उत्थास्यति च मेदिन्याः कृपणः पांसु-गुण्ठितः।विनिःश्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः॥ १७॥
utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃsu-guṇṭhitaḥ.viniḥśvasan prasravaṇāt kareṇūnām iva ṛṣabhaḥ.. 17..
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः।राममुत्थाय गच्छन्तं लोकनाथमनाथवत्॥ १८॥
द्रक्ष्यन्ति नूनम् पुरुषाः दीर्घ-बाहुम् वनेचराः।रामम् उत्थाय गच्छन्तम् लोकनाथम् अनाथ-वत्॥ १८॥
drakṣyanti nūnam puruṣāḥ dīrgha-bāhum vanecarāḥ.rāmam utthāya gacchantam lokanātham anātha-vat.. 18..
सा नूनं जनकस्येष्टा सुता सुखसदोचिता।कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति॥ १९॥
सा नूनम् जनकस्य इष्टा सुता सुख-सदा उचिता।कण्टक-आक्रमण-क्लान्ता वनम् अद्य गमिष्यति॥ १९॥
sā nūnam janakasya iṣṭā sutā sukha-sadā ucitā.kaṇṭaka-ākramaṇa-klāntā vanam adya gamiṣyati.. 19..
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति।श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्॥ २०॥
अनभिज्ञाः वनानाम् सा नूनम् भयम् उपैष्यति।श्वपदा-नर्दितम् श्रुत्वा गम्भीरम् रोम-हर्षणम्॥ २०॥
anabhijñāḥ vanānām sā nūnam bhayam upaiṣyati.śvapadā-narditam śrutvā gambhīram roma-harṣaṇam.. 20..
सकामा भव कैकेयि विधवा राज्यमावस।नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे॥ २१॥
स कामा भव कैकेयि विधवा राज्यम् आवस।नहि तम् पुरुष-व्याघ्रम् विना जीवितुम् उत्सहे॥ २१॥
sa kāmā bhava kaikeyi vidhavā rājyam āvasa.nahi tam puruṣa-vyāghram vinā jīvitum utsahe.. 21..
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः।अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम्॥ २२॥
इति एवम् विलपन् राजा जन-ओघेन अभिसंवृतः।अपस्नातः इव अरिष्टम् प्रविवेश गृह-उत्तमम्॥ २२॥
iti evam vilapan rājā jana-oghena abhisaṃvṛtaḥ.apasnātaḥ iva ariṣṭam praviveśa gṛha-uttamam.. 22..
शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम्।क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्॥ २३॥
शून्य-चत्वर-वेश्म-अन्ताम् संवृत-आपण-वेदिकाम्।क्लान्त-दुर्बल-दुःख-आर्ताम् न अति आकीर्ण-महापथाम्॥ २३॥
śūnya-catvara-veśma-antām saṃvṛta-āpaṇa-vedikām.klānta-durbala-duḥkha-ārtām na ati ākīrṇa-mahāpathām.. 23..
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्।विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्॥ २४॥
ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन्।विलपन् प्राविशत् राजा गृहम् सूर्यः इव अम्बुदम्॥ २४॥
tām avekṣya purīm sarvām rāmam eva anucintayan.vilapan prāviśat rājā gṛham sūryaḥ iva ambudam.. 24..
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्।रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च॥ २५॥
महा-ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत-उरगम्।रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च॥ २५॥
mahā-hradam iva akṣobhyam suparṇena hṛta-uragam.rāmeṇa rahitam veśma vaidehyā lakṣmaṇena ca.. 25..
अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः।उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्॥ २६॥
अथ गद्गद-शब्दः तु विलपन् वसुधाधिपः।उवाच मृदु मन्द-अर्थम् वचनम् दीनम् अस्वरम्॥ २६॥
atha gadgada-śabdaḥ tu vilapan vasudhādhipaḥ.uvāca mṛdu manda-artham vacanam dīnam asvaram.. 26..
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्।नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति॥ २७॥
कौसल्यायाः गृहम् शीघ्रम् राम-मातुः नयन्तु माम्।नहि अन्यत्र मम आश्वासः हृदयस्य भविष्यति॥ २७॥
kausalyāyāḥ gṛham śīghram rāma-mātuḥ nayantu mām.nahi anyatra mama āśvāsaḥ hṛdayasya bhaviṣyati.. 27..
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः।कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत्॥ २८॥
इति ब्रुवन्तम् राजानम् अनयन् द्वारदर्शिनः।कौसल्यायाः गृहम् तत्र न्यवेस्यत विनीत-वत्॥ २८॥
iti bruvantam rājānam anayan dvāradarśinaḥ.kausalyāyāḥ gṛham tatra nyavesyata vinīta-vat.. 28..
ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्।अधिरुह्यापि शयनं बभूव लुलितं मनः॥ २९॥
ततस् तत्र प्रविष्टस्य कौसल्यायाः निवेशनम्।अधिरुह्य अपि शयनम् बभूव लुलितम् मनः॥ २९॥
tatas tatra praviṣṭasya kausalyāyāḥ niveśanam.adhiruhya api śayanam babhūva lulitam manaḥ.. 29..
पुत्रद्वयविहीनं च स्नुषया च विवर्जितम्।अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्॥ ३०॥
पुत्र-द्वय-विहीनम् च स्नुषया च विवर्जितम्।अपश्यत् भवनम् राजा नष्ट-चन्द्रम् इव अम्बरम्॥ ३०॥
putra-dvaya-vihīnam ca snuṣayā ca vivarjitam.apaśyat bhavanam rājā naṣṭa-candram iva ambaram.. 30..
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्।उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ॥ ३१॥
तत् च दृष्ट्वा महा-राजः भुजम् उद्यम्य वीर्यवान्।उच्चैस् स्वरेण प्राक्रोशत् हा राम विजहासि नौ॥ ३१॥
tat ca dṛṣṭvā mahā-rājaḥ bhujam udyamya vīryavān.uccais svareṇa prākrośat hā rāma vijahāsi nau.. 31..
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः।परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्॥ ३२॥
सुखिताः बत तम् कालम् जीविष्यन्ति नर-उत्तमाः।परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम्॥ ३२॥
sukhitāḥ bata tam kālam jīviṣyanti nara-uttamāḥ.pariṣvajantaḥ ye rāmam drakṣyanti punar āgatam.. 32..
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः।अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्॥ ३३॥
अथ रात्र्याम् प्रपन्नायाम् कालरात्र्याम् इव आत्मनः।अर्धरात्रे दशरथः कौसल्याम् इदम् अब्रवीत्॥ ३३॥
atha rātryām prapannāyām kālarātryām iva ātmanaḥ.ardharātre daśarathaḥ kausalyām idam abravīt.. 33..
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश।रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते॥ ३४॥
न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश।रामम् मे अनुगता दृष्टिः अद्य अपि न निवर्तते॥ ३४॥
na tvām paśyāmi kausalye sādhu mām pāṇinā spṛśa.rāmam me anugatā dṛṣṭiḥ adya api na nivartate.. 34..
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्।उपोपविश्याधिकमार्तरूपा विनिश्वसन्तं विललाप कृच्छ्रम्॥ ३५॥
तम् रामम् एव अनुविचिन्तयन्तम् समीक्ष्य देवी शयने नरेन्द्रम्।उपोपविश्य अधिकम् आर्त-रूपा विनिश्वसन्तम् विललाप कृच्छ्रम्॥ ३५॥
tam rāmam eva anuvicintayantam samīkṣya devī śayane narendram.upopaviśya adhikam ārta-rūpā viniśvasantam vilalāpa kṛcchram.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे द्विचत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe dvicatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In