This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-४३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रिचत्वारिशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe tricatvāriśaḥ sargaḥ ..2..
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्।कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्॥ १॥
ततस् समीक्ष्य शयने सन्नम् शोकेन पार्थिवम्।कौसल्या पुत्र-शोक-आर्ता तम् उवाच महीपतिम्॥ १॥
tatas samīkṣya śayane sannam śokena pārthivam.kausalyā putra-śoka-ārtā tam uvāca mahīpatim.. 1..
राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा।विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी॥ २॥
राघवे नर-शार्दूले विषम् मुक्त्वा अहि-जिह्म-गा।विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी॥ २॥
rāghave nara-śārdūle viṣam muktvā ahi-jihma-gā.vicariṣyati kaikeyī nirmuktā iva hi pannagī.. 2..
विवास्य रामं सुभगा लब्धकामा समाहिता।त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि॥ ३॥
विवास्य रामम् सुभगा लब्ध-कामा समाहिता।त्रासयिष्यति माम् भूयस् दुष्ट-अहिः इव वेश्मनि॥ ३॥
vivāsya rāmam subhagā labdha-kāmā samāhitā.trāsayiṣyati mām bhūyas duṣṭa-ahiḥ iva veśmani.. 3..
अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत्।कामकारो वरं दातुमपि दासं ममात्मजम्॥ ४॥
अथ अस्मिन् नगरे रामः चरन् भैक्षम् गृहे वसेत्।काम-कारः वरम् दातुम् अपि दासम् मम आत्मजम्॥ ४॥
atha asmin nagare rāmaḥ caran bhaikṣam gṛhe vaset.kāma-kāraḥ varam dātum api dāsam mama ātmajam.. 4..
पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः।प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना॥ ५॥
पातयित्वा तु कैकेय्याः रामम् स्थानात् यथेष्टतः।प्रविद्धः रक्षसाम् भागः पर्वणि इव आहिताग्निना॥ ५॥
pātayitvā tu kaikeyyāḥ rāmam sthānāt yatheṣṭataḥ.praviddhaḥ rakṣasām bhāgaḥ parvaṇi iva āhitāgninā.. 5..
नागराजगतिर्वीरो महाबाहुर्धनुर्धरः।वनमाविशते नूनं सभार्यः सहलक्ष्मणः॥ ६॥
नाग-राज-गतिः वीरः महा-बाहुः धनुः-धरः।वनम् आविशते नूनम् स भार्यः सहलक्ष्मणः॥ ६॥
nāga-rāja-gatiḥ vīraḥ mahā-bāhuḥ dhanuḥ-dharaḥ.vanam āviśate nūnam sa bhāryaḥ sahalakṣmaṇaḥ.. 6..
वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया।त्यक्तानां वनवासाय कान्यावस्था भविष्यति॥ ७॥
वने तु अदृष्ट-दुःखानाम् कैकेयी अनुमते त्वया।त्यक्तानाम् वन-वासाय का अन्या अवस्था भविष्यति॥ ७॥
vane tu adṛṣṭa-duḥkhānām kaikeyī anumate tvayā.tyaktānām vana-vāsāya kā anyā avasthā bhaviṣyati.. 7..
ते रत्नहीनास्तरुणाः फलकाले विवासिताः।कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः॥ ८॥
ते रत्न-हीनाः तरुणाः फल-काले विवासिताः।कथम् वत्स्यन्ति कृपणाः फल-मूलैः कृत-अशनाः॥ ८॥
te ratna-hīnāḥ taruṇāḥ phala-kāle vivāsitāḥ.katham vatsyanti kṛpaṇāḥ phala-mūlaiḥ kṛta-aśanāḥ.. 8..
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः।सहभार्यं सह भ्रात्रा पश्येयमिह राघवम्॥ ९॥
अपि इदानीम् स कालः स्यात् मम शोक-क्षयः शिवः।सह भार्यम् सह भ्रात्रा पश्येयम् इह राघवम्॥ ९॥
api idānīm sa kālaḥ syāt mama śoka-kṣayaḥ śivaḥ.saha bhāryam saha bhrātrā paśyeyam iha rāghavam.. 9..
श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति।यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी॥ १०॥
श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति।यशस्विनी हृष्ट-जना सु उच्छ्रित-ध्वज-मालिनी॥ १०॥
śrutvā eva upasthitau vīrau kadā ayodhyā bhaviṣyati.yaśasvinī hṛṣṭa-janā su ucchrita-dhvaja-mālinī.. 10..
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ।भविष्यति पुरी हृष्टा समुद्र इव पर्वणि॥ ११॥
कदा प्रेक्ष्य नर-व्याघ्रौ अरण्यात् पुनर् आगतौ।भविष्यति पुरी हृष्टा समुद्रः इव पर्वणि॥ ११॥
kadā prekṣya nara-vyāghrau araṇyāt punar āgatau.bhaviṣyati purī hṛṣṭā samudraḥ iva parvaṇi.. 11..
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति।पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव॥ १२॥
कदा अयोध्याम् महा-बाहुः पुरीम् वीरः प्रवेक्ष्यति।पुरस्कृत्य रथे सीताम् वृषभः गो-वधूम् इव॥ १२॥
kadā ayodhyām mahā-bāhuḥ purīm vīraḥ pravekṣyati.puraskṛtya rathe sītām vṛṣabhaḥ go-vadhūm iva.. 12..
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ।लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ॥ १३॥
कदा प्राणि-सहस्राणि राजमार्गे मम आत्मजौ।लाजैः अवकरिष्यन्ति प्रविशन्तौ अरिंदमौ॥ १३॥
kadā prāṇi-sahasrāṇi rājamārge mama ātmajau.lājaiḥ avakariṣyanti praviśantau ariṃdamau.. 13..
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ।उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ॥ १४॥
प्रविशन्तौ कदा अयोध्याम् द्रक्ष्यामि शुभ-कुण्डलौ।उदग्र-आयुध-निस्त्रिंशौ स शृङ्गौ इव पर्वतौ॥ १४॥
praviśantau kadā ayodhyām drakṣyāmi śubha-kuṇḍalau.udagra-āyudha-nistriṃśau sa śṛṅgau iva parvatau.. 14..
कदा सुमनसः कन्या द्विजातीनां फलानि च।प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्॥ १५॥
कदा सुमनसः कन्याः द्विजातीनाम् फलानि च।प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम्॥ १५॥
kadā sumanasaḥ kanyāḥ dvijātīnām phalāni ca.pradiśantyaḥ purīm hṛṣṭāḥ kariṣyanti pradakṣiṇam.. 15..
कदा परिणतो बुद्ध्या वयसा चामरप्रभाः।अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन्॥ १६॥
कदा परिणतः बुद्ध्या वयसा च अमर-प्रभाः।अभ्युपैष्यति धर्म-आत्मा सुवर्षः इव लालयन्॥ १६॥
kadā pariṇataḥ buddhyā vayasā ca amara-prabhāḥ.abhyupaiṣyati dharma-ātmā suvarṣaḥ iva lālayan.. 16..
निःसंशयं मया मन्ये पुरा वीर कदर्यया।पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः॥ १७॥
निःसंशयम् मया मन्ये पुरा वीर कदर्यया।पातु-कामेषु वत्सेषु मातॄणाम् शातिताः स्तनाः॥ १७॥
niḥsaṃśayam mayā manye purā vīra kadaryayā.pātu-kāmeṣu vatseṣu mātṝṇām śātitāḥ stanāḥ.. 17..
साहं गौरिव सिंहेन विवत्सा वत्सला कृता।कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्॥ १८॥
सा अहम् गौः इव सिंहेन विवत्सा वत्सला कृता।कैकेय्या पुरुष-व्याघ्र बाल-वत्सा इव गौः बलात्॥ १८॥
sā aham gauḥ iva siṃhena vivatsā vatsalā kṛtā.kaikeyyā puruṣa-vyāghra bāla-vatsā iva gauḥ balāt.. 18..
नहि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्।एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे॥ १९॥
नहि तावत् गुणैः जुष्टम् सर्व-शास्त्र-विशारदम्।एक-पुत्राः विना पुत्रम् अहम् जीवितुम् उत्सहे॥ १९॥
nahi tāvat guṇaiḥ juṣṭam sarva-śāstra-viśāradam.eka-putrāḥ vinā putram aham jīvitum utsahe.. 19..
न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते।अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणं च महाबलम्॥ २०॥
न हि मे जीविते किंचिद् सामर्थ्यम् इह कल्प्यते।अपश्यन्त्याः प्रियम् पुत्रम् लक्ष्मणम् च महा-बलम्॥ २०॥
na hi me jīvite kiṃcid sāmarthyam iha kalpyate.apaśyantyāḥ priyam putram lakṣmaṇam ca mahā-balam.. 20..
अयं हि मां दीपयतेऽद्य वह्नि- स्तनूजशोकप्रभवो महाहितः।महीमिमां रश्मिभिरुत्तमप्रभो यथा निदाघे भगवान् दिवाकरः॥ २१॥
अयम् हि माम् दीपयते अद्य वह्निः तनूज-शोक-प्रभवः महा-हितः।महीम् इमाम् रश्मिभिः उत्तम-प्रभः यथा निदाघे भगवान् दिवाकरः॥ २१॥
ayam hi mām dīpayate adya vahniḥ tanūja-śoka-prabhavaḥ mahā-hitaḥ.mahīm imām raśmibhiḥ uttama-prabhaḥ yathā nidāghe bhagavān divākaraḥ.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-४३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे त्रिचत्वारिशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe tricatvāriśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In