This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चचत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcacatvāriṃśaḥ sargaḥ ..2..
अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥ १॥
अनुरक्ताः महात्मानम् रामम् सत्य-पराक्रमम्।अनुजग्मुः प्रयान्तम् तम् वन-वासाय मानवाः॥ १॥
anuraktāḥ mahātmānam rāmam satya-parākramam.anujagmuḥ prayāntam tam vana-vāsāya mānavāḥ.. 1..
निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि।नैव ते संन्यवर्तन्त रामस्यानुगता रथम्॥ २॥
निवर्तिते अतीव बलात् सुहृद्-धर्मेण राजनि।न एव ते संन्यवर्तन्त रामस्य अनुगताः रथम्॥ २॥
nivartite atīva balāt suhṛd-dharmeṇa rājani.na eva te saṃnyavartanta rāmasya anugatāḥ ratham.. 2..
अयोध्यानिलयानां हि पुरुषाणां महायशाः।बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः॥ ३॥
अयोध्या-निलयानाम् हि पुरुषाणाम् महा-यशाः।बभूव गुण-सम्पन्नः पूर्ण-चन्द्रः इव प्रियः॥ ३॥
ayodhyā-nilayānām hi puruṣāṇām mahā-yaśāḥ.babhūva guṇa-sampannaḥ pūrṇa-candraḥ iva priyaḥ.. 3..
स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा।कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत॥ ४॥
स याच्यमानः काकुत्स्थः ताभिः प्रकृतिभिः तदा।कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत॥ ४॥
sa yācyamānaḥ kākutsthaḥ tābhiḥ prakṛtibhiḥ tadā.kurvāṇaḥ pitaram satyam vanam eva anvapadyata.. 4..
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव॥ ५॥
अवेक्षमाणः स स्नेहम् चक्षुषा प्रपिबन् इव।उवाच रामः स स्नेहम् ताः प्रजाः स्वाः प्रजाः इव॥ ५॥
avekṣamāṇaḥ sa sneham cakṣuṣā prapiban iva.uvāca rāmaḥ sa sneham tāḥ prajāḥ svāḥ prajāḥ iva.. 5..
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।मत्प्रियार्थं विशेषेण भरते सा विधीयताम्॥ ६॥
या प्रीतिः बहु-मानः च मयि अयोध्या-निवासिनाम्।मद्-प्रिय-अर्थम् विशेषेण भरते सा विधीयताम्॥ ६॥
yā prītiḥ bahu-mānaḥ ca mayi ayodhyā-nivāsinām.mad-priya-artham viśeṣeṇa bharate sā vidhīyatām.. 6..
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।करिष्यति यथावद् वः प्रियाणि च हितानि च॥ ७॥
स हि कल्याण-चारित्रः कैकेयी-आनन्द-वर्धनः।करिष्यति यथावत् वः प्रियाणि च हितानि च॥ ७॥
sa hi kalyāṇa-cāritraḥ kaikeyī-ānanda-vardhanaḥ.kariṣyati yathāvat vaḥ priyāṇi ca hitāni ca.. 7..
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।अनुरूपः स वो भर्ता भविष्यति भयापहः॥ ८॥
ज्ञान-वृद्धः वयः-बालः मृदुः वीर्य-गुण-अन्वितः।अनुरूपः स वः भर्ता भविष्यति भय-अपहः॥ ८॥
jñāna-vṛddhaḥ vayaḥ-bālaḥ mṛduḥ vīrya-guṇa-anvitaḥ.anurūpaḥ sa vaḥ bhartā bhaviṣyati bhaya-apahaḥ.. 8..
स हि राजगुणैर्युक्तो युवराजः समीक्षितः।अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्॥ ९॥
स हि राज-गुणैः युक्तः युवराजः समीक्षितः।अपि च अपि मया शिष्टैः कार्यम् वः भर्तृ-शासनम्॥ ९॥
sa hi rāja-guṇaiḥ yuktaḥ yuvarājaḥ samīkṣitaḥ.api ca api mayā śiṣṭaiḥ kāryam vaḥ bhartṛ-śāsanam.. 9..
न संतप्येद् यथा चासौ वनवासं गते मयि।महाराजस्तथा कार्यो मम प्रियचिकीर्षया॥ १०॥
न संतप्येत् यथा च असौ वन-वासम् गते मयि।महा-राजः तथा कार्यः मम प्रिय-चिकीर्षया॥ १०॥
na saṃtapyet yathā ca asau vana-vāsam gate mayi.mahā-rājaḥ tathā kāryaḥ mama priya-cikīrṣayā.. 10..
यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत्।तथा तथा प्रकृतयो रामं पतिमकामयन्॥ ११॥
यथा यथा दाशरथिः धर्मम् एव आश्रितः भवेत्।तथा तथा प्रकृतयः रामम् पतिम् अकामयन्॥ ११॥
yathā yathā dāśarathiḥ dharmam eva āśritaḥ bhavet.tathā tathā prakṛtayaḥ rāmam patim akāmayan.. 11..
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम्॥ १२॥
बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह।चकर्ष इव गुणैः बद्धम् जनम् पुर-निवासिनम्॥ १२॥
bāṣpeṇa pihitam dīnam rāmaḥ saumitriṇā saha.cakarṣa iva guṇaiḥ baddham janam pura-nivāsinam.. 12..
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।वयःप्रकम्पशिरसो दूरादूचुरिदं वचः॥ १३॥
ते द्विजाः त्रिविधम् वृद्धाः ज्ञानेन वयसा ओजसा।वयः-प्रकम्प-शिरसः दूरात् ऊचुः इदम् वचः॥ १३॥
te dvijāḥ trividham vṛddhāḥ jñānena vayasā ojasā.vayaḥ-prakampa-śirasaḥ dūrāt ūcuḥ idam vacaḥ.. 13..
वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः।निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि॥ १४॥
वहन्तः जवनाः रामम् भो भो जात्याः तुरंगमाः।निवर्तध्वम् न गन्तव्यम् हिताः भवत भर्तरि॥ १४॥
vahantaḥ javanāḥ rāmam bho bho jātyāḥ turaṃgamāḥ.nivartadhvam na gantavyam hitāḥ bhavata bhartari.. 14..
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः॥ १५॥
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।यूयम् तस्मात् निवर्तध्वम् याचनाम् प्रतिवेदिताः॥ १५॥
karṇavanti hi bhūtāni viśeṣeṇa turaṅgamāḥ.yūyam tasmāt nivartadhvam yācanām prativeditāḥ.. 15..
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्॥ १६॥
धर्मतः स विशुद्ध-आत्मा वीरः शुभ-दृढ-व्रतः।उपवाह्यः तु वः भर्ता न अपवाह्यः पुरात् वनम्॥ १६॥
dharmataḥ sa viśuddha-ātmā vīraḥ śubha-dṛḍha-vrataḥ.upavāhyaḥ tu vaḥ bhartā na apavāhyaḥ purāt vanam.. 16..
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।अवेक्ष्य सहसा रामो रथादवततार ह॥ १७॥
एवम् आर्त-प्रलापान् तान् वृद्धान् प्रलपतः द्विजान्।अवेक्ष्य सहसा रामः रथात् अवततार ह॥ १७॥
evam ārta-pralāpān tān vṛddhān pralapataḥ dvijān.avekṣya sahasā rāmaḥ rathāt avatatāra ha.. 17..
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः।संनिकृष्टपदन्यासो रामो वनपरायणः॥ १८॥
पद्भ्याम् एव जगाम अथ स सीतः सह लक्ष्मणः।संनिकृष्ट-पदन्यासः रामः वन-परायणः॥ १८॥
padbhyām eva jagāma atha sa sītaḥ saha lakṣmaṇaḥ.saṃnikṛṣṭa-padanyāsaḥ rāmaḥ vana-parāyaṇaḥ.. 18..
द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः।न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः॥ १९॥
द्विजातीन् हि पदातीन् तान् रामः चारित्र-वत्सलः।न शशाक घृणा-चक्षुः परिमोक्तुम् रथेन सः॥ १९॥
dvijātīn hi padātīn tān rāmaḥ cāritra-vatsalaḥ.na śaśāka ghṛṇā-cakṣuḥ parimoktum rathena saḥ.. 19..
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः।ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः॥ २०॥
गच्छन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त-मानसाः।ऊचुः परम-संतप्ताः रामम् वाक्यम् इदम् द्विजाः॥ २०॥
gacchantam eva tam dṛṣṭvā rāmam sambhrānta-mānasāḥ.ūcuḥ parama-saṃtaptāḥ rāmam vākyam idam dvijāḥ.. 20..
ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति।द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी॥ २१॥
ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्छति।द्विज-स्कन्ध-अधिरूढाः त्वाम् अग्नयः अपि अनुयान्तु अमी॥ २१॥
brāhmaṇyam kṛtsnam etat tvām brahmaṇyam anugacchati.dvija-skandha-adhirūḍhāḥ tvām agnayaḥ api anuyāntu amī.. 21..
वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः।पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये॥ २२॥
वाजपेय-समुत्थानि छत्राणि एतानि पश्य नः।पृष्ठतस् अनुप्रयातानि मेघान् इव जलात्यये॥ २२॥
vājapeya-samutthāni chatrāṇi etāni paśya naḥ.pṛṣṭhatas anuprayātāni meghān iva jalātyaye.. 22..
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते।एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयकैः॥ २३॥
अन् अवाप्त-आतपत्रस्य रश्मि-संतापितस्य ते।एभिः छायाम् करिष्यामः स्वैः छत्रैः वाजपेयकैः॥ २३॥
an avāpta-ātapatrasya raśmi-saṃtāpitasya te.ebhiḥ chāyām kariṣyāmaḥ svaiḥ chatraiḥ vājapeyakaiḥ.. 23..
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।त्वत्कृते सा कृता वत्स वनवासानुसारिणी॥ २४॥
या हि नः सततम् बुद्धिः वेद-मन्त्र-अनुसारिणी।त्वद्-कृते सा कृता वत्स वन-वास-अनुसारिणी॥ २४॥
yā hi naḥ satatam buddhiḥ veda-mantra-anusāriṇī.tvad-kṛte sā kṛtā vatsa vana-vāsa-anusāriṇī.. 24..
हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्।वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः॥ २५॥
हृदयेषु अवतिष्ठन्ते वेदाः ये नः परम् धनम्।वत्स्यन्ति अपि गृहेषु एव दाराः चारित्र-रक्षिताः॥ २५॥
hṛdayeṣu avatiṣṭhante vedāḥ ye naḥ param dhanam.vatsyanti api gṛheṣu eva dārāḥ cāritra-rakṣitāḥ.. 25..
पुनर्न निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः।त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मपथे स्थितम्॥ २६॥
पुनर् न निश्चयः कार्यः त्वद्-गतौ सु कृता मतिः।त्वयि धर्म-व्यपेक्षे तु किम् स्यात् धर्म-पथे स्थितम्॥ २६॥
punar na niścayaḥ kāryaḥ tvad-gatau su kṛtā matiḥ.tvayi dharma-vyapekṣe tu kim syāt dharma-pathe sthitam.. 26..
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।शिरोभिर्निभृताचार महीपतनपांसुलैः॥ २७॥
याचितः नः निवर्तस्व हंस-शुक्ल-शिरोरुहैः।शिरोभिः निभृत-आचार महीपतन-पांसुलैः॥ २७॥
yācitaḥ naḥ nivartasva haṃsa-śukla-śiroruhaiḥ.śirobhiḥ nibhṛta-ācāra mahīpatana-pāṃsulaiḥ.. 27..
बहूनां वितता यज्ञा द्विजानां य इहागताः।तेषां समाप्तिरायत्ता तव वत्स निवर्तने॥ २८॥
बहूनाम् वितताः यज्ञाः द्विजानाम् ये इह आगताः।तेषाम् समाप्तिः आयत्ता तव वत्स निवर्तने॥ २८॥
bahūnām vitatāḥ yajñāḥ dvijānām ye iha āgatāḥ.teṣām samāptiḥ āyattā tava vatsa nivartane.. 28..
भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च।याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय॥ २९॥
भक्तिमन्ति इह भूतानि जङ्गम-अजङ्गमानि च।याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय॥ २९॥
bhaktimanti iha bhūtāni jaṅgama-ajaṅgamāni ca.yācamāneṣu teṣu tvam bhaktim bhakteṣu darśaya.. 29..
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः।उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥ ३०॥
अनुगन्तुम् अशक्ताः त्वाम् मूलैः उद्धत-वेगिनः।उन्नताः वायु-वेगेन विक्रोशन्ति इव पादपाः॥ ३०॥
anugantum aśaktāḥ tvām mūlaiḥ uddhata-veginaḥ.unnatāḥ vāyu-vegena vikrośanti iva pādapāḥ.. 30..
निश्चेष्टाहारसंचारा वृक्षैकस्थाननिश्चिताः।पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्॥ ३१॥
निश्चेष्ट-आहार-संचाराः वृक्ष-एक-स्थान-निश्चिताः।पक्षिणः अपि प्रयाचन्ते सर्व-भूत-अनुकम्पिनम्॥ ३१॥
niśceṣṭa-āhāra-saṃcārāḥ vṛkṣa-eka-sthāna-niścitāḥ.pakṣiṇaḥ api prayācante sarva-bhūta-anukampinam.. 31..
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।ददृशे तमसा तत्र वारयन्तीव राघवम्॥ ३२॥
एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने।ददृशे तमसा तत्र वारयन्ति इव राघवम्॥ ३२॥
evam vikrośatām teṣām dvijātīnām nivartane.dadṛśe tamasā tatra vārayanti iva rāghavam.. 32..
ततः सुमन्त्रोऽपि रथाद् विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्।पीतोदकांस्तोयपरिप्लुताङ्गा- नचारयद् वै तमसाविदूरे॥ ३३॥
ततस् सुमन्त्रः अपि रथात् विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्।पीत-उदकान् तोय-परिप्लुत-अङ्गा न अचारयत् वै तमसा अविदूरे॥ ३३॥
tatas sumantraḥ api rathāt vimucya śrāntān hayān samparivartya śīghram.pīta-udakān toya-paripluta-aṅgā na acārayat vai tamasā avidūre.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे पञ्चचत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe pañcacatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In