This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षड्चत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaḍcatvāriṃśaḥ sargaḥ ..2..
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्॥ १॥
ततस् तु तमसा-तीरम् रम्यम् आश्रित्य राघवः।सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत्॥ १॥
tatas tu tamasā-tīram ramyam āśritya rāghavaḥ.sītām udvīkṣya saumitrim idam vacanam abravīt.. 1..
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि॥ २॥
इयम् अद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।वन-वासस्य भद्रम् ते न च उत्कण्ठितुम् अर्हसि॥ २॥
iyam adya niśā pūrvā saumitre prahitā vanam.vana-vāsasya bhadram te na ca utkaṇṭhitum arhasi.. 2..
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।यथानिलयमायद्भिर्निलीनानि मृगद्विजैः॥ ३॥
पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः।यथा निलयम् आयद्भिः निलीनानि मृग-द्विजैः॥ ३॥
paśya śūnyāni araṇyāni rudanti iva samantataḥ.yathā nilayam āyadbhiḥ nilīnāni mṛga-dvijaiḥ.. 3..
अद्यायोध्या तु नगरी राजधानी पितुर्मम।सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः॥ ४॥
अद्य अयोध्या तु नगरी राजधानी पितुः मम।स स्त्री-पुंसाः गतान् अस्मान् शोचिष्यति न संशयः॥ ४॥
adya ayodhyā tu nagarī rājadhānī pituḥ mama.sa strī-puṃsāḥ gatān asmān śociṣyati na saṃśayaḥ.. 4..
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः।त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा॥ ५॥
अनुरक्ताः हि मनुजाः राजानम् बहुभिः गुणैः।त्वाम् च माम् च नर-व्याघ्र शत्रुघ्न-भरतौ तथा॥ ५॥
anuraktāḥ hi manujāḥ rājānam bahubhiḥ guṇaiḥ.tvām ca mām ca nara-vyāghra śatrughna-bharatau tathā.. 5..
पितरं चानुशोचामि मातरं च यशस्विनीम्।अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः॥ ६॥
पितरम् च अनुशोचामि मातरम् च यशस्विनीम्।अपि ना अन्धौ भवेताम् नौ रुदन्तौ तौ अभीक्ष्णशस्॥ ६॥
pitaram ca anuśocāmi mātaram ca yaśasvinīm.api nā andhau bhavetām nau rudantau tau abhīkṣṇaśas.. 6..
भरतः खलु धर्मात्मा पितरं मातरं च मे।धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति॥ ७॥
भरतः खलु धर्म-आत्मा पितरम् मातरम् च मे।धर्म-अर्थ-काम-सहितैः वाक्यैः आश्वासयिष्यति॥ ७॥
bharataḥ khalu dharma-ātmā pitaram mātaram ca me.dharma-artha-kāma-sahitaiḥ vākyaiḥ āśvāsayiṣyati.. 7..
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः।नानुशोचामि पितरं मातरं च महाभुज॥ ८॥
भरतस्य अ नृशंस-त्वम् संचिन्त्य अहम् पुनर् पुनर्।न अनुशोचामि पितरम् मातरम् च महा-भुज॥ ८॥
bharatasya a nṛśaṃsa-tvam saṃcintya aham punar punar.na anuśocāmi pitaram mātaram ca mahā-bhuja.. 8..
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्।अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता॥ ९॥
त्वया कार्यम् नर-व्याघ्र माम् अनुव्रजता कृतम्।अन्वेष्टव्या हि वैदेह्याः रक्षण-अर्थम् सहाय-ता॥ ९॥
tvayā kāryam nara-vyāghra mām anuvrajatā kṛtam.anveṣṭavyā hi vaidehyāḥ rakṣaṇa-artham sahāya-tā.. 9..
अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्।एतद्धि रोचते मह्यं वन्येऽपि विविधे सति॥ १०॥
अद्भिः एव हि सौमित्रे वत्स्यामि अद्य निशाम् इमाम्।एतत् हि रोचते मह्यम् वन्ये अपि विविधे सति॥ १०॥
adbhiḥ eva hi saumitre vatsyāmi adya niśām imām.etat hi rocate mahyam vanye api vividhe sati.. 10..
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह॥ ११॥
एवम् उक्त्वा तु सौमित्रिम् सुमन्त्रम् अपि राघवः।अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह॥ ११॥
evam uktvā tu saumitrim sumantram api rāghavaḥ.apramattaḥ tvam aśveṣu bhava saumya iti uvāca ha.. 11..
सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥ १२॥
सः अश्वान् सुमन्त्रः संयम्य सूर्ये अस्तम् समुपागते।प्रभूत-यवसान् कृत्वा बभूव प्रत्यनन्तरः॥ १२॥
saḥ aśvān sumantraḥ saṃyamya sūrye astam samupāgate.prabhūta-yavasān kṛtvā babhūva pratyanantaraḥ.. 12..
उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्।रामस्य शयनं चक्रे सूतः सौमित्रिणा सह॥ १३॥
उपास्य तु शिवाम् संध्याम् दृष्ट्वा रात्रिम् उपागताम्।रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह॥ १३॥
upāsya tu śivām saṃdhyām dṛṣṭvā rātrim upāgatām.rāmasya śayanam cakre sūtaḥ saumitriṇā saha.. 13..
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्।रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह॥ १४॥
ताम् शय्याम् तमसा-तीरे वीक्ष्य वृक्ष-दलैः वृताम्।रामः सौमित्रिणा सार्धम् स भार्यः संविवेश ह॥ १४॥
tām śayyām tamasā-tīre vīkṣya vṛkṣa-dalaiḥ vṛtām.rāmaḥ saumitriṇā sārdham sa bhāryaḥ saṃviveśa ha.. 14..
सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः।कथयामास सूताय रामस्य विविधान् गुणान्॥ १५॥
स भार्यम् सम्प्रसुप्तम् तु श्रान्तम् सम्प्रेक्ष्य लक्ष्मणः।कथयामास सूताय रामस्य विविधान् गुणान्॥ १५॥
sa bhāryam samprasuptam tu śrāntam samprekṣya lakṣmaṇaḥ.kathayāmāsa sūtāya rāmasya vividhān guṇān.. 15..
जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः।सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥ १६॥
जाग्रतोः एव ताम् रात्रिम् सौमित्रेः उदितः रविः।सूतस्य तमसा-तीरे रामस्य ब्रुवतः गुणान्॥ १६॥
jāgratoḥ eva tām rātrim saumitreḥ uditaḥ raviḥ.sūtasya tamasā-tīre rāmasya bruvataḥ guṇān.. 16..
गोकुलाकुलतीरायास्तमसाया विदूरतः।अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह॥ १७॥
गोकुल-आकुल-तीरायाः तमसायाः विदूरतः।अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह॥ १७॥
gokula-ākula-tīrāyāḥ tamasāyāḥ vidūrataḥ.avasat tatra tām rātrim rāmaḥ prakṛtibhiḥ saha.. 17..
उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च।अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्॥ १८॥
उत्थाय च महा-तेजाः प्रकृतीः ताः निशाम्य च।अब्रवीत् भ्रातरम् रामः लक्ष्मणम् पुण्य-लक्षणम्॥ १८॥
utthāya ca mahā-tejāḥ prakṛtīḥ tāḥ niśāmya ca.abravīt bhrātaram rāmaḥ lakṣmaṇam puṇya-lakṣaṇam.. 18..
अस्मद्व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि।वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ १९॥
अस्मद्-व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेषु अपि।वृक्ष-मूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ १९॥
asmad-vyapekṣān saumitre nirvyapekṣān gṛheṣu api.vṛkṣa-mūleṣu saṃsaktān paśya lakṣmaṇa sāmpratam.. 19..
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने।अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्॥ २०॥
यथा एते नियमम् पौराः कुर्वन्ति अस्मद्-निवर्तने।अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्॥ २०॥
yathā ete niyamam paurāḥ kurvanti asmad-nivartane.api prāṇān nyasiṣyanti na tu tyakṣyanti niścayam.. 20..
यावदेव तु संसुप्तास्तावदेव वयं लघु।रथमारुह्य गच्छामः पन्थानमकुतोभयम्॥ २१॥
यावत् एव तु संसुप्ताः तावत् एव वयम् लघु।रथम् आरुह्य गच्छामः पन्थानम् अकुतोभयम्॥ २१॥
yāvat eva tu saṃsuptāḥ tāvat eva vayam laghu.ratham āruhya gacchāmaḥ panthānam akutobhayam.. 21..
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः॥ २२॥
अतस् भूयस् अपि न इदानीम् इक्ष्वाकु-पुर-वासिनः।स्वपेयुः अनुरक्ताः मा वृक्ष-मूलेषु संश्रिताः॥ २२॥
atas bhūyas api na idānīm ikṣvāku-pura-vāsinaḥ.svapeyuḥ anuraktāḥ mā vṛkṣa-mūleṣu saṃśritāḥ.. 22..
पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः।न तु खल्वात्मना योज्या दुःखेन पुरवासिनः॥ २३॥
पौराः हि आत्म-कृतात् दुःखात् विप्रमोच्याः नृप-आत्मजैः।न तु खलु आत्मना योज्याः दुःखेन पुर-वासिनः॥ २३॥
paurāḥ hi ātma-kṛtāt duḥkhāt vipramocyāḥ nṛpa-ātmajaiḥ.na tu khalu ātmanā yojyāḥ duḥkhena pura-vāsinaḥ.. 23..
अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्।रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति॥ २४॥
अब्रवीत् लक्ष्मणः रामम् साक्षात् धर्मम् इव स्थितम्।रोचते मे तथा प्राज्ञ क्षिप्रम् आरुह्यताम् इति॥ २४॥
abravīt lakṣmaṇaḥ rāmam sākṣāt dharmam iva sthitam.rocate me tathā prājña kṣipram āruhyatām iti.. 24..
अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः।गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ २५॥
अथ रामः अब्रवीत् सूतम् शीघ्रम् संयुज्यताम् रथः।गमिष्यामि ततस् अरण्यम् गच्छ शीघ्रम् इतस् प्रभो॥ २५॥
atha rāmaḥ abravīt sūtam śīghram saṃyujyatām rathaḥ.gamiṣyāmi tatas araṇyam gaccha śīghram itas prabho.. 25..
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः।योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ २६॥
सूतः ततस् संत्वरितः स्यन्दनम् तैः हय-उत्तमैः।योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ २६॥
sūtaḥ tatas saṃtvaritaḥ syandanam taiḥ haya-uttamaiḥ.yojayitvā tu rāmasya prāñjaliḥ pratyavedayat.. 26..
अयं युक्तो महाबाहो रथस्ते रथिनां वर।त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः॥ २७॥
अयम् युक्तः महा-बाहो रथः ते रथिनाम् वर।त्वरया आरोह भद्रम् ते स सीतः सह लक्ष्मणः॥ २७॥
ayam yuktaḥ mahā-bāho rathaḥ te rathinām vara.tvarayā āroha bhadram te sa sītaḥ saha lakṣmaṇaḥ.. 27..
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः।शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्॥ २८॥
तम् स्यन्दनम् अधिष्ठाय राघवः स परिच्छदः।शीघ्र-गाम् आकुल-आवर्ताम् तमसाम् अतरत् नदीम्॥ २८॥
tam syandanam adhiṣṭhāya rāghavaḥ sa paricchadaḥ.śīghra-gām ākula-āvartām tamasām atarat nadīm.. 28..
स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्।प्रापद्यत महामार्गमभयं भयदर्शिनाम्॥ २९॥
स संतीर्य महा-बाहुः श्रीमान् शिवम् अकण्टकम्।प्रापद्यत महा-मार्गम् अभयम् भय-दर्शिनाम्॥ २९॥
sa saṃtīrya mahā-bāhuḥ śrīmān śivam akaṇṭakam.prāpadyata mahā-mārgam abhayam bhaya-darśinām.. 29..
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः।उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे॥ ३०॥
मोहन-अर्थम् तु पौराणाम् सूतम् रामः अब्रवीत् वचः।उदक्-मुखः प्रयाहि त्वम् रथम् आरुह्य सारथे॥ ३०॥
mohana-artham tu paurāṇām sūtam rāmaḥ abravīt vacaḥ.udak-mukhaḥ prayāhi tvam ratham āruhya sārathe.. 30..
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।यथा न विद्युः पौरा मां तथा कुरु समाहितः॥ ३१॥
मुहूर्तम् त्वरितम् गत्वा निवर्तय रथम् पुनर्।यथा न विद्युः पौराः माम् तथा कुरु समाहितः॥ ३१॥
muhūrtam tvaritam gatvā nivartaya ratham punar.yathā na vidyuḥ paurāḥ mām tathā kuru samāhitaḥ.. 31..
रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः।प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्॥ ३२॥
रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः।प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत्॥ ३२॥
rāmasya tu vacaḥ śrutvā tathā cakre ca sārathiḥ.pratyāgamya ca rāmasya syandanam pratyavedayat.. 32..
तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ।प्रचोदयामास ततस्तुरंगमान् स सारथिर्येन पथा तपोवनम्॥ ३३॥
तौ सम्प्रयुक्तम् तु रथम् समास्थितौ तदा स सीतौ रघु-वंश-वर्धनौ।प्रचोदयामास ततस् तुरंगमान् स सारथिः येन पथा तपः-वनम्॥ ३३॥
tau samprayuktam tu ratham samāsthitau tadā sa sītau raghu-vaṃśa-vardhanau.pracodayāmāsa tatas turaṃgamān sa sārathiḥ yena pathā tapaḥ-vanam.. 33..
ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ।उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात्॥ ३४॥
ततस् समास्थाय रथम् महा-रथः स सारथिः दाशरथिः वनम् ययौ।उदक्-मुखम् तम् तु रथम् चकार प्रयाण-माङ्गल्य-निमित्त-दर्शनात्॥ ३४॥
tatas samāsthāya ratham mahā-rathaḥ sa sārathiḥ dāśarathiḥ vanam yayau.udak-mukham tam tu ratham cakāra prayāṇa-māṅgalya-nimitta-darśanāt.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे षड्चत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ṣaḍcatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In