This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तचत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptacatvāriṃśaḥ sargaḥ ..2..
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः॥ १॥
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवम् विना।शोक-उपहत-निश्चेष्टाः बभूवुः हतचेतसः॥ १॥
prabhātāyām tu śarvaryām paurāḥ te rāghavam vinā.śoka-upahata-niśceṣṭāḥ babhūvuḥ hatacetasaḥ.. 1..
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः।आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः॥ २॥
शोक-ज-अश्रु-परिद्यूनाः वीक्षमाणाः ततस् ततस्।आलोकम् अपि रामस्य न पश्यन्ति स्म दुःखिताः॥ २॥
śoka-ja-aśru-paridyūnāḥ vīkṣamāṇāḥ tatas tatas.ālokam api rāmasya na paśyanti sma duḥkhitāḥ.. 2..
ते विषादार्तवदना रहितास्तेन धीमता।कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः॥ ३॥
ते विषाद-आर्त-वदनाः रहिताः तेन धीमता।कृपणाः करुणाः वाचः वदन्ति स्म मनीषिणः॥ ३॥
te viṣāda-ārta-vadanāḥ rahitāḥ tena dhīmatā.kṛpaṇāḥ karuṇāḥ vācaḥ vadanti sma manīṣiṇaḥ.. 3..
धिगस्तु खलु निद्रां तां ययापहतचेतसः।नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्॥ ४॥
धिक् अस्तु खलु निद्राम् ताम् यया अपहत-चेतसः।न अद्य पश्यामहे रामम् पृथु-उरस्कम् महा-भुजम्॥ ४॥
dhik astu khalu nidrām tām yayā apahata-cetasaḥ.na adya paśyāmahe rāmam pṛthu-uraskam mahā-bhujam.. 4..
कथं रामो महाबाहुः स तथावितथक्रियः।भक्तं जनमभित्यज्य प्रवासं तापसो गतः॥ ५॥
कथम् रामः महा-बाहुः स तथा अवितथ-क्रियः।भक्तम् जनम् अभित्यज्य प्रवासम् तापसः गतः॥ ५॥
katham rāmaḥ mahā-bāhuḥ sa tathā avitatha-kriyaḥ.bhaktam janam abhityajya pravāsam tāpasaḥ gataḥ.. 5..
यो नः सदा पालयति पिता पुत्रानिवौरसान्।कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः॥ ६॥
यः नः सदा पालयति पिता पुत्रान् इव औरसान्।कथम् रघूणाम् स श्रेष्ठः त्यक्त्वा नः विपिनम् गतः॥ ६॥
yaḥ naḥ sadā pālayati pitā putrān iva aurasān.katham raghūṇām sa śreṣṭhaḥ tyaktvā naḥ vipinam gataḥ.. 6..
इहैव निधनं याम महाप्रस्थानमेव वा।रामेण रहितानां नो किमर्थं जीवितं हितम्॥ ७॥
इह एव निधनम् याम महाप्रस्थानम् एव वा।रामेण रहितानाम् नो किमर्थम् जीवितम् हितम्॥ ७॥
iha eva nidhanam yāma mahāprasthānam eva vā.rāmeṇa rahitānām no kimartham jīvitam hitam.. 7..
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च।तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम्॥ ८॥
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च।तैः प्रज्वाल्य चिताम् सर्वे प्रविशामः अथवा वयम्॥ ८॥
santi śuṣkāṇi kāṣṭhāni prabhūtāni mahānti ca.taiḥ prajvālya citām sarve praviśāmaḥ athavā vayam.. 8..
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः।नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्॥ ९॥
किम् वक्ष्यामः महा-बाहुः अनसूयः प्रियंवदः।नीतः स राघवः अस्माभिः इति वक्तुम् कथम् क्षमम्॥ ९॥
kim vakṣyāmaḥ mahā-bāhuḥ anasūyaḥ priyaṃvadaḥ.nītaḥ sa rāghavaḥ asmābhiḥ iti vaktum katham kṣamam.. 9..
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना।भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका॥ १०॥
सा नूनम् नगरी दीना दृष्ट्वा अस्मान् राघवम् विना।भविष्यति निरानन्दा स स्त्री-बाल-वयः-अधिका॥ १०॥
sā nūnam nagarī dīnā dṛṣṭvā asmān rāghavam vinā.bhaviṣyati nirānandā sa strī-bāla-vayaḥ-adhikā.. 10..
निर्यातास्तेन वीरेण सह नित्यं महात्मना।विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम्॥ ११॥
निर्याताः तेन वीरेण सह नित्यम् महात्मना।विहीनाः तेन च पुनर् कथम् द्रक्ष्याम ताम् पुरीम्॥ ११॥
niryātāḥ tena vīreṇa saha nityam mahātmanā.vihīnāḥ tena ca punar katham drakṣyāma tām purīm.. 11..
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः।विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः॥ १२॥
इति इव बहुधा वाचः बाहुम् उद्यम्य ते जनाः।विलपन्ति स्म दुःख-आर्ताः हृत-वत्साः इव अग्र्य-गाः॥ १२॥
iti iva bahudhā vācaḥ bāhum udyamya te janāḥ.vilapanti sma duḥkha-ārtāḥ hṛta-vatsāḥ iva agrya-gāḥ.. 12..
ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्।मार्गनाशाद् विषादेन महता समभिप्लुताः॥ १३॥
ततस् मार्ग-अनुसारेण गत्वा किंचिद् ततस् क्षणम्।मार्ग-नाशात् विषादेन महता समभिप्लुताः॥ १३॥
tatas mārga-anusāreṇa gatvā kiṃcid tatas kṣaṇam.mārga-nāśāt viṣādena mahatā samabhiplutāḥ.. 13..
रथमार्गानुसारेण न्यवर्तन्त मनस्विनः।किमिदं किं करिष्यामो दैवेनोपहता इति॥ १४॥
रथ-मार्ग-अनुसारेण न्यवर्तन्त मनस्विनः।किम् इदम् किम् करिष्यामः दैवेन उपहताः इति॥ १४॥
ratha-mārga-anusāreṇa nyavartanta manasvinaḥ.kim idam kim kariṣyāmaḥ daivena upahatāḥ iti.. 14..
तदा यथागतेनैव मार्गेण क्लान्तचेतसः।अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्॥ १५॥
तदा यथागतेन एव मार्गेण क्लान्त-चेतसः।अयोध्याम् अगमन् सर्वे पुरीम् व्यथित-सत्-जनाम्॥ १५॥
tadā yathāgatena eva mārgeṇa klānta-cetasaḥ.ayodhyām agaman sarve purīm vyathita-sat-janām.. 15..
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः॥ १६॥
आलोक्य नगरीम् ताम् च क्षय-व्याकुल-मानसाः।आवर्तयन्त ते अश्रूणि नयनैः शोक-पीडितैः॥ १६॥
ālokya nagarīm tām ca kṣaya-vyākula-mānasāḥ.āvartayanta te aśrūṇi nayanaiḥ śoka-pīḍitaiḥ.. 16..
एषा रामेण नगरी रहिता नातिशोभते।आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा॥ १७॥
एषा रामेण नगरी रहिता न अतिशोभते।आपगा गरुडेन इव ह्रदात् उद्धृत-पन्नगा॥ १७॥
eṣā rāmeṇa nagarī rahitā na atiśobhate.āpagā garuḍena iva hradāt uddhṛta-pannagā.. 17..
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।अपश्यन् निहतानन्दं नगरं ते विचेतसः॥ १८॥
चन्द्र-हीनम् इव आकाशम् तोय-हीनम् इव अर्णवम्।अपश्यत् निहत-आनन्दम् नगरम् ते विचेतसः॥ १८॥
candra-hīnam iva ākāśam toya-hīnam iva arṇavam.apaśyat nihata-ānandam nagaram te vicetasaḥ.. 18..
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः।नैव प्रजग्मुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः॥ १९॥
ते तानि वेश्मानि महाधनानि दुःखेन दुःख-उपहताः विशन्तः।न एव प्रजग्मुः स्व-जनम् परम् वा निरीक्ष्यमाणाः प्रविनष्ट-हर्षाः॥ १९॥
te tāni veśmāni mahādhanāni duḥkhena duḥkha-upahatāḥ viśantaḥ.na eva prajagmuḥ sva-janam param vā nirīkṣyamāṇāḥ pravinaṣṭa-harṣāḥ.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-४७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे सप्तचत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe saptacatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In