This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टचत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..2..
तेषामेवम् विष्ण्णानाम्पीडितानामतीव च । बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
तेषाम् एवम् विष्ण्णानाम् पीडितानाम् अतीव च । बाष्प-विप्लुत-नेत्राणाम् स शोकानाम् मुमूर्षया ॥२॥
teṣām evam viṣṇṇānām pīḍitānām atīva ca . bāṣpa-vipluta-netrāṇām sa śokānām mumūrṣayā ..2..
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् । उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥
अनुगम्य निवृत्तानाम् रामम् नगर-वासिनाम् । उद्गतानि इव सत्त्वानि बभूवुः अमनस्विनाम् ॥२॥
anugamya nivṛttānām rāmam nagara-vāsinām . udgatāni iva sattvāni babhūvuḥ amanasvinām ..2..
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥
स्वम् स्वम् निलयम् आगम्य पुत्र-दारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित-आननाः ॥२॥
svam svam nilayam āgamya putra-dāraiḥ samāvṛtāḥ . aśrūṇi mumucuḥ sarve bāṣpeṇa pihita-ānanāḥ ..2..
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् । न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥
न च आहृष्यन् न च अमोदन् वणिजः न प्रसारयन् । न च अशोभन्त पण्यानि न अपचन् गृह-मेधिनः ॥२॥
na ca āhṛṣyan na ca amodan vaṇijaḥ na prasārayan . na ca aśobhanta paṇyāni na apacan gṛha-medhinaḥ ..2..
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् । पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन-आगमम् । पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२॥
naṣṭam dṛṣṭvā na abhyanandan vipulam vā dhana-āgamam . putram prathamajam labdhvā jananī na abhyanandata ..2..
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् । व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् । व्यगर्हयन्तः दुह्ख-आर्ता वाग्भिः तोत्रैः इव द्विपान् ॥२॥
gṛhe gṛhe rudantyaḥ ca bhartāram gṛham āgatam . vyagarhayantaḥ duhkha-ārtā vāgbhiḥ totraiḥ iva dvipān ..2..
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा । पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा । पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२॥
kim nu teṣām gṛhaiḥ kāryam kim dāraiḥ kim dhanena vā . putraiḥ vā kim sukhaiḥ vā api ye na paśyanti rāghavam ..2..
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया । यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥
एकः सत् पुरुषः लोके लक्ष्मणः सह सीतया । यः अनुगच्छति काकुत्स्थम् रामम् परिचरन् वने ॥२॥
ekaḥ sat puruṣaḥ loke lakṣmaṇaḥ saha sītayā . yaḥ anugacchati kākutstham rāmam paricaran vane ..2..
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च । येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥
आपगाः कृत-पुण्याः ताः पद्मिन्यः च सराम्सि च । येषु स्नास्यति काकुत्स्थः विगाह्य सलिलम् शुचि ॥२॥
āpagāḥ kṛta-puṇyāḥ tāḥ padminyaḥ ca sarāmsi ca . yeṣu snāsyati kākutsthaḥ vigāhya salilam śuci ..2..
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः । आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥
शोभयिष्यन्ति काकुत्स्थम् अटव्यः रम्य काननाः । आपगाः च महा-अनूपाः सानुमन्तः च पर्वताः ॥२॥
śobhayiṣyanti kākutstham aṭavyaḥ ramya kānanāḥ . āpagāḥ ca mahā-anūpāḥ sānumantaḥ ca parvatāḥ ..2..
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति । प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति । प्रिय-अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२॥
kānanam vā api śailam vā yam rāmaḥ abhigamiṣyati . priya-atithim iva prāptam na enam śakṣyanti anarcitum ..2..
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः । अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥
विचित्र-कुसुम-आपीडा बहु-मन्जलि-धारिणः । अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२॥
vicitra-kusuma-āpīḍā bahu-manjali-dhāriṇaḥ . akāle ca api mukhyāni puṣpāṇi ca phalāni ca ..2..
अकाले चापि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्ति अनुक्रोशात् गिरयः रामम् आगतम् ॥२॥
akāle ca api mukhyāni puṣpāṇi ca phalāni ca . darśayiṣyanti anukrośāt girayaḥ rāmam āgatam ..2..
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तः विविधान् भूयस् चित्रामः च निर्झरान् ॥२॥
prasraviṣyanti toyāni vimalāni mahīdharāḥ . vidarśayantaḥ vividhān bhūyas citrāmaḥ ca nirjharān ..2..
पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् । यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥
पादपाः पर्वत-अग्रेषु रमयिष्यन्ति राघवम् । यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२॥
pādapāḥ parvata-agreṣu ramayiṣyanti rāghavam . yatra rāmaḥ bhayam na atra na asti tatra parābhavaḥ ..2..
स हि शूरः महा बाहुः पुत्रः दशरथस्य च । पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥
स हि शूरः महा-बाहुः पुत्रः दशरथस्य च । पुरा भवति नः दूरात् अनुगच्चाम राघवम् ॥२॥
sa hi śūraḥ mahā-bāhuḥ putraḥ daśarathasya ca . purā bhavati naḥ dūrāt anugaccāma rāghavam ..2..
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः । स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥
चाया सुखा भर्तुः तादृशस्य महात्मनः । स हि नाथः जनस्य अस्य स गतिः स परायणम् ॥२॥
cāyā sukhā bhartuḥ tādṛśasya mahātmanaḥ . sa hi nāthaḥ janasya asya sa gatiḥ sa parāyaṇam ..2..
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् । इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् । इति पौर-स्त्रियः भर्तृऋन् दुह्ख-आर्ताः तत् तत् अब्रुवन् ॥२॥
vayam paricariṣyāmaḥ sītām yūyam tu rāghavam . iti paura-striyaḥ bhartṛṛn duhkha-ārtāḥ tat tat abruvan ..2..
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति । सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥
युष्माकम् राघवो अरण्ये योग-क्षेमम् विधास्यति । सीता नारी जनस्य अस्य योग-क्षेमम् करिष्यति ॥२॥
yuṣmākam rāghavo araṇye yoga-kṣemam vidhāsyati . sītā nārī janasya asya yoga-kṣemam kariṣyati ..2..
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च । सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥
कः नु अनेन अप्रतीतेन सः उत्कण्ठित जनेन च । सम्प्रीयेत अमनोज्ञेन वासेन हृत-चेतसा ॥२॥
kaḥ nu anena apratītena saḥ utkaṇṭhita janena ca . samprīyeta amanojñena vāsena hṛta-cetasā ..2..
कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् । न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥
कैकेय्याः यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् । न हि नो जीवितेन अर्थः कुतस् पुत्रैः कुतस् धनैः ॥२॥
kaikeyyāḥ yadi ced rājyam syāt adharmyam anāthavat . na hi no jīvitena arthaḥ kutas putraiḥ kutas dhanaiḥ ..2..
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् । कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥
यया पुत्रः च भर्ता च त्यक्तौ ऐश्वर्य-कारणात् । कम् सा परिहरेद् अन्यम् कैकेयी कुल-पाम्सनी ॥२॥
yayā putraḥ ca bhartā ca tyaktau aiśvarya-kāraṇāt . kam sā parihared anyam kaikeyī kula-pāmsanī ..2..
कैकेय्या न वयम् राज्ये भृतका निवसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥
कैकेय्याः न वयम् राज्ये भृतकाः निवसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२॥
kaikeyyāḥ na vayam rājye bhṛtakāḥ nivasemahi . jīvantyā jātu jīvantyaḥ putraiḥ api śapāmahe ..2..
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा । कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा । कः ताम् प्राप्य सुखम् जीवेत् अधर्म्याम् दुष्ट-चारिणीम् ॥२॥
yā putram pārthiva indrasya pravāsayati nirghṛṇā . kaḥ tām prāpya sukham jīvet adharmyām duṣṭa-cāriṇīm ..2..
उपद्रुतमिदम् सर्वमनालम्बमनायकम् । कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥
उपद्रुतम् इदम् सर्वम् अनालम्बम् अनायकम् । कैकेय्याः हि कृते सर्वम् विनाशम् उपयास्यति ॥२॥
upadrutam idam sarvam anālambam anāyakam . kaikeyyāḥ hi kṛte sarvam vināśam upayāsyati ..2..
न हि प्रव्रजिते रामे जीविष्यति मही पतिः । मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥
न हि प्रव्रजिते रामे जीविष्यति मही-पतिः । मृते दशरथे व्यक्तम् विलोपः तद्-अनन्तरम् ॥२॥
na hi pravrajite rāme jīviṣyati mahī-patiḥ . mṛte daśarathe vyaktam vilopaḥ tad-anantaram ..2..
ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः । राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥
ते विषम् पिबतः आलोड्य क्षीण-पुण्याः सुदुर्गताः । राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२॥
te viṣam pibataḥ āloḍya kṣīṇa-puṇyāḥ sudurgatāḥ . rāghavam vā anugaccadhvam aśrutim vā api gaccata ..2..
मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः । भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥
मिथ्या प्रव्राजितः रामः स भार्यः सह लक्ष्मणः । भरते सम्निषृष्टाः स्मः सौनिके पशवः यथा ॥२॥
mithyā pravrājitaḥ rāmaḥ sa bhāryaḥ saha lakṣmaṇaḥ . bharate samniṣṛṣṭāḥ smaḥ saunike paśavaḥ yathā ..2..
पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः । आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
पूर्ण-चन्द्र-आननः श्यामः गूढ-जत्रुः अरिंदमः । ॥२॥
pūrṇa-candra-ānanaḥ śyāmaḥ gūḍha-jatruḥ ariṃdamaḥ . ..2..
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः । सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
पूर्व-अभिभाषी मधुरः सत्य-वादी महा-बलः । सौम्यः सर्वस्य लोकस्य चन्द्र-वत् प्रिय-दर्शनः ॥२॥
pūrva-abhibhāṣī madhuraḥ satya-vādī mahā-balaḥ . saumyaḥ sarvasya lokasya candra-vat priya-darśanaḥ ..2..
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः । शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥
नूनम् पुरुष-शार्दूलः मत्त-मातङ्ग-विक्रमः । शोभ-युश्यति-अरण्यानि विचरन् स महा-रथः ॥२॥
nūnam puruṣa-śārdūlaḥ matta-mātaṅga-vikramaḥ . śobha-yuśyati-araṇyāni vicaran sa mahā-rathaḥ ..2..
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः । चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥
ताः तथा विलपन्त्यः तु नगरे नागर-स्त्रियः । चुक्रुशुः दुःख-सम्तप्त-अमृत्योः इव भय-आगमे ॥२॥
tāḥ tathā vilapantyaḥ tu nagare nāgara-striyaḥ . cukruśuḥ duḥkha-samtapta-amṛtyoḥ iva bhaya-āgame ..2..
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् । जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् । जगाम अस्तम् दिनकरः रजनी च अभ्यवर्तत ॥२॥
ityeva vilapantīnām strīṇām veśmasu rāghavam . jagāma astam dinakaraḥ rajanī ca abhyavartata ..2..
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा । तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥
नष्ट-ज्वलन-सम्पाता प्रशान्त-अध्याय-सत्-कथा । तिमिरेण अभिलिप्ता इव तदा सा नगरी बभौ ॥२॥
naṣṭa-jvalana-sampātā praśānta-adhyāya-sat-kathā . timireṇa abhiliptā iva tadā sā nagarī babhau ..2..
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया । अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥
उपशान्त-वणिक्पण्या नष्ट-हर्षा निराश्रया । अयोध्या नगरी च आसीत् नष्ट-तारम् इव अम्बरम् ॥२॥
upaśānta-vaṇikpaṇyā naṣṭa-harṣā nirāśrayā . ayodhyā nagarī ca āsīt naṣṭa-tāram iva ambaram ..2..
तथा स्त्रियो राम निमित्तम् आतुरा । यथा सुते भ्रातरि वा विवासिते । विलप्य दीना रुरुदुर् विचेतसः । सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥
तथा स्त्रियः राम निमित्तम् आतुरा । यथा सुते भ्रातरि वा विवासिते । विलप्य दीनाः रुरुदुः विचेतसः । सुतैः हि तासाम् अधिकः हि सः अभवत् ॥२॥
tathā striyaḥ rāma nimittam āturā . yathā sute bhrātari vā vivāsite . vilapya dīnāḥ ruruduḥ vicetasaḥ . sutaiḥ hi tāsām adhikaḥ hi saḥ abhavat ..2..
प्रशान्तगीतोत्सव नृत्तवादना । व्यपास्तहर्षा पिहितापणोदया । तदा ह्ययोध्या नगरी बभूव सा । महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥
प्रशान्त-गीत-उत्सव नृत्त-वादना । व्यपास्त-हर्षा पिहित-आपण-उदया । तदा हि अयोध्या नगरी बभूव सा । महा-अर्णवः सम्क्षपित-उदकः यथा ॥२॥
praśānta-gīta-utsava nṛtta-vādanā . vyapāsta-harṣā pihita-āpaṇa-udayā . tadā hi ayodhyā nagarī babhūva sā . mahā-arṇavaḥ samkṣapita-udakaḥ yathā ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In