This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवचत्वारिंशः सर्गः ॥२-४९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे नवचत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe navacatvāriṃśaḥ sargaḥ ..2..
रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् । जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥
रामः अपि रात्रि-शेषेण तेन एव महत् अन्तरम् । जगाम पुरुष व्याघ्रः पितुः आज्ञाम् अनुस्मरन् ॥२॥
rāmaḥ api rātri-śeṣeṇa tena eva mahat antaram . jagāma puruṣa vyāghraḥ pituḥ ājñām anusmaran ..2..
तथैव गच्चतः तस्य व्यपायात् रजनी शिवा । उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥
तथा एव गच्चतः तस्य व्यपायात् रजनी शिवा । उपास्य स शिवाम् सम्ध्याम् विषय-अन्तम् व्यगाहत ॥२॥
tathā eva gaccataḥ tasya vyapāyāt rajanī śivā . upāsya sa śivām samdhyām viṣaya-antam vyagāhata ..2..
ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च । पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥
ग्रामान् विकृष्ट-सीमान् तान् पुष्पितानि वनानि च । पश्यन् अतिययौ शीघ्रम् शरैः इव हय-उत्तमैः ॥२॥
grāmān vikṛṣṭa-sīmān tān puṣpitāni vanāni ca . paśyan atiyayau śīghram śaraiḥ iva haya-uttamaiḥ ..2..
शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥
शृण्वन् वाचः मनुष्याणाम् ग्राम-सम्वास-वासिनाम् । राजानम् धिक् दशरथम् कामस्य वशम् आगतम् ॥२॥
śṛṇvan vācaḥ manuṣyāṇām grāma-samvāsa-vāsinām . rājānam dhik daśaratham kāmasya vaśam āgatam ..2..
हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी । तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥
हा नृशम्स अद्य कैकेयी पापा पाप-अनुबन्धिनी । तीक्ष्णा सम्भिन्न-मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२॥
hā nṛśamsa adya kaikeyī pāpā pāpa-anubandhinī . tīkṣṇā sambhinna-maryādā tīkṣṇe karmaṇi vartate ..2..
या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् । वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥
या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् । वन-वासे महा-प्राज्ञम् स अनुक्रोशम् अतन्द्रितम् ॥२॥
yā putram īdṛśam rājñaḥ pravāsayati dhārmikam . vana-vāse mahā-prājñam sa anukrośam atandritam ..2..
कथम् नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥
कथम् नाम महाभागा सीता जनकनन्दिनी । सदा सुखेषु अभिरता दुःखानि अनुभविष्यति ॥२॥
katham nāma mahābhāgā sītā janakanandinī . sadā sukheṣu abhiratā duḥkhāni anubhaviṣyati ..2..
अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् । प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥
अहो दशरथः राजा निस्नेहः स्व-सुत प्रियम् । प्रजानाम् अनघम् रामम् परित्यक्तुम् इह इच्छति ॥२॥
aho daśarathaḥ rājā nisnehaḥ sva-suta priyam . prajānām anagham rāmam parityaktum iha icchati ..2..
एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥
एताः वाचः मनुष्याणाम् ग्राम-सम्वास-वासिनाम् । शृण्वन् अति ययौ वीरः कोसलान् कोसलः ईश्वरः ॥२॥
etāḥ vācaḥ manuṣyāṇām grāma-samvāsa-vāsinām . śṛṇvan ati yayau vīraḥ kosalān kosalaḥ īśvaraḥ ..2..
ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् । उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥
ततः वेद-श्रुतिम् नाम शिव-वारि-वहाम् नदीम् । उत्तीर्य अभिमुखः प्रायात् अगस्त्य-अध्युषिताम् दिशम् ॥२॥
tataḥ veda-śrutim nāma śiva-vāri-vahām nadīm . uttīrya abhimukhaḥ prāyāt agastya-adhyuṣitām diśam ..2..
गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् । गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥
गत्वा तु सुचिरम् कालम् ततः शीत-जलाम् नदीम् । गोमतीम् गोयुत-अनूपाम् अतरत् सागरम् गमाम् ॥२॥
gatvā tu suciram kālam tataḥ śīta-jalām nadīm . gomatīm goyuta-anūpām atarat sāgaram gamām ..2..
गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः । मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥
गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः । मयूर-हम्स-अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२॥
gomatīm ca api atikramya rāghavaḥ śīghragaiḥ hayaiḥ . mayūra-hamsa-abhirutām tatāra syandikām nadīm ..2..
स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा । स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥
स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा । स्फीताम् राष्ट्र-आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२॥
sa mahīm manunā rājñā dattām ikṣvākave purā . sphītām rāṣṭra-āvṛtām rāmaḥ vaidehīm anvadarśayat ..2..
सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः । हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥
सूतैति एति एव च आभाष्य सारथिम् तम् अभीक्ष्णशस् । हम्स-मत्त-स्वरः श्रीमान् उवाच पुरुष-ऋषभः ॥२॥
sūtaiti eti eva ca ābhāṣya sārathim tam abhīkṣṇaśas . hamsa-matta-svaraḥ śrīmān uvāca puruṣa-ṛṣabhaḥ ..2..
कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने । मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥
कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने । मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२॥
kadā aham punar āgamya sarayvāḥ puṣpite vane . mṛgayām paryāṭaṣyāmi mātrā pitrā ca samgataḥ ..2..
न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने । रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥
न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू-वने । रतिः हि एषा अतुला लोके राज-ऋषि-गण-सम्मता ॥२॥
na atyartham abhikānkṣāmi mṛgayām sarayū-vane . ratiḥ hi eṣā atulā loke rāja-ṛṣi-gaṇa-sammatā ..2..
राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने । काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥
राजर्षीणाम् हि लोके अस्मिन् रति-अर्थम् मृगया वने । काले कृताम् ताम् मनुजैः धन्विनाम् अभिकाङ्क्षिताम् ॥२॥
rājarṣīṇām hi loke asmin rati-artham mṛgayā vane . kāle kṛtām tām manujaiḥ dhanvinām abhikāṅkṣitām ..2..
स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥
स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौ वाक्यम् उदीरयन् ॥२॥
sa tam adhvānam aikṣvākaḥ sūtam madhurayā girātam tam artham abhipretya yayau vākyam udīrayan ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥२-४९॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekonapañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In