This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcamaḥ sargaḥ ..2..
संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्॥ १॥
संदिश्य रामम् नृपतिः श्वस् भाविनि अभिषेचने।पुरोहितम् समाहूय वसिष्ठम् इदम् अब्रवीत्॥ १॥
saṃdiśya rāmam nṛpatiḥ śvas bhāvini abhiṣecane.purohitam samāhūya vasiṣṭham idam abravīt.. 1..
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन।श्रेयसे राज्यलाभाय वध्वा सह यतव्रत॥ २॥
गच्छ उपवासम् काकुत्स्थम् कारय अद्य तपोधन।श्रेयसे राज्य-लाभाय वध्वा सह यत-व्रत॥ २॥
gaccha upavāsam kākutstham kāraya adya tapodhana.śreyase rājya-lābhāya vadhvā saha yata-vrata.. 2..
तथेति च स राजानमुक्त्वा वेदविदां वरः।स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्॥ ३॥
तथा इति च स राजानम् उक्त्वा वेद-विदाम् वरः।स्वयम् वसिष्ठः भगवान् ययौ राम-निवेशनम्॥ ३॥
tathā iti ca sa rājānam uktvā veda-vidām varaḥ.svayam vasiṣṭhaḥ bhagavān yayau rāma-niveśanam.. 3..
उपवासयितुं वीरं मन्त्रविन्मन्त्रकोविदम्।ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः॥ ४॥
उपवासयितुम् वीरम् मन्त्र-विद् मन्त्र-कोविदम्।ब्राह्मम् रथ-वरम् युक्तम् आस्थाय सु धृत-व्रतः॥ ४॥
upavāsayitum vīram mantra-vid mantra-kovidam.brāhmam ratha-varam yuktam āsthāya su dhṛta-vrataḥ.. 4..
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्।तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः॥ ५॥
स राम-भवनम् प्राप्य पाण्डुर-अभ्र-घन-प्रभम्।तिस्रः कक्ष्याः रथेन एव विवेश मुनि-सत्तमः॥ ५॥
sa rāma-bhavanam prāpya pāṇḍura-abhra-ghana-prabham.tisraḥ kakṣyāḥ rathena eva viveśa muni-sattamaḥ.. 5..
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमम्।मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात्॥ ६॥
तम् आगतम् ऋषिम् रामः त्वरन् इव स सम्भ्रमम्।मानयिष्यन् स मान-अर्हम् निश्चक्राम निवेशनात्॥ ६॥
tam āgatam ṛṣim rāmaḥ tvaran iva sa sambhramam.mānayiṣyan sa māna-arham niścakrāma niveśanāt.. 6..
अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः।ततोऽवतारयामास परिगृह्य रथात् स्वयम्॥ ७॥
अभ्येत्य त्वरमाणः अथ रथ-अभ्याशम् मनीषिणः।ततस् अवतारयामास परिगृह्य रथात् स्वयम्॥ ७॥
abhyetya tvaramāṇaḥ atha ratha-abhyāśam manīṣiṇaḥ.tatas avatārayāmāsa parigṛhya rathāt svayam.. 7..
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च।प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः॥ ८॥
स च एनम् प्रश्रितम् दृष्ट्वा सम्भाष्य अभिप्रसाद्य च।प्रिय-अर्हम् हर्षयन् रामम् इति उवाच पुरोहितः॥ ८॥
sa ca enam praśritam dṛṣṭvā sambhāṣya abhiprasādya ca.priya-arham harṣayan rāmam iti uvāca purohitaḥ.. 8..
प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि।उपवासं भवानद्य करोतु सह सीतया॥ ९॥
प्रसन्नः ते पिता राम यत् त्वम् राज्यम् अवाप्स्यसि।उपवासम् भवान् अद्य करोतु सह सीतया॥ ९॥
prasannaḥ te pitā rāma yat tvam rājyam avāpsyasi.upavāsam bhavān adya karotu saha sītayā.. 9..
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।पिता दशरथः प्रीत्या ययातिं नहुषो यथा॥ १०॥
प्रातर् त्वाम् अभिषेक्ता हि यौवराज्ये नराधिपः।पिता दशरथः प्रीत्या ययातिम् नहुषः यथा॥ १०॥
prātar tvām abhiṣektā hi yauvarājye narādhipaḥ.pitā daśarathaḥ prītyā yayātim nahuṣaḥ yathā.. 10..
इत्युक्त्वा स तदा राममुपवासं यतव्रतः।मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः॥ ११॥
इति उक्त्वा स तदा रामम् उपवासम् यत-व्रतः।मन्त्रवत् कारयामास वैदेह्या सहितम् शुचिः॥ ११॥
iti uktvā sa tadā rāmam upavāsam yata-vrataḥ.mantravat kārayāmāsa vaidehyā sahitam śuciḥ.. 11..
ततो यथावद् रामेण स राज्ञो गुरुरर्चितः।अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्॥ १२॥
ततस् यथावत् रामेण स राज्ञः गुरुः अर्चितः।अभ्यनुज्ञाप्य काकुत्स्थम् ययौ राम-निवेशनात्॥ १२॥
tatas yathāvat rāmeṇa sa rājñaḥ guruḥ arcitaḥ.abhyanujñāpya kākutstham yayau rāma-niveśanāt.. 12..
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥ १३॥
सुहृद्भिः तत्र रामः अपि सह आसीनः प्रियंवदैः।सभाजितः विवेश अथ तान् अनुज्ञाप्य सर्वशस्॥ १३॥
suhṛdbhiḥ tatra rāmaḥ api saha āsīnaḥ priyaṃvadaiḥ.sabhājitaḥ viveśa atha tān anujñāpya sarvaśas.. 13..
हृष्टनारीनरयुतं रामवेश्म तदा बभौ।यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः॥ १४॥
हृष्ट-नारी-नर-युतम् राम-वेश्म तदा बभौ।यथा मत्त-द्विज-गणम् प्रफुल्ल-नलिनम् सरः॥ १४॥
hṛṣṭa-nārī-nara-yutam rāma-veśma tadā babhau.yathā matta-dvija-gaṇam praphulla-nalinam saraḥ.. 14..
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्॥ १५॥
स राज-भवन-प्रख्यात् तस्मात् राम-निवेशनात्।निर्गत्य ददृशे मार्गम् वसिष्ठः जन-संवृतम्॥ १५॥
sa rāja-bhavana-prakhyāt tasmāt rāma-niveśanāt.nirgatya dadṛśe mārgam vasiṣṭhaḥ jana-saṃvṛtam.. 15..
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः।बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः॥ १६॥
वृन्द-वृन्दैः अयोध्यायाम् राजमार्गाः समन्ततः।बभूवुः अभिसम्बाधाः कुतूहल-जनैः वृताः॥ १६॥
vṛnda-vṛndaiḥ ayodhyāyām rājamārgāḥ samantataḥ.babhūvuḥ abhisambādhāḥ kutūhala-janaiḥ vṛtāḥ.. 16..
जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा।बभूव राजमार्गस्य सागरस्येव निःस्वनः॥ १७॥
जन-वृन्द-ऊर्मि-संघर्ष-हर्ष-स्वन-वृतः तदा।बभूव राजमार्गस्य सागरस्य इव निःस्वनः॥ १७॥
jana-vṛnda-ūrmi-saṃgharṣa-harṣa-svana-vṛtaḥ tadā.babhūva rājamārgasya sāgarasya iva niḥsvanaḥ.. 17..
सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी।आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा॥ १८॥
सिक्त-सम्मृष्ट-रथ्या हि तथा च वनमालिनी।आसीत् अयोध्या तत् अहर् समुच्छ्रित-गृह-ध्वजा॥ १८॥
sikta-sammṛṣṭa-rathyā hi tathā ca vanamālinī.āsīt ayodhyā tat ahar samucchrita-gṛha-dhvajā.. 18..
तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः।रामाभिषेकमाकांक्षन्नाकांक्षन्नुदयं रवेः॥ १९॥
तदा हि अयोध्या-निलयः स स्त्री-बाल-आकुलः जनः।राम-अभिषेकम् आकांक्षन् आकांक्षन् उदयम् रवेः॥ १९॥
tadā hi ayodhyā-nilayaḥ sa strī-bāla-ākulaḥ janaḥ.rāma-abhiṣekam ākāṃkṣan ākāṃkṣan udayam raveḥ.. 19..
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्॥ २०॥
प्रजा-अलंकार-भूतम् च जनस्य आनन्द-वर्धनम्।उत्सुकः अभूत् जनः द्रष्टुम् तम् अयोध्या-महा-उत्सवम्॥ २०॥
prajā-alaṃkāra-bhūtam ca janasya ānanda-vardhanam.utsukaḥ abhūt janaḥ draṣṭum tam ayodhyā-mahā-utsavam.. 20..
एवं तज्जनसम्बाधं राजमार्गं पुरोहितः।व्यूहन्निव जनौघं तं शनै राजकुलं ययौ॥ २१॥
एवम् तद्-जन-सम्बाधम् राजमार्गम् पुरोहितः।व्यूहन् इव जन-ओघम् तम् शनैस् राज-कुलम् ययौ॥ २१॥
evam tad-jana-sambādham rājamārgam purohitaḥ.vyūhan iva jana-ogham tam śanais rāja-kulam yayau.. 21..
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च।समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥ २२॥
सित-अभ्र-शिखर-प्रख्यम् प्रासादम् अधिरुह्य च।समीयाय नरेन्द्रेण शक्रेण इव बृहस्पतिः॥ २२॥
sita-abhra-śikhara-prakhyam prāsādam adhiruhya ca.samīyāya narendreṇa śakreṇa iva bṛhaspatiḥ.. 22..
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः।पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत्॥ २३॥
तम् आगतम् अभिप्रेक्ष्य हित्वा राज-आसनम् नृपः।पप्रच्छ स्व-मतम् तस्मै कृतम् इति अभिवेदयत्॥ २३॥
tam āgatam abhiprekṣya hitvā rāja-āsanam nṛpaḥ.papraccha sva-matam tasmai kṛtam iti abhivedayat.. 23..
तेन चैव तदा तुल्यं सहासीनाः सभासदः।आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्॥ २४॥
तेन च एव तदा तुल्यम् सह आसीनाः सभासदः।आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्॥ २४॥
tena ca eva tadā tulyam saha āsīnāḥ sabhāsadaḥ.āsanebhyaḥ samuttasthuḥ pūjayantaḥ purohitam.. 24..
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव॥ २५॥
गुरुणा तु अभ्यनुज्ञातः मनुज-ओघम् विसृज्य तम्।विवेश अन्तःपुरम् राजा सिंहः गिरि-गुहाम् इव॥ २५॥
guruṇā tu abhyanujñātaḥ manuja-ogham visṛjya tam.viveśa antaḥpuram rājā siṃhaḥ giri-guhām iva.. 25..
तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्।व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः॥ २६॥
तद्-अग्र्य-वेष-प्रमदा-जन-आकुलम् महा-इन्द्र-वेश्म-प्रतिमम् निवेशनम्।व्यदीपयन् चारु विवेश पार्थिवः शशी इव तारा-गण-संकुलम् नभः॥ २६॥
tad-agrya-veṣa-pramadā-jana-ākulam mahā-indra-veśma-pratimam niveśanam.vyadīpayan cāru viveśa pārthivaḥ śaśī iva tārā-gaṇa-saṃkulam nabhaḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चमः सर्गः ॥२-५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे पञ्चमः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe pañcamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In