This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcāśaḥ sargaḥ ..2..
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥
विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण-पूर्वजः । अयोध्या-अभिमुखः धीमान् प्राञ्ञ्लिः वाक्वम् अब्रवीत् ॥२॥
viśālān kosalān ramyān yātvā lakṣmaṇa-pūrvajaḥ . ayodhyā-abhimukhaḥ dhīmān prāññliḥ vākvam abravīt ..2..
आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥
आपृच्छे त्वाम् पुरी-श्रेष्ठे काकुत्स्थ-परिपालिते । दैवतानि च यानि त्वाम् पालयन्ति आवसन्ति च ॥२॥
āpṛcche tvām purī-śreṣṭhe kākutstha-paripālite . daivatāni ca yāni tvām pālayanti āvasanti ca ..2..
निवृत्तवनवासस्त्वामनृणो जगतीपतेः । पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥
निवृत्त-वन-वासः त्वाम् अनृणः जगतीपतेः । पुनर् ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२॥
nivṛtta-vana-vāsaḥ tvām anṛṇaḥ jagatīpateḥ . punar dhrakṣyāmi mātrā ca pitrā ca saha samgataḥ ..2..
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥
ततस् रुधिर-ताम्र-अक्षः भुजम् उद्यम्य दक्षिणम् । अश्रु-पूर्ण-मुखः दीनः अब्रवीत् जानपदम् जनम् ॥२॥
tatas rudhira-tāmra-akṣaḥ bhujam udyamya dakṣiṇam . aśru-pūrṇa-mukhaḥ dīnaḥ abravīt jānapadam janam ..2..
अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः । चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥
अनुक्रोशः दया च एव यथार्हम् मयि कृतः । चिरम् दुःखस्य पापीयः गम्यताम् अर्थ-सिद्धये ॥२॥
anukrośaḥ dayā ca eva yathārham mayi kṛtaḥ . ciram duḥkhasya pāpīyaḥ gamyatām artha-siddhaye ..2..
तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् । विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥
ते अभिवाद्य महात्मानम् कृत्वा च अपि प्रदक्षिणम् । विलपन्तः नराः घोरम् व्यतिष्ठन्त क्वचिद् क्वचिद् ॥२॥
te abhivādya mahātmānam kṛtvā ca api pradakṣiṇam . vilapantaḥ narāḥ ghoram vyatiṣṭhanta kvacid kvacid ..2..
तथा विलपताम् तेषामतृप्तानाम् च राघवः । अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥
तथा विलपताम् तेषाम् अतृप्तानाम् च राघवः । अ चक्षुः-इषयम् प्रायात् यथा अर्कः क्षणदा-मुखे ॥२॥
tathā vilapatām teṣām atṛptānām ca rāghavaḥ . a cakṣuḥ-iṣayam prāyāt yathā arkaḥ kṣaṇadā-mukhe ..2..
ततो धान्यधनोपेतान् दानशीलजनान् शिवान् । अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥
ततस् धान्य-धन-उपेतान् दान-शील-जनान् शिवान् । अ कुतश्चिद् भयान् रम्याम् श्चैत्य-यूप-समावृतान् ॥२॥
tatas dhānya-dhana-upetān dāna-śīla-janān śivān . a kutaścid bhayān ramyām ścaitya-yūpa-samāvṛtān ..2..
उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् । तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥
उद्यान-आम्र-वन-उपेतान् सम्पन्न-सलिलाशयान् । तुष्ट-पुष्ट-जन-आकीर्णान् गोकुल-आकुल-सेवितान् ॥२॥
udyāna-āmra-vana-upetān sampanna-salilāśayān . tuṣṭa-puṣṭa-jana-ākīrṇān gokula-ākula-sevitān ..2..
लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥
लक्षणीयान् न ब्रह्मघोष-अभिनादितान् । रथेन पुरुष-व्याघ्रः कोसलान् अत्यवर्तत ॥२॥
lakṣaṇīyān na brahmaghoṣa-abhināditān . rathena puruṣa-vyāghraḥ kosalān atyavartata ..2..
मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् । राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥
मध्येन मुदितम् स्फीतम् रम्य-उद्यान-समाकुलम् । राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२॥
madhyena muditam sphītam ramya-udyāna-samākulam . rājyam bhogyam narendrāṇām yayau dhṛtimatām varaḥ ..2..
तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् । ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥
तत्र त्रिपथगाम् दिव्याम् शिव-तोयाम् अशैवलाम् । ददर्श राघवः गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२॥
tatra tripathagām divyām śiva-toyām aśaivalām . dadarśa rāghavaḥ gangām puṇyām ṛṣi nisevitām ..2..
आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् । कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥
आश्रमैः अविदूर्स्थैः श्रीमद्भिः समलम् कृताम् । काले अप्सरोभिः हृष्टाभिः सेवित-अम्भोह्रदाम् शिवाम् ॥२॥
āśramaiḥ avidūrsthaiḥ śrīmadbhiḥ samalam kṛtām . kāle apsarobhiḥ hṛṣṭābhiḥ sevita-ambhohradām śivām ..2..
देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् । नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥
देव-दानव-गन्धर्वैः किन्नरैः उपशोभिताम् । नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२॥
deva-dānava-gandharvaiḥ kinnaraiḥ upaśobhitām . nāgagandharvapatnībhiḥ sevitām satatam śivām ..2..
देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् । देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥
देव-आक्रीड-शत-आकीर्णाम् देव-उद्यान-शत-आयुताम् । देव-अर्थम् आकाश-गमाम् विख्याताम् देव-पद्मिनीम् ॥२॥
deva-ākrīḍa-śata-ākīrṇām deva-udyāna-śata-āyutām . deva-artham ākāśa-gamām vikhyātām deva-padminīm ..2..
जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् । क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥
जल-घात-अट्टहास-उग्राम् फेन-निर्मल-हासिनीम् । क्वचिद् वेणी-कृत-जलाम् क्वचिद् आवर्त-शोभिताम् ॥२॥
jala-ghāta-aṭṭahāsa-ugrām phena-nirmala-hāsinīm . kvacid veṇī-kṛta-jalām kvacid āvarta-śobhitām ..2..
क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥
क्वचिद् स्तिमित-गम्भीराम् क्वचिद् वेग-जल-आकुलाम् । क्वचिद् गम्भीर-निर्घोषाम् क्वचिद् भैरव-निस्वनाम् ॥२॥
kvacid stimita-gambhīrām kvacid vega-jala-ākulām . kvacid gambhīra-nirghoṣām kvacid bhairava-nisvanām ..2..
देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥
देव-सम्घ-आप्लुत-जलाम् निर्मल-उत्पल-शोभिताम् । क्वचिद् आभोग-पुलिनाम् क्वचिद् नर्म-लवालुकाम् ॥२॥
deva-samgha-āpluta-jalām nirmala-utpala-śobhitām . kvacid ābhoga-pulinām kvacid narma-lavālukām ..2..
हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् । सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥
हम्स-सरस-सम्घुष्टाम् चक्र-वाक-उपकूजिताम् । सदामदैः च विहगैः अभिसम्नादिताम् तराम् ॥२॥
hamsa-sarasa-samghuṣṭām cakra-vāka-upakūjitām . sadāmadaiḥ ca vihagaiḥ abhisamnāditām tarām ..2..
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् । क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥
क्वचिद् तीररुहैः वृक्षैः मालाभिः इव शोभिताम् । क्वचिद् फुल्ल-उत्पल-छन्नाम् क्वचिद् पद्म-वन-आकुलाम् ॥२॥
kvacid tīraruhaiḥ vṛkṣaiḥ mālābhiḥ iva śobhitām . kvacid phulla-utpala-channām kvacid padma-vana-ākulām ..2..
क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् । नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥
क्वचिद् कुमुद-ष्ण्डैः च कुड्मलैः उपशोभिताम् । नाना पुष्प-रजः-ध्वस्ताम् समदाम् इव च क्वचिद् ॥२॥
kvacid kumuda-ṣṇḍaiḥ ca kuḍmalaiḥ upaśobhitām . nānā puṣpa-rajaḥ-dhvastām samadām iva ca kvacid ..2..
व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् । दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥
व्यपेत-मल-सम्घाताम् मणि-निर्मल-दर्शनाम् । दिशागजैः वन-गजैः मत्तैः च वर-वारणैः ॥२॥
vyapeta-mala-samghātām maṇi-nirmala-darśanām . diśāgajaiḥ vana-gajaiḥ mattaiḥ ca vara-vāraṇaiḥ ..2..
देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् । प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥
देव-उपवाह्यः च मुहुर् सम्नादित-वन-अन्तराम् । प्रमदाम् इव यत्ने न भूषिताम् भूषण-उत्तमैः ॥२॥
deva-upavāhyaḥ ca muhur samnādita-vana-antarām . pramadām iva yatne na bhūṣitām bhūṣaṇa-uttamaiḥ ..2..
फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा । शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥
फलैः पुष्पैः किसलयैः वऋताम् गुल्मैः द्विजैः तथा । शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२॥
phalaiḥ puṣpaiḥ kisalayaiḥ vaṛtām gulmaiḥ dvijaiḥ tathā . śimśumaraiḥ ca nakraiḥ ca bhujamgaiḥ ca niṣevitām ..2..
विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् । ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥
विष्णु-पाद-च्युताम् दिव्याम् अपापाम् पाप-नाशिनीम् । ताम् शङ्कर-जटा-जूटात् भ्रष्टाम् सागर-तेजसा ॥२॥
viṣṇu-pāda-cyutām divyām apāpām pāpa-nāśinīm . tām śaṅkara-jaṭā-jūṭāt bhraṣṭām sāgara-tejasā ..2..
समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥
समुद्र-महीषीम् गङ्गाम् सारस-क्रौञ्च-नादिताम् । आससाद महा-बाहुः शृङ्गिबेर-पुरम् प्रति ॥२॥
samudra-mahīṣīm gaṅgām sārasa-krauñca-nāditām . āsasāda mahā-bāhuḥ śṛṅgibera-puram prati ..2..
ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः । सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥
ताम् ऊर्मि-कलिल-आवर्ताम् अन्ववेक्ष्य महा-रथः । सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२॥
tām ūrmi-kalila-āvartām anvavekṣya mahā-rathaḥ . sumantram abravīt sūtam iha eva adya vasāmahe ..2..
अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् । सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥
अविदूरात् अयम् नद्या बहु-पुष्प-प्रवालवान् । सु महान् इन्गुदी-वृक्षः वसामः अत्र एव सारथे ॥२॥
avidūrāt ayam nadyā bahu-puṣpa-pravālavān . su mahān ingudī-vṛkṣaḥ vasāmaḥ atra eva sārathe ..2..
द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥
द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्य-सलिलाम् शिवाम् । देव-दानव-गन्धर्व-मृग-मानुष-पक्षिणाम् ॥२॥
drakṣyāmaḥ saritām śreṣṭhām sammānya-salilām śivām . deva-dānava-gandharva-mṛga-mānuṣa-pakṣiṇām ..2..
लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् । उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥
लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् । उक्त्वा तम् इन्गुदी-वृक्षम् तदा उपययतुः हयैः ॥२॥
lakṣaṇaḥ ca sumantraḥ ca bāḍham iti eva rāghavam . uktvā tam ingudī-vṛkṣam tadā upayayatuḥ hayaiḥ ..2..
रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः । रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥
रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु-नन्दनः । रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२॥
rāmaḥ abhiyāya tam ramyam vṛkṣam ikṣvāku-nandanaḥ . rathāt avātarat tasmāt sabhāryaḥ saha lakṣmaṇaḥ ..2..
सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् । वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥
सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय-उत्तमान् । वृक्ष-मूल-गतम् रामम् उपतस्थे कृत-अन्जलिः ॥२॥
sumantraḥ api avatīrya eva mocayitvā haya-uttamān . vṛkṣa-mūla-gatam rāmam upatasthe kṛta-anjaliḥ ..2..
तत्र राजा गुहो नाम रामस्य आत्म समः सखा । निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥
तत्र राजा गुहः नाम रामस्य आत्म-समः सखा । निषाद-जात्यः बलवान् स्थपतिः च इति विश्रुतः ॥२॥
tatra rājā guhaḥ nāma rāmasya ātma-samaḥ sakhā . niṣāda-jātyaḥ balavān sthapatiḥ ca iti viśrutaḥ ..2..
स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् । वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥
स श्रुत्वा पुरुष-व्याघ्रम् रामम् विषयम् आगतम् । वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२॥
sa śrutvā puruṣa-vyāghram rāmam viṣayam āgatam . vṛddhaiḥ parivṛtaḥ amātyaiḥ jñātibhiḥ ca api upāgataḥ ..2..
ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् । सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥
ततस् निषाद-अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् । सह सौमित्रिणा रामः समागच्चत् गुहेन सः ॥२॥
tatas niṣāda-adhipatim dṛṣṭvā dūrāt avasthitam . saha saumitriṇā rāmaḥ samāgaccat guhena saḥ ..2..
तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् । यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥
तम् आर्तः सम्परिष्वज्य गुहः राघवम् अब्रवीत् । यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२॥
tam ārtaḥ sampariṣvajya guhaḥ rāghavam abravīt . yathā ayodhyā tathā idam te rāma kim karavāṇi te ..2..
ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् । ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् । अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥
ईदृशम् हि महा-बाहो कः प्रप्स्यति अतिथिम् प्रियम् । ततस् गुणवद्-अन्न-अद्यम् उपादाय पृथग्विधम् । अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२॥
īdṛśam hi mahā-bāho kaḥ prapsyati atithim priyam . tatas guṇavad-anna-adyam upādāya pṛthagvidham . arghyam ca upānayat kṣipram vākyam ca idam uvāca ha ..2..
स्वागतम् ते महा बाहो तव इयम् अखिला मही । वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥
स्वागतम् ते महा-बाहो तव इयम् अखिला मही । वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२॥
svāgatam te mahā-bāho tava iyam akhilā mahī . vayam preṣyā bhavān bhartā sādhu rājyam praśādhi naḥ ..2..
भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् । शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥
भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् । शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२॥
bhakṣyam bhojyam ca peyam ca lehyam ca idam upasthitam . śayanāni ca mukhyāni vājinām khādanam ca te ..2..
गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥
गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२॥
guham eva bruvāṇam tam rāghavaḥ pratyuvāca ha ..2..
अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् । पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥
अर्चिताः च एव हृष्टाः च भवता सर्वथा वयम् । पद्भ्याम् अभिगमात् च एव स्नेह-सम्दर्शनेन च ॥२॥
arcitāḥ ca eva hṛṣṭāḥ ca bhavatā sarvathā vayam . padbhyām abhigamāt ca eva sneha-samdarśanena ca ..2..
भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् । दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥
भुजाभ्याम् साधु-वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् । दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२॥
bhujābhyām sādhu-vṛttābhyām pīḍayan vākyam abravīt . diṣṭyā tvām guha paśyāmiarogam saha bāndhavaiḥ ..2..
अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च । यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् । सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥
अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च । यत् तु इदम् भवता किम्चिद् प्रीत्या समुपकल्पितम् । सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२॥
api te kūśalam rāṣṭre mitreṣu ca dhaneṣu ca . yat tu idam bhavatā kimcid prītyā samupakalpitam . sarvam tat anujānāmi na hi varte pratigrahe ..2..
कुश चीर अजिन धरम् फल मूल अशनम् च माम् । विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥
कुश-चीर-अजिन-धरम् फल-मूल-अशनम् च माम् । विद्धि प्रणिहितम् धर्मे तापसम् वन-गोचरम् ॥२॥
kuśa-cīra-ajina-dharam phala-mūla-aśanam ca mām . viddhi praṇihitam dharme tāpasam vana-gocaram ..2..
अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् । एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥
अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचिद् । एतावता अत्र भवता भविष्यामि सु पूजितः ॥२॥
aśvānām khādanena aham arthī na anyena kenacid . etāvatā atra bhavatā bhaviṣyāmi su pūjitaḥ ..2..
एते हि दयिता राज्ञः पितुर् दशरथस्य मे । एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥
एते हि दयिताः राज्ञः पितुः दशरथस्य मे । एतैः सु विहितैः अश्वैः भविष्यामि अहम् अर्चितः ॥२॥
ete hi dayitāḥ rājñaḥ pituḥ daśarathasya me . etaiḥ su vihitaiḥ aśvaiḥ bhaviṣyāmi aham arcitaḥ ..2..
अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् । गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥
अश्वानाम् प्रतिपानम् च खादनम् च एव सः अन्वशात् । गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२॥
aśvānām pratipānam ca khādanam ca eva saḥ anvaśāt . guhaḥ tatra eva puruṣāms tvaritam dīyatām iti ..2..
ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् । जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥
ततः चीर-उत्तर-आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् । जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२॥
tataḥ cīra-uttara-āsangaḥ samdhyām anvāsya paścimām . jalam eva ādade bhojyam lakṣmaṇena āhṛtam svayam ..2..
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः । सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः । सभार्यस्य ततस् अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२॥
tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ . sabhāryasya tatas abhyetya tasthau vṛṣkam upāśritaḥ ..2..
गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् । अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥
गुहः अपि सह सूतेन सौमित्रिम् अनुभाषयन् । अन्वजाग्रत् ततस् रामम् अप्रमत्तः धनुः-धरः ॥२॥
guhaḥ api saha sūtena saumitrim anubhāṣayan . anvajāgrat tatas rāmam apramattaḥ dhanuḥ-dharaḥ ..2..
तथा शयानस्य ततः अस्य धीमतः । यशस्विनो दाशरथेर् महात्मनः । अदृष्ट दुह्खस्य सुख उचितस्य सा । तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥
तथा शयानस्य ततस् अस्य धीमतः । यशस्विनः दाशरथेः महात्मनः । अदृष्ट-दुह्खस्य सुख-उचितस्य सा । तदा व्यतीयाय चिरेण शर्वरी ॥२॥
tathā śayānasya tatas asya dhīmataḥ . yaśasvinaḥ dāśaratheḥ mahātmanaḥ . adṛṣṭa-duhkhasya sukha-ucitasya sā . tadā vyatīyāya cireṇa śarvarī ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥२-५०॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe pañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In