This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रिपञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe tripañcāśaḥ sargaḥ ..2..
स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् । रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥
स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् । रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२॥
sa tam vṛkṣam samāsādya samdhyām anvāsya paścimām . rāmaḥ ramayatām śreṣṭhaiti ha uvāca lakṣmaṇam ..2..
अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः । या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥
अद्य इयम् प्रथमा रात्रिः याता जन-पदात् बहिस् । या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२॥
adya iyam prathamā rātriḥ yātā jana-padāt bahis . yā sumantreṇa rahitā tām na utkaṇṭhitum arhasi ..2..
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु । योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु । योग-क्षेमः हि सीतायाः वर्तते लक्ष्मण आवयोह् ॥२॥
jāgartavyam atandribhyām adya prabhṛti rātriṣu . yoga-kṣemaḥ hi sītāyāḥ vartate lakṣmaṇa āvayoh ..2..
रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे । उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥
रात्रिम् कथम्चिद् एव इमाम् सौमित्रे वर्तयामहे । उपावर्तामहे भूमौ आस्तीर्य स्वयम् ॥२॥
rātrim kathamcid eva imām saumitre vartayāmahe . upāvartāmahe bhūmau āstīrya svayam ..2..
स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः । इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥
स तु सम्विश्य मेदिन्याम् महा-अर्ह-शयन-उचितः । इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२॥
sa tu samviśya medinyām mahā-arha-śayana-ucitaḥ . imāḥ saumitraye rāmaḥ vyājahāra kathāḥ śubhāḥ ..2..
ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण । कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥
ध्रुवम् अद्य महा-राजः दुह्खम् स्वपिति लक्ष्मण । कृत-कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२॥
dhruvam adya mahā-rājaḥ duhkham svapiti lakṣmaṇa . kṛta-kāmā tu kaikeyī tuṣṭā bhavitum arhati ..2..
सा हि देवी महा राजम् कैकेयी राज्य कारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥
सा हि देवी महा-राजम् कैकेयी राज्य-कारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२॥
sā hi devī mahā-rājam kaikeyī rājya-kāraṇāt . api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam ..2..
अनाथः चैव वृद्धः च मया चैव विनाकृतः । किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥
अनाथः च एव वृद्धः च मया च एव विनाकृतः । किम् करिष्यति काम-आत्मा कैकेय्याः वशम् आगतः ॥२॥
anāthaḥ ca eva vṛddhaḥ ca mayā ca eva vinākṛtaḥ . kim kariṣyati kāma-ātmā kaikeyyāḥ vaśam āgataḥ ..2..
इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् । कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥
इदम् व्यसनम् आलोक्य राज्ञः च मति-विभ्रमम् । कामएव-अर्ध-धर्माभ्याम् गरीयान् इति मे मतिः ॥२॥
idam vyasanam ālokya rājñaḥ ca mati-vibhramam . kāmaeva-ardha-dharmābhyām garīyān iti me matiḥ ..2..
को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् । चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥
कः हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् । चन्द-अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२॥
kaḥ hi avidvān api pumān pramadāyāḥ kṛte tyajet . canda-anuvartinam putram tātaḥ mām iva lakṣmaṇa ..2..
सुखी बत सभार्यः च भरतः केकयी सुतः । मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥
सुखी बत सभार्यः च भरतः केकयी-सुतः । मुदितान् कोसलान् एकः यः भोक्ष्यति अधिराज-वत् ॥२॥
sukhī bata sabhāryaḥ ca bharataḥ kekayī-sutaḥ . muditān kosalān ekaḥ yaḥ bhokṣyati adhirāja-vat ..2..
स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति । ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥
स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति । ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२॥
sa hi sarvasya rājyasya mukham ekam bhaviṣyati . tāte ca vayasā atīte mayi ca araṇyam āśrite ..2..
अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते । एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥
अर्थ-धर्मौ परित्यज्य यः कामम् अनुवर्तते । एवम् आपद्यते क्षिप्रम् राजा दशरथः यथा ॥२॥
artha-dharmau parityajya yaḥ kāmam anuvartate . evam āpadyate kṣipram rājā daśarathaḥ yathā ..2..
मन्ये दशरथ अन्ताय मम प्रव्राजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥
मन्ये दशरथ-अन्ताय मम प्रव्राजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२॥
manye daśaratha-antāya mama pravrājanāya ca . kaikeyī saumya samprāptā rājyāya bharatasya ca ..2..
अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता । कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥
अपि इदानीम् न कैकेयी सौभाग्य-मद-मोहिता । कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२॥
api idānīm na kaikeyī saubhāgya-mada-mohitā . kausalyām ca sumitrām ca samprabādheta mat kṛte ..2..
मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् । अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥
मा स्म मत्-कारणात् देवी सुमित्रा दुह्खम् आवसेत् । अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२॥
mā sma mat-kāraṇāt devī sumitrā duhkham āvaset . ayodhyām itaeva tvam kāle praviśa lakṣmaṇa ..2..
अहम् एको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥
अहम् एकः गमिष्यामि सीतया सह दण्डकान् । अनाथायाः हि नाथः त्वम् कौसल्यायाः भविष्यसि ॥२॥
aham ekaḥ gamiṣyāmi sītayā saha daṇḍakān . anāthāyāḥ hi nāthaḥ tvam kausalyāyāḥ bhaviṣyasi ..2..
क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥
क्षुद्र-कर्मा हि कैकेयी-द्वेषात् अन्याय्यम् आचरेत् । परिदद्याः हि धर्म-ज्ञे भरते मम मातरम् ॥२॥
kṣudra-karmā hi kaikeyī-dveṣāt anyāyyam ācaret . paridadyāḥ hi dharma-jñe bharate mama mātaram ..2..
नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥
नूनम् जाति-अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२॥
nūnam jāti-antare kasmims striyaḥ putraiḥ viyojitāḥ . jananyā mama saumitre tat api etat upasthitam ..2..
मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च । विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥
मया हि चिर-पुष्टेन दुह्ख-सम्वर्धितेन च । विप्रायुज्यत कौसल्या फल-काले धिक् अस्तु माम् ॥२॥
mayā hi cira-puṣṭena duhkha-samvardhitena ca . viprāyujyata kausalyā phala-kāle dhik astu mām ..2..
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् । सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥
मा स्म सीमन्तिनी काचिद् जनयेत् पुत्रम् ईदृशम् । सौमित्रे यः अहम् अम्बायाः दद्मि शोकम् अनन्तकम् ॥२॥
mā sma sīmantinī kācid janayet putram īdṛśam . saumitre yaḥ aham ambāyāḥ dadmi śokam anantakam ..2..
मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका । यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥
मन्ये प्रीति-विशिष्टा सा मत्तः लक्ष्मण-सारिका । यस्याः तत् श्रूयते वाक्यम् शुक-पादम् अरेः दश ॥२॥
manye prīti-viśiṣṭā sā mattaḥ lakṣmaṇa-sārikā . yasyāḥ tat śrūyate vākyam śuka-pādam areḥ daśa ..2..
शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता । पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥
शोचन्त्याः च अल्प-भाग्यायाः न किम्चिद् उपकुर्वता । पुर्त्रेण किम् अपुत्रायाः मया कार्यम् अरिम् दम ॥२॥
śocantyāḥ ca alpa-bhāgyāyāḥ na kimcid upakurvatā . purtreṇa kim aputrāyāḥ mayā kāryam arim dama ..2..
अल्प भाग्या हि मे माता कौसल्या रहिता मया । शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥
अल्प-भाग्या हि मे माता कौसल्या रहिता मया । शेते परम-दुह्ख-आर्ता पतिता शोक-सागरे ॥२॥
alpa-bhāgyā hi me mātā kausalyā rahitā mayā . śete parama-duhkha-ārtā patitā śoka-sāgare ..2..
एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण । तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥
एकः हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण । तरेयम् इषुभिः क्रुद्धः ननु वीर्यम् अकारणम् ॥२॥
ekaḥ hi aham ayodhyām ca pṛthivīm ca api lakṣmaṇa . tareyam iṣubhiḥ kruddhaḥ nanu vīryam akāraṇam ..2..
अधर्म भय भीतः च पर लोकस्य च अनघ । तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥
अधर्म-भय-भीतः च पर-लोकस्य च अनघ । तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२॥
adharma-bhaya-bhītaḥ ca para-lokasya ca anagha . tena lakṣmaṇa na adya aham ātmānam abhiṣecaye ..2..
एतत् अन्यच् च करुणम् विलप्य विजने बहु । अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥
एतत् अन्यत् च करुणम् विलप्य विजने बहु । अश्रु-पूर्ण-मुखः रामः निशि तूष्णीम् उपाविशत् ॥२॥
etat anyat ca karuṇam vilapya vijane bahu . aśru-pūrṇa-mukhaḥ rāmaḥ niśi tūṣṇīm upāviśat ..2..
विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् । समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥
विलप्य उपरतम् रामम् गत-अर्चिषम् इव अनलम् । समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२॥
vilapya uparatam rāmam gata-arciṣam iva analam . samudram iva nirvegam āśvāsayata lakṣmaṇaḥ ..2..
ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर । निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥
ध्रुवम् अद्य पुरी रामा अयोध्या युधिनाम् वर । निष्प्रभा त्वयि निष्क्रान्ते गत-चन्द्रा इव शर्वरी ॥२॥
dhruvam adya purī rāmā ayodhyā yudhinām vara . niṣprabhā tvayi niṣkrānte gata-candrā iva śarvarī ..2..
न एतत् औपयिकम् राम यद् इदम् परितप्यसे । विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥
न एतत् औपयिकम् राम यत् इदम् परितप्यसे । विषादयसि सीताम् च माम् च एव पुरुष-ऋषभ ॥२॥
na etat aupayikam rāma yat idam paritapyase . viṣādayasi sītām ca mām ca eva puruṣa-ṛṣabha ..2..
न च सीता त्वया हीना न च अहम् अपि राघव । मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥
न च सीता त्वया हीना न च अहम् अपि राघव । मुहूर्तम् अपि जीवावः जलात् मत्स्यौ इव उद्धृतौ ॥२॥
na ca sītā tvayā hīnā na ca aham api rāghava . muhūrtam api jīvāvaḥ jalāt matsyau iva uddhṛtau ..2..
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप । द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप । द्रष्टुम् इच्च-इयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२॥
na hi tātam na śatrughnam na sumitrām param tapa . draṣṭum icca-iyam adya aham svargam vā api tvayā vinā ..2..
ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥
ततस् तत्र सुख-आसीने न अति दूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२॥
tatas tatra sukha-āsīne na ati dūre nirīkṣya tām . nyagrodhe sukṛtām śayyām bhejāte dharmavatsalau ..2..
स लक्ष्मणस्य उत्तम पुष्कलम् वचो । निशम्य च एवम् वन वासम् आदरात् । समाः समस्ता विदधे परम् तपः । प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥
स लक्ष्मणस्य उत्तम पुष्कलम् वचः । निशम्य च एवम् वन-वासम् आदरात् । समाः समस्ताः विदधे परम् तपः । प्रपद्य धर्मम् सुचिराय राघवः ॥२॥
sa lakṣmaṇasya uttama puṣkalam vacaḥ . niśamya ca evam vana-vāsam ādarāt . samāḥ samastāḥ vidadhe param tapaḥ . prapadya dharmam sucirāya rāghavaḥ ..2..
ततस्तु तस्मिन् विजने वने तदा । महाबलौ राघववम्शवर्धनौ । न तौ भयम् सम्भ्रममभ्युपेयतु । र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥
ततस् तु तस्मिन् विजने वने तदा । महा-बलौ राघव-वम्शवर्धनौ । न तौ भयम् सम्भ्रमम् अभ्युपेयतु । र्यथा एव सिम्हौ गिरि-सानु-गोचरौ ॥२॥
tatas tu tasmin vijane vane tadā . mahā-balau rāghava-vamśavardhanau . na tau bhayam sambhramam abhyupeyatu . ryathā eva simhau giri-sānu-gocarau ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe tripañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In