This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुःपञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe catuḥpañcāśaḥ sargaḥ ..2..
ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् । विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥
ते तु तस्मिन् महा-वृक्षौषित्वा रजनीम् शिवाम् । विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२॥
te tu tasmin mahā-vṛkṣauṣitvā rajanīm śivām . vimale abhyudite sūrye tasmāt deśāt pratasthire ..2..
यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते । जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥
यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते । जग्मुः तम् देशम् उद्दिश्य विगाह्य सु महत् वनम् ॥२॥
yatra bhāgīrathī gangā yamunām abhivartate . jagmuḥ tam deśam uddiśya vigāhya su mahat vanam ..2..
ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् । अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥
ते भूमिम् आगान् विविधान् देशामः च अपि मनो-रमान् । अदृष्ट-पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२॥
te bhūmim āgān vividhān deśāmaḥ ca api mano-ramān . adṛṣṭa-pūrvān paśyantaḥ tatra tatra yaśasvinaḥ ..2..
यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् । निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥
यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् । निवृत्त-मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२॥
yathā kṣemeṇa gaccan sa paśyamaḥ ca vividhān drumān . nivṛtta-mātre divase rāmaḥ saumitrim abravīt ..2..
प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् । अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥
प्रयागम् अभितस् पश्य सौमित्रे धूमम् उन्नतम् । अग्नेः भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२॥
prayāgam abhitas paśya saumitre dhūmam unnatam . agneḥ bhagavataḥ ketum manye samnihitaḥ muniḥ ..2..
नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् । तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥
नूनम् प्राप्ताः स्म सम्भेदम् गन्गा-यमुनयोः वयम् । तथा हि श्रूयते शम्ब्दः वारिणा वारि घट्टितः ॥२॥
nūnam prāptāḥ sma sambhedam gangā-yamunayoḥ vayam . tathā hi śrūyate śambdaḥ vāriṇā vāri ghaṭṭitaḥ ..2..
दारूणि परिभिन्नानि वनजैः उपजीविभिः । भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥
दारूणि परिभिन्नानि वनजैः उपजीविभिः । भरद्वाज-आश्रमे च एते दृश्यन्ते विविधाः द्रुमाः ॥२॥
dārūṇi paribhinnāni vanajaiḥ upajīvibhiḥ . bharadvāja-āśrame ca ete dṛśyante vividhāḥ drumāḥ ..2..
धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे । गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥
धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे । गन्गा यमुनयोः सम्धौ प्रापतुः निलयम् मुनेः ॥२॥
dhanvinau tau sukham gatvā lambamāne divā kare . gangā yamunayoḥ samdhau prāpatuḥ nilayam muneḥ ..2..
रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः । गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥
रामः तु आश्रमम् आसाद्य त्रासयन् मृग-पक्षिणः । गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२॥
rāmaḥ tu āśramam āsādya trāsayan mṛga-pakṣiṇaḥ . gatvā muhūrtam adhvānam bharadvājam upāgamat ..2..
ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ । सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥
ततस् तु आश्रमम् आसाद्य मुनेः दर्शन-कान्क्षिणौ । सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२॥
tatas tu āśramam āsādya muneḥ darśana-kānkṣiṇau . sītayā anugatau vīrau dūrāt eva avatasthatuḥ ..2..
स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् । सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥
स प्रविश्य महात्मानम् ऋषिम् शिष्य-गणैः वऋतम् । सम्शित-व्रतम् एकाग्रम् तपसा लब्ध-चक्षुषम् ॥२॥
sa praviśya mahātmānam ṛṣim śiṣya-gaṇaiḥ vaṛtam . samśita-vratam ekāgram tapasā labdha-cakṣuṣam ..2..
हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः । रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥
हुत-अग्नि-होत्रम् दृष्ट्वा एव महा-भागम् कृत-अन्जलिः । रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२॥
huta-agni-hotram dṛṣṭvā eva mahā-bhāgam kṛta-anjaliḥ . rāmaḥ saumitriṇā sārdham sītayā ca abhyavādayat ..2..
न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः । पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥
न्यवेदयत च आत्मानम् तस्मै लक्ष्मण-पूर्वजः । पुत्रौ दशरथस्य आवाम् भगवन् राम-लक्ष्मणौ ॥२॥
nyavedayata ca ātmānam tasmai lakṣmaṇa-pūrvajaḥ . putrau daśarathasya āvām bhagavan rāma-lakṣmaṇau ..2..
भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा । माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥
भार्या मम इयम् वैदेही कल्याणी जनक-आत्मजा । माम् च अनुयाता विजनम् तपः-वनम् अनिन्दिता ॥२॥
bhāryā mama iyam vaidehī kalyāṇī janaka-ātmajā . mām ca anuyātā vijanam tapaḥ-vanam aninditā ..2..
पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः । अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥
पित्रा प्रव्राज्यमानम् माम् सौमित्रिः अनुजः प्रियः । अयम् अन्वगमत् भ्राता वनम् एव दृढ-व्रतः ॥२॥
pitrā pravrājyamānam mām saumitriḥ anujaḥ priyaḥ . ayam anvagamat bhrātā vanam eva dṛḍha-vrataḥ ..2..
पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् । धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥
पित्रा नियुक्ता भगवन् प्रवेष्यामः तपः-वनम् । धर्मम् एव आचरिष्यामः तत्र मूल-फल-अशनाः ॥२॥
pitrā niyuktā bhagavan praveṣyāmaḥ tapaḥ-vanam . dharmam eva ācariṣyāmaḥ tatra mūla-phala-aśanāḥ ..2..
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥
तस्य तत् वचनम् श्रुत्वा राज-पुत्रस्य धीमतः । उपानयत धर्म-आत्मा गाम् अर्घ्यम् उदकम् ततस् ॥२॥
tasya tat vacanam śrutvā rāja-putrasya dhīmataḥ . upānayata dharma-ātmā gām arghyam udakam tatas ..2..
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥
नानाविधान् अन्न-रसान् वन्य-मूल-फल-आश्रयान् । तेभ्यः ददौ तप्त-तपाः वासम् च एव अभ्यकल्पयत् ॥२॥
nānāvidhān anna-rasān vanya-mūla-phala-āśrayān . tebhyaḥ dadau tapta-tapāḥ vāsam ca eva abhyakalpayat ..2..
मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः । रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥
मृग-पक्षिभिः आसीनः मुनिभिः च समन्ततः । रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२॥
mṛga-pakṣibhiḥ āsīnaḥ munibhiḥ ca samantataḥ . rāmam āgatam abhyarcya svāgatena āha tam muniḥ ..2..
प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् । भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥
प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् । भरद्वाजः अब्रवीत् वाक्यम् धर्म-युक्तम् इदम् तदा ॥२॥
pratigṛhya ca tām arcām upaviṣṭam sa rāghavam . bharadvājaḥ abravīt vākyam dharma-yuktam idam tadā ..2..
चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् । श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥
चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् । श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२॥
cirasya khalu kākutstha paśyāmi tvām iha āgatam . śrutam tava mayā ca idam vivāsanam akāraṇam ..2..
अवकाशो विविक्तः अयम् महा नद्योह् समागमे । पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥
अवकाशः विविक्तः अयम् महा-समागमे । पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२॥
avakāśaḥ viviktaḥ ayam mahā-samāgame . puṇyaḥ ca ramaṇīyaḥ ca vasatu iha bhagān sukham ..2..
एवम् उक्तः तु वचनम् भरद्वाजेन राघवः । प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥
एवम् उक्तः तु वचनम् भरद्वाजेन राघवः । प्रत्युवाच शुभम् वाक्यम् रामः सर्व-हिते रतः ॥२॥
evam uktaḥ tu vacanam bharadvājena rāghavaḥ . pratyuvāca śubham vākyam rāmaḥ sarva-hite rataḥ ..2..
भगवन्न् इताअसन्नः पौर जानपदो जनः । सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥
bhagavann itāasannaḥ paura jānapado janaḥ | sudarśamiha mām prekṣya manye'ha mimamāśramam ||2-54-24||
bhagavann itāasannaḥ paura jānapado janaḥ | sudarśamiha mām prekṣya manye'ha mimamāśramam ||2-54-24||
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः । अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षकः जनः । अनेन कारणेन अहम् इह वासम् न रोचये ॥२॥
āgamiṣyati vaidehīm mām ca api prekṣakaḥ janaḥ . anena kāraṇena aham iha vāsam na rocaye ..2..
एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् । रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥
एक-अन्ते पश्य भगवन् आश्रम-स्थानम् उत्तमम् । रमते यत्र वैदेही सुख-अर्हा जनक-आत्मजा ॥२॥
eka-ante paśya bhagavan āśrama-sthānam uttamam . ramate yatra vaidehī sukha-arhā janaka-ātmajā ..2..
एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः । राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥
एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजः महा-मुनिः । राघवस्य ततस् वाक्यम् अर्थ-ग्राहकम् अब्रवीत् ॥२॥
etat śrutvā śubham vākyam bharadvājaḥ mahā-muniḥ . rāghavasya tatas vākyam artha-grāhakam abravīt ..2..
दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि । महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥
दश क्रोश-एतः तात गिरिः यस्मिन् निवत्स्यसि । महर्षि-सेवितः पुण्यः सर्वतस् सुख-दर्शनः ॥२॥
daśa krośa-etaḥ tāta giriḥ yasmin nivatsyasi . maharṣi-sevitaḥ puṇyaḥ sarvatas sukha-darśanaḥ ..2..
गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः । चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥
गो लान्गूल-अनुचरितः वानर-ऋष्क-निषेवितः । चित्र-कूटैति ख्यातः गन्ध-मादन-सम्निभः ॥२॥
go lāngūla-anucaritaḥ vānara-ṛṣka-niṣevitaḥ . citra-kūṭaiti khyātaḥ gandha-mādana-samnibhaḥ ..2..
यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥
यावता चित्र-कूटस्य नरः शृन्गाणि अवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२॥
yāvatā citra-kūṭasya naraḥ śṛngāṇi avekṣate . kalyāṇāni samādhatte na pāpe kurute manaḥ ..2..
ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् । तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥
ऋषयः तत्र बहवः विहृत्य शरदाम् शतम् । तपसा दिवम् आरूधाः कपाल-शिरसा सह ॥२॥
ṛṣayaḥ tatra bahavaḥ vihṛtya śaradām śatam . tapasā divam ārūdhāḥ kapāla-śirasā saha ..2..
प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् । इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥
प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् । इह वा वन-वासाय वस राम मया सह ॥२॥
praviviktam aham manye tam vāsam bhavataḥ sukham . iha vā vana-vāsāya vasa rāma mayā saha ..2..
स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् । सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥
स रामम् सर्व-कामैअः तम् भरद्वाजः प्रिय-अतिथिम् । स भार्यम् सह च भ्रात्रा प्रतिजग्राह धर्म-विद् ॥२॥
sa rāmam sarva-kāmaiaḥ tam bharadvājaḥ priya-atithim . sa bhāryam saha ca bhrātrā pratijagrāha dharma-vid ..2..
तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥
तस्य प्रयागे रामस्य तम् महा-ऋषिम् उपेयुषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२॥
tasya prayāge rāmasya tam mahā-ṛṣim upeyuṣaḥ . prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ ..2..
सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥
सीता-तृतीय काकुत्स्थह् परिश्रान्तः सुख-उचितः । भरद्वाज-आश्रमे रम्ये ताम् रात्रि ॥२॥
sītā-tṛtīya kākutsthah pariśrāntaḥ sukha-ucitaḥ . bharadvāja-āśrame ramye tām rātri ..2..
प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् । उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥
प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् । उवाच नर-शार्दूलः मुनिम् ज्वलित-तेजसम् ॥२॥
prabhātāyām rajanyām tu bharadvājam upāgamat . uvāca nara-śārdūlaḥ munim jvalita-tejasam ..2..
शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे । उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥
शर्वरीम् भवनन् अद्य सत्य-शील तव आश्रमे । उषिताः स्मः इह वसतिम् अनुजानातु नः भवान् ॥२॥
śarvarīm bhavanan adya satya-śīla tava āśrame . uṣitāḥ smaḥ iha vasatim anujānātu naḥ bhavān ..2..
रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् । मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥
रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजः अब्रवीत् इदम् । मधु-मूल-फल-उपेतम् चित्र-कूटम् व्रज इति ह ॥२॥
rātryām tu tasyām vyuṣṭāyām bharadvājaḥ abravīt idam . madhu-mūla-phala-upetam citra-kūṭam vraja iti ha ..2..
वासमौपयिकम् मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥
वासम् औपयिकम् मन्ये तव राम महा-बल । नाना नग-गण-उपेतः किन्नर-उरग-सेवितह् ॥२॥
vāsam aupayikam manye tava rāma mahā-bala . nānā naga-gaṇa-upetaḥ kinnara-uraga-sevitah ..2..
मयूरनादाभिरुतो गजराजनिषेवितः । गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥
मयूर-नाद-अभिरुतः गज-राज-निषेवितः । गम्यताम् भवता शैलः चित्रकूटः स विश्रुतः ॥२॥
mayūra-nāda-abhirutaḥ gaja-rāja-niṣevitaḥ . gamyatām bhavatā śailaḥ citrakūṭaḥ sa viśrutaḥ ..2..
पुण्यश्च रमणीयश्च बहुमूलफलायुतः । तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥
पुण्यः च रमणीयः च बहु-मूल-फल-आयुतः । तत्र कुन्जर-यूथानि मृग-यूथानि च अभितस् ॥२॥
puṇyaḥ ca ramaṇīyaḥ ca bahu-mūla-phala-āyutaḥ . tatra kunjara-yūthāni mṛga-yūthāni ca abhitas ..2..
विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव । सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥
विचरन्ति वन-अन्तेषु तानि द्रक्ष्यसि राघव । सरित्-प्रस्रवण-प्रस्थान् दरी-कन्धर-निर्घरान् ॥२॥
vicaranti vana-anteṣu tāni drakṣyasi rāghava . sarit-prasravaṇa-prasthān darī-kandhara-nirgharān ..2..
चरतः सीतया सार्धम् नन्दिष्यति मनस्तव । प्रहृष्ट कोयष्टिक कोकिल स्वनैः । र्विनादितम् तम् वसुधा धरम् शिवम् । मृगैः च मत्तैः बहुभिः च कुन्जरैः । सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥
चरतः सीतया सार्धम् नन्दिष्यति मनः तव । प्रहृष्ट-कोयष्टिक-कोकिल-स्वनैः । र्विनादितम् तम् वसुधा-धरम् शिवम् । मृगैः च मत्तैः बहुभिः च कुन्जरैः । सु रम्यम् आसाद्य समावसे आश्रमम् ॥२॥
carataḥ sītayā sārdham nandiṣyati manaḥ tava . prahṛṣṭa-koyaṣṭika-kokila-svanaiḥ . rvināditam tam vasudhā-dharam śivam . mṛgaiḥ ca mattaiḥ bahubhiḥ ca kunjaraiḥ . su ramyam āsādya samāvase āśramam ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe catuḥpañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In