This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चपञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcapañcāśaḥ sargaḥ ..2..
उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ । महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥
उषित्वा रजनीम् तत्र राजपुत्रौ अरिम्दमौ । महा-ऋषिम् अभिवाद्य अथ जग्मतुः तम् गिरिम् प्रति ॥२॥
uṣitvā rajanīm tatra rājaputrau arimdamau . mahā-ṛṣim abhivādya atha jagmatuḥ tam girim prati ..2..
तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह । प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥
तेषाम् च एव स्वस्त्ययनम् महा-ऋषिः स चकार ह । प्रस्थितान् श्च एव तान् प्रेक्ष्य पिता पुत्रान् इव अन्वगात् ॥२॥
teṣām ca eva svastyayanam mahā-ṛṣiḥ sa cakāra ha . prasthitān śca eva tān prekṣya pitā putrān iva anvagāt ..2..
ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः । भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥
ततस् प्रचक्रमे वक्तुम् वचनम् स महामुनिः । भर्द्वाजः महा-तेजाः रामम् सत्य-पराक्रमम् ॥२॥
tatas pracakrame vaktum vacanam sa mahāmuniḥ . bhardvājaḥ mahā-tejāḥ rāmam satya-parākramam ..2..
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ । कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥
गङ्गा-यमुनयोः सन्धिम् आसाद्य मनुज-ऋषभौ । कालिन्दीम् अनुगच्छेताम् नदीम् पश्चात् मुख-आश्रिताम् ॥२॥
gaṅgā-yamunayoḥ sandhim āsādya manuja-ṛṣabhau . kālindīm anugacchetām nadīm paścāt mukha-āśritām ..2..
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् । तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥
अथ आसाद्य तु कालिन्दीम् शीघ्र-स्रोतसम् आपगाम् । तस्याः तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२॥
atha āsādya tu kālindīm śīghra-srotasam āpagām . tasyāḥ tīrtham pracaritam purāṇam prekṣya rāghavau ..2..
तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् । ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥
तत्र यूयम् प्लवम् कृत्वा तरत अंशुमतीम् नदीम् । ततस् न्यग्रोधम् आसाद्य महान्तम् हरितच्छदम् ॥२॥
tatra yūyam plavam kṛtvā tarata aṃśumatīm nadīm . tatas nyagrodham āsādya mahāntam haritacchadam ..2..
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् । तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥
विवृद्धम् बहुभिः वऋक्षैः श्यामम् सिद्ध-उपसेवितम् । तस्मै सीता अञ्जलिम् कृत्वा प्रयुञ्जीत आशिषः शिवाः ॥२॥
vivṛddham bahubhiḥ vaṛkṣaiḥ śyāmam siddha-upasevitam . tasmai sītā añjalim kṛtvā prayuñjīta āśiṣaḥ śivāḥ ..2..
समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा । क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥
समासाद्य तु तम् वृक्षम् वसेत् वा अतिक्रमेत वा । क्रोश-मात्रम् ततस् गत्वा नीलम् द्रक्ष्यथ काननम् ॥२॥
samāsādya tu tam vṛkṣam vaset vā atikrameta vā . krośa-mātram tatas gatvā nīlam drakṣyatha kānanam ..2..
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥
पलाश-बदरी-मिश्रम् रम्यम् वम्शैः च यामुनैः । स पन्थाः चित्रकूटस्य गतः सु बहुशस् मया ॥२॥
palāśa-badarī-miśram ramyam vamśaiḥ ca yāmunaiḥ . sa panthāḥ citrakūṭasya gataḥ su bahuśas mayā ..2..
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः । इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥
रम्ये मार्दव-युक्तः च वन-दावैः विपर्जितः । इति पन्थानम् आवेद्य महा-ऋषः स न्यवर्तत ॥२॥
ramye mārdava-yuktaḥ ca vana-dāvaiḥ viparjitaḥ . iti panthānam āvedya mahā-ṛṣaḥ sa nyavartata ..2..
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः । उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥
अभिवाद्य तथा इति उक्त्वा रामेण विनिवर्तितः । उपावृत्ते मुनौ तस्मिन् रामः लक्ष्मणम् अब्रवीत् ॥२॥
abhivādya tathā iti uktvā rāmeṇa vinivartitaḥ . upāvṛtte munau tasmin rāmaḥ lakṣmaṇam abravīt ..2..
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते । इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥
कृत-पुण्याः स्म सौमित्रे मुनिः यत् नः अनुकम्पते । इति तौ पुरुष-व्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२॥
kṛta-puṇyāḥ sma saumitre muniḥ yat naḥ anukampate . iti tau puruṣa-vyāghrau mantrayitvā manasvinau ..2..
सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् । अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥
सीताम् एव अग्रतस् कृत्वा कालिन्दीम् जग्मतुः नदीम् । अथा सा अद्य तु कालिन्दीम् शीघ्र-स्रोतः-वहाम् नदीम् ॥२॥
sītām eva agratas kṛtvā kālindīm jagmatuḥ nadīm . athā sā adya tu kālindīm śīghra-srotaḥ-vahām nadīm ..2..
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥
तौ काष्ठ-सम्घातम् अथो चक्रतुः तु महा-प्लवम् ॥२॥
tau kāṣṭha-samghātam atho cakratuḥ tu mahā-plavam ..2..
शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् । ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥
शुष्कैः वम्शैः समास्तीर्णम् उलीरैः च समावृतम् । ततस् वेतस-शाखाः च जम्बू-शाखाः च वीर्यवान् ॥२॥
śuṣkaiḥ vamśaiḥ samāstīrṇam ulīraiḥ ca samāvṛtam . tatas vetasa-śākhāḥ ca jambū-śākhāḥ ca vīryavān ..2..
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् । तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥
चकार लक्ष्मणः छित्वा सीतायाः सुखम् आसनम् । तत्र श्रियम् इव अचिन्त्याम् रामः दाशरथिः प्रियाम् ॥२॥
cakāra lakṣmaṇaḥ chitvā sītāyāḥ sukham āsanam . tatra śriyam iva acintyām rāmaḥ dāśarathiḥ priyām ..2..
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् । पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥
प्लवम् । पार्श्वे च तत्र वैदेह्याः वसने चूष्णानि च ॥२॥
plavam . pārśve ca tatra vaidehyāḥ vasane cūṣṇāni ca ..2..
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः । आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥
प्लवे कठिन-काजम् च रामः चक्रे सह आयुधैः । आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२॥
plave kaṭhina-kājam ca rāmaḥ cakre saha āyudhaiḥ . āropya prathamam sītām samghāṭam pratigṛhya tau ..2..
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ । काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥
ततस् तौ वीरौ दशरथ-आत्मजौ । कालिन्दी-मध्यम् आयाता सीता तु एनाम् अवन्दत ॥२॥
tatas tau vīrau daśaratha-ātmajau . kālindī-madhyam āyātā sītā tu enām avandata ..2..
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् । यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥
स्वस्ति देवि तरामि त्वाम् पार्येत् मे पतिर्वतम् । यक्ष्ये त्वाम् गो-नहस्रेण सुरा-घट-शतेन च ॥२॥
svasti devi tarāmi tvām pāryet me patirvatam . yakṣye tvām go-nahasreṇa surā-ghaṭa-śatena ca ..2..
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् । काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥
स्वस्ति प्रत्यागते रामे पुरीम् इक्ष्वाकु-पालिताम् । कालिन्दीम् अथ सीता तु याचमाना कृताञ्जलिः ॥२॥
svasti pratyāgate rāme purīm ikṣvāku-pālitām . kālindīm atha sītā tu yācamānā kṛtāñjaliḥ ..2..
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी । ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥
तीरम् एव अभिसम्प्राप्ता दक्षिणम् वरवर्णिनी । ततस् प्लवेन अम्शुमतीम् शीघ्र-गाम् ऊर्मिमालिनीम् ॥२॥
tīram eva abhisamprāptā dakṣiṇam varavarṇinī . tatas plavena amśumatīm śīghra-gām ūrmimālinīm ..2..
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् । ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥
तीर-जैः बहुभिः वृक्षैः सम्तेरुः यमुनाम् नदीम् । ते तीर्णाः प्लवम् उत्सृज्य प्रस्थाय यमुना-वनात् ॥२॥
tīra-jaiḥ bahubhiḥ vṛkṣaiḥ samteruḥ yamunām nadīm . te tīrṇāḥ plavam utsṛjya prasthāya yamunā-vanāt ..2..
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् । न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥
श्यामम् न्यग्रोधम् आसेदुः शीतलम् हरितच्छदम् । न्य्ग्रोधम् तम् उपागम्य वैदेहि वाक्यम् अब्रवीत् ॥२॥
śyāmam nyagrodham āseduḥ śītalam haritacchadam . nygrodham tam upāgamya vaidehi vākyam abravīt ..2..
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् । कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥
नमः ते अन्तु महा-वृक्ष पारयेत् मे पतिः वतम् । कौसल्याम् च एव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२॥
namaḥ te antu mahā-vṛkṣa pārayet me patiḥ vatam . kausalyām ca eva paśyeyam sumitrām ca yaśasvinīm ..2..
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् । अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥
इति सीता अञ्जलिम् कृत्वा पर्यगच्छत् वनस्पतिम् । अवलोक्य ततस् सीताम् आयाचन्तीम् अनिन्दिताम् ॥२॥
iti sītā añjalim kṛtvā paryagacchat vanaspatim . avalokya tatas sītām āyācantīm aninditām ..2..
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् । सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥
दयिताम् च विधेयम् च रामः लक्ष्मणम् अब्रवीत् । सीताम् आदाय गच्छ त्वम् अग्रतस् भरत-अनुज ॥२॥
dayitām ca vidheyam ca rāmaḥ lakṣmaṇam abravīt . sītām ādāya gaccha tvam agratas bharata-anuja ..2..
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर । यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥
पृष्ठतस् अहम् गमिष्यामि स आयुधः द्विपदाम् वर । यत् यत् फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२॥
pṛṣṭhatas aham gamiṣyāmi sa āyudhaḥ dvipadām vara . yat yat phalam prārthayate puṣpam vā janakātmajā ..2..
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः । गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥
तत् तत् प्रदद्याः वैदेह्याः यत्र अस्य रमते मनः । गच्चतोः तु तयोः मध्ये बभूव जनकात्मजा ॥२॥
tat tat pradadyāḥ vaidehyāḥ yatra asya ramate manaḥ . gaccatoḥ tu tayoḥ madhye babhūva janakātmajā ..2..
मातङ्गयोर्मद्यगता शुभा नागवधूरिव । एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥
मातङ्गयोः मद्य-गता शुभा नाग-वधूः इव । एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२॥
mātaṅgayoḥ madya-gatā śubhā nāga-vadhūḥ iva . ekaikam pādapam gulmam latām vā puṣpaśālinīm ..2..
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला । रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥
अ दृष्ट-पूर्वाम् पश्यन्ती रामम् पप्रच्छ सा अबला । रमणीयान् बहुविधान् पादपान् कुसुम-उत्कटान् ॥२॥
a dṛṣṭa-pūrvām paśyantī rāmam papraccha sā abalā . ramaṇīyān bahuvidhān pādapān kusuma-utkaṭān ..2..
सीतावचनसम्रब्द अनयामास लक्स्मणः । विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥
सीता-वचन-सम्रब्द अनयामास लक्स्मणः । विचित्र-वालुक-जलाम् हस-सारस-नादिताम् ॥२॥
sītā-vacana-samrabda anayāmāsa laksmaṇaḥ . vicitra-vāluka-jalām hasa-sārasa-nāditām ..2..
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् । क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥
रेमे जनक-राजस्य तदा प्रेक्ष्य सुताः नदीम् । क्रोश-मात्रम् ततस् गत्वा भ्रातरौ राम-लक्ष्मनौ ॥२॥
reme janaka-rājasya tadā prekṣya sutāḥ nadīm . krośa-mātram tatas gatvā bhrātarau rāma-lakṣmanau ..2..
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने । विहृत्य ते बर्हिणपूगनादिते । शुभे वने वानरवारणायुते । समम् नदीवप्रमुपेत्य सम्मतम् । निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥
बहून् मेध्यान् मृगान् हत्वा चेरतुः यमुना-वने । विहृत्य ते बर्हिण-पूग-नादिते । शुभे वने वानर-वारण-आयुते । समम् नदी-वप्रम् उपेत्य सम्मतम् । निवासम् आजग्मुः रदीन-दर्शनाः ॥२॥
bahūn medhyān mṛgān hatvā ceratuḥ yamunā-vane . vihṛtya te barhiṇa-pūga-nādite . śubhe vane vānara-vāraṇa-āyute . samam nadī-vapram upetya sammatam . nivāsam ājagmuḥ radīna-darśanāḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-५५॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe pañcapañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In