This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षट्पञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaṭpañcāśaḥ sargaḥ ..2..
अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् । प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥
अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् । प्रबोधयाम् आस शनैस् लक्ष्मणम् रघु-नन्दनः ॥२॥
atha rātryām vyatītāyām avasuptam anantaram . prabodhayām āsa śanais lakṣmaṇam raghu-nandanaḥ ..2..
सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥
सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२॥
saumitre śṛṇu vanyānām valgu vyāharatām svanam . sampratiṣṭhāmahe kālaḥ prasthānasya param tapa ..2..
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२॥
sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ . jahau nidrām ca tandrīm ca prasaktam ca pathi śramam ..2..
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् । पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् । पन्थानम् ऋषिणा उद्दिष्टम् चित्रकूटस्य तम् ययुः ॥२॥
tatautthāya te sarve spṛṣṭvā nadyāḥ śivam jalam . panthānam ṛṣiṇā uddiṣṭam citrakūṭasya tam yayuḥ ..2..
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥
ततस् सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीताम् कमल-पत्र-अक्षीम् इदम् वचनम् अब्रवीत् ॥२॥
tatas samprasthitaḥ kāle rāmaḥ saumitriṇā saha . sītām kamala-patra-akṣīm idam vacanam abravīt ..2..
आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् । स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥
आदीप्तान् इव वैदेहि सर्वतस् पुष्पितान् नगान् । स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर-अत्यये ॥२॥
ādīptān iva vaidehi sarvatas puṣpitān nagān . svaiḥ puṣpaiḥ kimśukān paśya mālinaḥ śiśira-atyaye ..2..
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फल-पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२॥
paśya bhallātakān phullān naraiḥ anupasevitān . phala-patraiḥ avanatān nūnam śakṣyāmi jīvitum ..2..
पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥
पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधु-कारीभिः सम्भृतानि नगे नगे ॥२॥
paśya droṇa pramāṇāni lambamānāni lakṣmaṇa . madhūni madhu-kārībhiḥ sambhṛtāni nage nage ..2..
एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति । रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥
एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति । रमणीये वन-उद्देशे पुष्प-सम्स्तर-सम्कटे ॥२॥
eṣa krośati natyūhaḥ tam śikhī pratikūjati . ramaṇīye vana-uddeśe puṣpa-samstara-samkaṭe ..2..
मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् । चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥
मातम्ग-यूथ-अनुसृतम् पक्षि-सम्घ-अनुनादितम् । चित्र-कूटम् इमम् पश्य प्रवृद्ध-शिखरम् गिरिम् ॥२॥
mātamga-yūtha-anusṛtam pakṣi-samgha-anunāditam . citra-kūṭam imam paśya pravṛddha-śikharam girim ..2..
समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥
सम-भूमि-तले रम्ये द्रुमैः बहुभिः आवृते । पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२॥
sama-bhūmi-tale ramye drumaiḥ bahubhiḥ āvṛte . puṇye ramsyāmahe tāta citrakūṭasya kānane ..2..
ततः तौ पाद चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥
ततः तौ पाद-चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र-कूटम् मनोरमम् ॥२॥
tataḥ tau pāda-cāreṇa gaccantau saha sītayā . ramyam āsedatuḥ śailam citra-kūṭam manoramam ..2..
तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् । बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥
तम् तु पर्वतम् आसाद्य नाना पक्षि-गण-आयुतम् । बहु-मूलफलम् रम्यम् सम्पन्नम् सरसा उदकम् ॥२॥
tam tu parvatam āsādya nānā pakṣi-gaṇa-āyutam . bahu-mūlaphalam ramyam sampannam sarasā udakam ..2..
मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥
मनोज्ज्नः अयम् तिरिः सौम्य नाना द्रुमलतायतह् । बहु-मूल-फलः रम्यः सु आजीवः प्रतिभाति मे ॥२॥
manojjnaḥ ayam tiriḥ saumya nānā drumalatāyatah . bahu-mūla-phalaḥ ramyaḥ su ājīvaḥ pratibhāti me ..2..
मनयश्च महात्मानो वसन्त्य शिलोच्चये । अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥
मनयः च महात्मानः शिलोच्चये । अयम् वासः भवेत् तावत् अत्र सौम्य रमेमहि ॥२॥
manayaḥ ca mahātmānaḥ śiloccaye . ayam vāsaḥ bhavet tāvat atra saumya ramemahi ..2..
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥
इति सीता च रामः च लक्ष्मणः च कृताञ्जलिः । अभिगम्य आश्रमम् सर्वे वाल्मीकिम् अभिवादयन् ॥२॥
iti sītā ca rāmaḥ ca lakṣmaṇaḥ ca kṛtāñjaliḥ . abhigamya āśramam sarve vālmīkim abhivādayan ..2..
तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥
तान् महा-ऋषिः प्रमुदितः पूजयामास धर्म-विद् । आस्यताम् इति च उवाच स्वागतम् तु निवेद्य च ॥२॥
tān mahā-ṛṣiḥ pramuditaḥ pūjayāmāsa dharma-vid . āsyatām iti ca uvāca svāgatam tu nivedya ca ..2..
ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः । सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥
ततस् अब्रवीत् महा-बाहुः लकमणम् लक्ष्मण-अग्रजः । सम्निवेद्य यथान्यायम् मा आत्मानम् ऋष्ये प्रभुः ॥२॥
tatas abravīt mahā-bāhuḥ lakamaṇam lakṣmaṇa-agrajaḥ . samnivedya yathānyāyam mā ātmānam ṛṣye prabhuḥ ..2..
लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥
लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२॥
lakṣmaṇa ānaya dārūṇi dṛḍhāni ca varāṇi ca . kuruṣva āvasatham saumya vāse me abhiratam manaḥ ..2..
तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् । आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥
तस्य तत् वचनम् श्रुत्वा सौमित्रिः विविधान् द्रुमान् । आजहार ततस् चक्रे पर्ण-शालाम् अरिम् दम ॥२॥
tasya tat vacanam śrutvā saumitriḥ vividhān drumān . ājahāra tatas cakre parṇa-śālām arim dama ..2..
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक-अग्रम् इदम् वचनम् अब्रवीत् ॥२॥
tām niṣṭhatām baddhakaṭām dṛṣṭvā ramaḥ sudarśanām . śuśrūṣamāṇam eka-agram idam vacanam abravīt ..2..
ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥
ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२॥
aiṇeyam māmsam āhṛtya śālām yakṣyāmahe vayam . kartvyam vāstuśamanam saumitre cirajīvabhiḥ ..2..
मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥
मृगम् हत्वा आनय क्षिप्रम् लक्ष्मण इह शुभ-ईक्षण-कर्तव्यः शास्त्र-दृष्टः हि विधिः दर्मम् अनुस्मर ॥२॥
mṛgam hatvā ānaya kṣipram lakṣmaṇa iha śubha-īkṣaṇa-kartavyaḥ śāstra-dṛṣṭaḥ hi vidhiḥ darmam anusmara ..2..
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥
भ्रातुः वचन मा आज्ञाय लक्ष्मणः पर-वीर-हा । चकार स यथोक्तम् च तम् रामः पुनर् अब्रवीत् ॥२॥
bhrātuḥ vacana mā ājñāya lakṣmaṇaḥ para-vīra-hā . cakāra sa yathoktam ca tam rāmaḥ punar abravīt ..2..
इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥
इणा इयम् श्रपयस्व एतत् चालाम् यक्ष्यमहे वयम् । त्वर सौम्य मुहूर्तः अयम् ध्रुवः च दिवसः अपि अयम् ॥२॥
iṇā iyam śrapayasva etat cālām yakṣyamahe vayam . tvara saumya muhūrtaḥ ayam dhruvaḥ ca divasaḥ api ayam ..2..
स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥
स लक्ष्मणः कृष्ण-मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२॥
sa lakṣmaṇaḥ kṛṣṇa-mṛgam hatvā medhyam patāpavān . atha cikṣepa saumitriḥ samiddhe jāta vedasi ..2..
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् । लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न-शोणितम् । लक्ष्मणः पुरुष-व्याघ्रम् अथ राघवम् अब्रवीत् ॥२॥
tam tu pakvam samājñāya niṣṭaptam cinna-śoṇitam . lakṣmaṇaḥ puruṣa-vyāghram atha rāghavam abravīt ..2..
अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा । देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥
अयम् कृष्णः समाप्त-अन्गः शृतः कृष्ण-मृगः यथा । देवता देव-सम्काश यजस्व कुशलः हि असि ॥२॥
ayam kṛṣṇaḥ samāpta-angaḥ śṛtaḥ kṛṣṇa-mṛgaḥ yathā . devatā deva-samkāśa yajasva kuśalaḥ hi asi ..2..
रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः । सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-२९॥
रामः स्नात्वा तु नियतः गुणवान् जप्य-कोविदः । सम्ग्रहेण अकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ॥२॥
rāmaḥ snātvā tu niyataḥ guṇavān japya-kovidaḥ . samgraheṇa akarot sarvān mantrān satrāvasānikān ..2..
इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥
इष्ट्वा देव-गणान् सर्वान् विवेश आवसथम् शुचिः । बभूव च मनः-ह्लादः रामस्य अमित-तेजसः ॥२॥
iṣṭvā deva-gaṇān sarvān viveśa āvasatham śuciḥ . babhūva ca manaḥ-hlādaḥ rāmasya amita-tejasaḥ ..2..
वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च । वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥
वैश्वदेव-बलिम् कृत्वा रौद्रम् वैष्णवम् एव च । वास्तु-सम्शमनीयानि मङ्गलानि प्रवर्तयन् ॥२॥
vaiśvadeva-balim kṛtvā raudram vaiṣṇavam eva ca . vāstu-samśamanīyāni maṅgalāni pravartayan ..2..
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप-सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२॥
japam ca nyāyataḥ kṛtvā snātvā nadyām yathāvidhi . pāpa-samśamanam rāmaḥ cakāra balim uttamam ..2..
वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥
वेदि-स्थल-विधानानि चैत्यानि आयतनानि च । आश्रमस्य अनुरूपाणि स्थापयामास राघवः ॥२॥
vedi-sthala-vidhānāni caityāni āyatanāni ca . āśramasya anurūpāṇi sthāpayāmāsa rāghavaḥ ..2..
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि । अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥
वन्यैः माल्यैः फलैः मूलैः पक्वैः माम्सैः यथाविधि । अद्भर्जपैः च वेद-उक्तैः धर्भैः च स समिध्-कुशैः ॥२॥
vanyaiḥ mālyaiḥ phalaiḥ mūlaiḥ pakvaiḥ māmsaiḥ yathāvidhi . adbharjapaiḥ ca veda-uktaiḥ dharbhaiḥ ca sa samidh-kuśaiḥ ..2..
तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥
तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२॥
tau tarpayitvā bhūtāni rāghavau saha sītayā . tadā viviśatuḥ śālām suśubhām śubhalakṣaṇau ..2..
ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥
ताम् वृक्ष-पर्णत्-चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव-गणाः सुधर्माम् ॥२॥
tām vṛkṣa-parṇat-cadanām manojñām . yathā pradeśam sukṛtām nivātām . vāsāya sarve viviśuḥ sametāḥ . sabhām yathā deva-gaṇāḥ sudharmām ..2..
अनेक नाना मृग पक्षि सम्कुले । विचित्र पुष्प स्तबलैः द्रुमैः युते । वन उत्तमे व्याल मृग अनुनादिते । तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥
अनेक-नाना मृग-पक्षि-सम्कुले । विचित्र-पुष्प-स्तबलैः द्रुमैः युते । वन-उत्तमे व्याल-मृग-अनुनादिते । तथा विजह्रुः सुसुखम् जित-इन्द्रियाः ॥२॥
aneka-nānā mṛga-pakṣi-samkule . vicitra-puṣpa-stabalaiḥ drumaiḥ yute . vana-uttame vyāla-mṛga-anunādite . tathā vijahruḥ susukham jita-indriyāḥ ..2..
सुरम्यम् आसाद्य तु चित्र कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग पक्षि जुष्टाम् । जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥
सुरम्यम् आसाद्य तु चित्र-कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग-पक्षि-जुष्टाम् । जहौ च दुह्खम् पुर-विप्रवासात् ॥२॥
suramyam āsādya tu citra-kūṭam . nadīm ca tām mālyavatīm sutīrthām . nananda hṛṣṭaḥ mṛga-pakṣi-juṣṭām . jahau ca duhkham pura-vipravāsāt ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-५६॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ṣaṭpañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In