This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तपञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptapañcāśaḥ sargaḥ ..2..
कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह । रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥
कथयित्वा सुदुह्ख-आर्तः सुमन्त्रेण चिरम् सह । रामे दक्षिण-कूलस्थे जगाम स्व-गृहम् गुहः ॥२॥
kathayitvā suduhkha-ārtaḥ sumantreṇa ciram saha . rāme dakṣiṇa-kūlasthe jagāma sva-gṛham guhaḥ ..2..
भरद्वाजाभिगमनम् प्रयागे च सहासनम् । आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥
भरद्वाज-अभिगमनम् प्रयागे च सहासनम् । आगिरेः गमनम् तेषाम् तत्रस्थैः अभिलक्षितम् ॥२॥
bharadvāja-abhigamanam prayāge ca sahāsanam . āgireḥ gamanam teṣām tatrasthaiḥ abhilakṣitam ..2..
अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् । अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥
अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय-उत्तमान् । अयोध्याम् एव नगरीम् प्रययौ गाढ-दुर्मनाः ॥२॥
anujñātaḥ sumantraḥ atha yojayitvā haya-uttamān . ayodhyām eva nagarīm prayayau gāḍha-durmanāḥ ..2..
स वनानि सुगन्धीनि सरितः च सराम्सि च । पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥
स वनानि सुगन्धीनि सरितः च सराम्सि च । पश्यन् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२॥
sa vanāni sugandhīni saritaḥ ca sarāmsi ca . paśyan atiyayau śīghram grāmāṇi nagarāṇi ca ..2..
ततः साय अह्न समये तृतीये अहनि सारथिः । अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥
ततस् साय-अह्न-समये तृतीये अहनि सारथिः । अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२॥
tatas sāya-ahna-samaye tṛtīye ahani sārathiḥ . ayodhyām samanuprāpya nirānandām dadarśa ha ..2..
स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः । सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥
स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम-दुर्मनाः । सुमन्त्रः चिन्तयाम् आस शोक-वेग-समाहतः ॥२॥
sa śūnyām iva nihśabdām dṛṣṭvā parama-durmanāḥ . sumantraḥ cintayām āsa śoka-vega-samāhataḥ ..2..
कच्चिन् न सगजा साश्वा सजना सजन अधिपा । राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥
कच्चित् न स गजा स अश्वा स जना स जन-अधिपा । राम-सम्ताप-दुह्खेन दग्धा शोक-अग्निना पुरी ॥२॥
kaccit na sa gajā sa aśvā sa janā sa jana-adhipā . rāma-samtāpa-duhkhena dagdhā śoka-agninā purī ..2..
इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः । नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥
इति चिन्ता-परः सूतः वाजिभिः श्रीघ्रपातिभिः । नगर-द्वारम् आसाद्य त्वरितः प्रविवेश ह ॥२॥
iti cintā-paraḥ sūtaḥ vājibhiḥ śrīghrapātibhiḥ . nagara-dvāram āsādya tvaritaḥ praviveśa ha ..2..
सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः । क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥
सुमन्त्रम् अभियान्तम् तम् शतशस् अथ सहस्रशस् । क्व राम एति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२॥
sumantram abhiyāntam tam śataśas atha sahasraśas . kva rāma eti pṛccantaḥ sūtam abhyadravan narāḥ ..2..
तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् । अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥
तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् । अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२॥
teṣām śaśamsa gaṅgāyām aham āpṛccya rāghavam . anujñātaḥ nivṛttaḥ asmi dhārmikeṇa mahātmanā ..2..
ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः । अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥
ते तीर्णाइति विज्ञाय बाष्प-पूर्ण-मुखाः जनाः । अहो धिक् इति निश्श्वस्य हा रामः इति च चुक्रुशुः ॥२॥
te tīrṇāiti vijñāya bāṣpa-pūrṇa-mukhāḥ janāḥ . aho dhik iti niśśvasya hā rāmaḥ iti ca cukruśuḥ ..2..
शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् । हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥
शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् । हताः स्म खलु ये नः इह पश्याम एति राघवम् ॥२॥
śuśrāva ca vacaḥ teṣām bṛndam bṛndam ca tiṣṭhatām . hatāḥ sma khalu ye naḥ iha paśyāma eti rāghavam ..2..
दान यज्ञ विवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥
दान-यज्ञ-विवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२॥
dāna-yajña-vivāheṣu samājeṣu mahatsu ca . na drakṣyāmaḥ punar jātu dhārmikam rāmam antarā ..2..
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् । इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख-आवहम् । इति रामेण नगरम् पितृ-वत् परिपालितम् ॥२॥
kim samartham janasya asya kim priyam kim sukha-āvaham . iti rāmeṇa nagaram pitṛ-vat paripālitam ..2..
वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् । राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥
वात-अयन-गतानाम् च स्त्रीणाम् अन्वन्तर-आपणम् । राम-शोक-अभितप्तानाम् शुश्राव परिदेवनम् ॥२॥
vāta-ayana-gatānām ca strīṇām anvantara-āpaṇam . rāma-śoka-abhitaptānām śuśrāva paridevanam ..2..
स राज मार्ग मध्येन सुमन्त्रः पिहित आननः । यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥
स राज-मार्ग-मध्येन सुमन्त्रः पिहित-आननः । यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२॥
sa rāja-mārga-madhyena sumantraḥ pihita-ānanaḥ . yatra rājā daśarathaḥ tat eva upayayau gṛham ..2..
सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च । कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥
सः अवतीर्य रथात् शीघ्रम् राज-वेश्म प्रविश्य च । कक्ष्याः सप्त अभिचक्राम महा-जन-समाकुलाः ॥२॥
saḥ avatīrya rathāt śīghram rāja-veśma praviśya ca . kakṣyāḥ sapta abhicakrāma mahā-jana-samākulāḥ ..2..
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य अथ समागतम् । हाहाकार-कृताः नार्यः राम-दर्शन-कर्शिताः ॥२॥
harmyaiḥ vimānaiḥ prāsādaiḥ avekṣya atha samāgatam . hāhākāra-kṛtāḥ nāryaḥ rāma-darśana-karśitāḥ ..2..
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥
आयतैः विमलैः नेत्रैः अश्रु-वेग-परिप्लुतैः । अन्योन्यम् अभिवीक्षन्ते अव्यक्तम् आर्ततराः ॥२॥
āyataiḥ vimalaiḥ netraiḥ aśru-vega-pariplutaiḥ . anyonyam abhivīkṣante avyaktam ārtatarāḥ ..2..
ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः । राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥
ततस् दशरथ-स्त्रीणाम् प्रासादेभ्यः ततस् ततस् । राम-शोक-अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२॥
tatas daśaratha-strīṇām prāsādebhyaḥ tatas tatas . rāma-śoka-abhitaptānām mandam śuśrāva jalpitam ..2..
सह रामेण निर्यातः विना रामम् इह आगतः । सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥
सह रामेण निर्यातः विना रामम् इह आगतः । सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२॥
saha rāmeṇa niryātaḥ vinā rāmam iha āgataḥ . sūtaḥ kim nāma kausalyām śocantīm prati vakṣyati ..2..
यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् । आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥
यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् । आच्चिद्य-पुत्रे निर्याते कौसल्या यत्र जीवति ॥२॥
yathā ca manye durjīvam evam na sukaram dhruvam . āccidya-putre niryāte kausalyā yatra jīvati ..2..
सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् । प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥
सत्य-रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् । प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२॥
satya-rūpam tu tat vākyam rājñaḥ strīṇām niśāmayan . pradīptam iva śokena viveśa sahasā gṛham ..2..
स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् । पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥
स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् । पुत्र-शोक-परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२॥
sa praviśya aṣṭamīm kakṣyām rājānam dīnam ātulam . putra-śoka-parimlānam apaśyat pāṇḍure gṛhe ..2..
अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च । सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥
अभिगम्य तम् आसीनम् नर-इन्द्रम् अभिवाद्य च । सुमन्त्रः राम-वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२॥
abhigamya tam āsīnam nara-indram abhivādya ca . sumantraḥ rāma-vacanam yathā uktam pratyavedayat ..2..
स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः । मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥
स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त-चेतनः । मूर्चितः न्यपतत् भूमौ राम-शोक-अभिपीडितः ॥२॥
sa tūṣṇīm eva tat śrutvā rājā vibhrānta-cetanaḥ . mūrcitaḥ nyapatat bhūmau rāma-śoka-abhipīḍitaḥ ..2..
ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥
ततस् अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी-पतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२॥
tatas antaḥ puram āviddham mūrcite pṛthivī-patau . uddhṛtya bāhū cukrośa nṛpatau patite kṣitau ..2..
सुमित्रया तु सहिता कौसल्या पतितम् पतिम् । उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥
सुमित्रया तु सहिता कौसल्या पतितम् पतिम् । उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२॥
sumitrayā tu sahitā kausalyā patitam patim . utthāpayām āsa tadā vacanam ca idam abravīt ..2..
इमम् तस्य महा भाग दूतम् दुष्कर कारिणः । वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥
इमम् तस्य महा-भाग दूतम् दुष्कर-कारिणः । वन-वासात् अनुप्राप्तम् कस्मात् न प्रतिभाषसे ॥२॥
imam tasya mahā-bhāga dūtam duṣkara-kāriṇaḥ . vana-vāsāt anuprāptam kasmāt na pratibhāṣase ..2..
अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥
अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहाय-ता ॥२॥
adya imam anayam kṛtvā vyapatrapasi rāghava . uttiṣṭha sukṛtam te astu śoke na syāt sahāya-tā ..2..
देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् । न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥
देव यस्याः भयात् रामम् न अनुपृच्चसि सारथिम् । न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२॥
deva yasyāḥ bhayāt rāmam na anupṛccasi sārathim . na iha tiṣṭhati kaikeyī viśrabdham pratibhāṣyatām ..2..
सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा । धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥
सा तथा उक्त्वा महा-राजम् कौसल्या शोक-लालसा । धरण्याम् निपपात आशु-बाष्प-विप्लुत-भाषिणी ॥२॥
sā tathā uktvā mahā-rājam kausalyā śoka-lālasā . dharaṇyām nipapāta āśu-bāṣpa-vipluta-bhāṣiṇī ..2..
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि । पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि । पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२॥
evam vilapatīm dṛṣṭvā kausalyām patitām bhuvi . patim ca avekṣya tāḥ sarvāḥ susvaram ruruduḥ striyaḥ ..2..
ततः तम् अन्तः पुर नादम् उत्थितम् । समीक्ष्य वृद्धाः तरुणाः च मानवाः । स्त्रियः च सर्वा रुरुदुः समन्ततः । पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥
ततस् तम् अन्तः पुर-नादम् उत्थितम् । समीक्ष्य वृद्धाः तरुणाः च मानवाः । स्त्रियः च सर्वा रुरुदुः समन्ततः । पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२॥
tatas tam antaḥ pura-nādam utthitam . samīkṣya vṛddhāḥ taruṇāḥ ca mānavāḥ . striyaḥ ca sarvā ruruduḥ samantataḥ . puram tadā āsīt punar eva samkulam ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe saptapañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In