This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टपञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭapañcāśaḥ sargaḥ ..2..
प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः । थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥
प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनर् । थाजुहाव तम् सूतम् राम-वृत्त-अन्त-कारणात् ॥२॥
pratyāśvastaḥ yadā rājā mohāt pratyāgataḥ punar . thājuhāva tam sūtam rāma-vṛtta-anta-kāraṇāt ..2..
तदा सूतो महाराज कृताञ्जलिरुपस्थितः। राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥
तदा सूतः महा-राज कृताञ्जलिः उपस्थितः। रामम् एव अनुशोचन्तम् दुःख-शोक-समन्वितम् ॥२॥
tadā sūtaḥ mahā-rāja kṛtāñjaliḥ upasthitaḥ. rāmam eva anuśocantam duḥkha-śoka-samanvitam ..2..
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् । विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥
वृद्धम् परम-सम्तप्तम् नव-ग्रहम् इव द्विपम् । विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२॥
vṛddham parama-samtaptam nava-graham iva dvipam . viniḥśvasantam dhyāyantam asvastham iva kunjaram ..2..
राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् । अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥
राजा तु रजसा सूतम् ध्वस्त-अङ्गम् समुपस्थितम् । अश्रु-पूर्ण-मुखम् दीनम् उवाच परम-आर्तवत् ॥२॥
rājā tu rajasā sūtam dhvasta-aṅgam samupasthitam . aśru-pūrṇa-mukham dīnam uvāca parama-ārtavat ..2..
क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः । सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥
क्व नु वत्स्यति धर्म-आत्मा वृक्ष-मूलम् उपाश्रितः । सः अत्यन्त-सुखितः सूत किम् अशिष्यति राघवः ॥२॥
kva nu vatsyati dharma-ātmā vṛkṣa-mūlam upāśritaḥ . saḥ atyanta-sukhitaḥ sūta kim aśiṣyati rāghavaḥ ..2..
दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः । भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥
दुःखस्य अनुचितः दुःखम् सुमन्त्र शयन-उचितः । भूमि-पालः आत्मजः भूमौ शेते कथम् अनाथ-वत् ॥२॥
duḥkhasya anucitaḥ duḥkham sumantra śayana-ucitaḥ . bhūmi-pālaḥ ātmajaḥ bhūmau śete katham anātha-vat ..2..
यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः । स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥
यम् यान्तम् अनुयान्ति स्म पदाति-रथ-कुण्ज्जराः । स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२॥
yam yāntam anuyānti sma padāti-ratha-kuṇjjarāḥ . sa vatsyati katham rāmaḥ vijanam vanam āśritaḥ ..2..
व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् । कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥
व्यालैः मृगैः आचरितम् कृष्ण-सर्प-निषेवितम् । कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२॥
vyālaiḥ mṛgaiḥ ācaritam kṛṣṇa-sarpa-niṣevitam . katham kumārau vaidehyā sārdham vanam upasthitau ..2..
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राज-पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२॥
sukumāryā tapasvinyā sumantra saha sītayā . rāja-putrau katham pādaiḥ avaruhya rathāt gatau ..2..
सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ । वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥
सिद्ध-अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ । वन-अन्तम् प्रविशन्तौ तौ अश्विनौ इव मन्दरम् ॥२॥
siddha-arthaḥ khalu sūta tvam yena dṛṣṭau mama ātmajau . vana-antam praviśantau tau aśvinau iva mandaram ..2..
किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः । सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥
किम् उवाच वचः रामः किम् उवाच च लक्ष्मणः । सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२॥
kim uvāca vacaḥ rāmaḥ kim uvāca ca lakṣmaṇaḥ . sumantra vanam āsādya kim uvāca ca maithilī ..2..
आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥
आसितम् शयितम् भुक्तम् सूत-रामस्य कीर्तय । जीविष्यामि अहम् एतेन ययातिः इव साधुषु ॥२॥
āsitam śayitam bhuktam sūta-rāmasya kīrtaya . jīviṣyāmi aham etena yayātiḥ iva sādhuṣu ..2..
इति सूतः नर इन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥
इति सूतः नर-इन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानम् स बाष्प-परिर्बद्धया ॥२॥
iti sūtaḥ nara-indreṇa coditaḥ sajjamānayā . uvāca vācā rājānam sa bāṣpa-parirbaddhayā ..2..
अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् । अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥
अब्रवीत् माम् महा-राज धर्मम् एव अनुपालयन् । अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२॥
abravīt mām mahā-rāja dharmam eva anupālayan . anjalim rāghavaḥ kṛtvā śirasā abhipraṇamya ca ..2..
सूत मद्वचनात् तस्य तातस्य विदित आत्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥
सूत मद्-वचनात् तस्य तातस्य विदितः आत्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२॥
sūta mad-vacanāt tasya tātasya viditaḥ ātmanaḥ . śirasā vandanīyasya vandyau pādau mahātmanaḥ ..2..
सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया । आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥
सर्वम् अन्तर् पुरम् वाच्यम् सूत मद्-वचनात् त्वया । आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२॥
sarvam antar puram vācyam sūta mad-vacanāt tvayā . ārogyam aviśeṣeṇa yathā arham ca abhivādanam ..2..
माता च मम कौसल्या कुशलम् च अभिवादनम् । अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥
माता च मम कौसल्या कुशलम् च अभिवादनम् । अप्रमादम् च वक्तव्या ब्रूयाः चैमि इदम् वचः ॥२॥
mātā ca mama kausalyā kuśalam ca abhivādanam . apramādam ca vaktavyā brūyāḥ caimi idam vacaḥ ..2..
धर्मनित्या यथाकालमग्न्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥
धर्म-नित्या यथाकालम् अग्न्यगार-परा भव । देवि देवस्य पादौ च देव-वत् परिपालय ॥२॥
dharma-nityā yathākālam agnyagāra-parā bhava . devi devasya pādau ca deva-vat paripālaya ..2..
अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु । अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥
अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु । अनु च कैकेयीम् अम्ब कारय ॥२॥
abhimānam ca mānam ca tyaktvā vartasva mātṛṣu . anu ca kaikeyīm amba kāraya ..2..
कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥
कुमारे भरते वृत्तिः वर्तितव्या च राज-वत् । अर्थ-ज्येष्ठाः हि राजानः राज-धर्मम् अनुस्मर ॥२॥
kumāre bharate vṛttiḥ vartitavyā ca rāja-vat . artha-jyeṣṭhāḥ hi rājānaḥ rāja-dharmam anusmara ..2..
भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च । सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥
भरतः कुशलम् वाच्यः वाच्यः मद्-वचनेन च । सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२॥
bharataḥ kuśalam vācyaḥ vācyaḥ mad-vacanena ca . sarvāsva eva yathā nyāyam vṛttim vartasva mātṛṣu ..2..
वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः । पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥
वक्तव्यः च महा-बाहुः इक्ष्वाकु-कुल-नन्दनः । पितरम् यौवराज्य-स्थः राज्य-स्थम् अनुपालय ॥२॥
vaktavyaḥ ca mahā-bāhuḥ ikṣvāku-kula-nandanaḥ . pitaram yauvarājya-sthaḥ rājya-stham anupālaya ..2..
अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः । कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥
अतिक्रान्त-वयाः राजा मा अस्मै एनम् व्यवरोरुधः । कुमार-राज्ये जीव त्वम् ॥२॥
atikrānta-vayāḥ rājā mā asmai enam vyavarorudhaḥ . kumāra-rājye jīva tvam ..2..
अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥
अब्रवीत् च अपि माम् भूयस् भृशम् अश्रूणि वर्तयन् । माता इव मम माता ते द्रष्टव्या पुत्र-गर्धिनी ॥२॥
abravīt ca api mām bhūyas bhṛśam aśrūṇi vartayan . mātā iva mama mātā te draṣṭavyā putra-gardhinī ..2..
इति एवम् माम् महाराज बृवन्न् एव महा यशाः । रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥
इति एवम् माम् महा-राज बृवन् एव महा-यशाः । रामः राजीव-ताम्र-अक्षः भृशम् अश्रूणि अवर्तयत् ॥२॥
iti evam mām mahā-rāja bṛvan eva mahā-yaśāḥ . rāmaḥ rājīva-tāmra-akṣaḥ bhṛśam aśrūṇi avartayat ..2..
लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् । केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥
लक्ष्मणः तु सु सम्क्रुद्धः निह्श्वसन् वाक्यम् अब्रवीत् । केन अयम् अपराधेन राज-पुत्रः विवासितः ॥२॥
lakṣmaṇaḥ tu su samkruddhaḥ nihśvasan vākyam abravīt . kena ayam aparādhena rāja-putraḥ vivāsitaḥ ..2..
राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् । कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥
राज्ञा तु खलु कैकेय्याः लघु तु आश्रित्य शासनम् । कृतम् कार्यम् अकार्यम् वा वयम् येन अभिपीडिताः ॥२॥
rājñā tu khalu kaikeyyāḥ laghu tu āśritya śāsanam . kṛtam kāryam akāryam vā vayam yena abhipīḍitāḥ ..2..
यदि प्रव्राजितः रामः लोभ कारण कारितम् । वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥
यदि प्रव्राजितः रामः लोभ-कारण-कारितम् । वर-दान-निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२॥
yadi pravrājitaḥ rāmaḥ lobha-kāraṇa-kāritam . vara-dāna-nimittam vā sarvathā duṣkṛtam kṛtam ..2..
इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥
इदम् तावत् यथाकामम् ईश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२॥
idam tāvat yathākāmam īśvarasya kṛte kṛtam . rāmasya tu parityāge na hetum upalakṣaye ..2..
असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् । जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥
अ समीक्ष्य समारब्धम् विरुद्धम् बुद्धि-लाघवात् । जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२॥
a samīkṣya samārabdham viruddham buddhi-lāghavāt . janayiṣyati samkrośam rāghavasya vivāsanam ..2..
अहम् तावन् महा राजे पितृत्वम् न उपलक्षये । भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥
अहम् तावन् महा-राजे पितृत्वम् न उपलक्षये । भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२॥
aham tāvan mahā-rāje pitṛtvam na upalakṣaye . bhrātā bhartā ca bandhuḥ ca pitā ca mama rāghavaḥ ..2..
सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् । सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥
सर्व-लोक-प्रियम् त्यक्त्वा सर्व-लोक-हिते रतम् । सर्व-लोकः अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२॥
sarva-loka-priyam tyaktvā sarva-loka-hite ratam . sarva-lokaḥ anurajyeta katham tvā anena karmaṇā ..2..
सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् । सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥
सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् । सर्व-लोकम् विरुध्य इमम् कथम् राजा भविष्यसि ॥२॥
sarvaprajābhirāmam hi rāmam pravrājya dhārmikam . sarva-lokam virudhya imam katham rājā bhaviṣyasi ..2..
जानकी तु महा राज निःश्वसन्ती तपस्विनी । भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥
जानकी तु महा-राज निःश्वसन्ती तपस्विनी । भूत-उपहत-चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२॥
jānakī tu mahā-rāja niḥśvasantī tapasvinī . bhūta-upahata-cittā iva viṣṭhitā vṛṣmṛtā sthitā ..2..
अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी । तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥
अदृष्ट-पूर्व-व्यसना राज-पुत्री यशस्विनी । तेन दुह्खेन रुदती न एव माम् किम्चिद् अब्रवीत् ॥२॥
adṛṣṭa-pūrva-vyasanā rāja-putrī yaśasvinī . tena duhkhena rudatī na eva mām kimcid abravīt ..2..
उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता । मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥
उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता । मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२॥
udvīkṣamāṇā bhartāram mukhena pariśuṣyatā . mumoca sahasā bāṣpam mām prayāntam udīkṣya sā ..2..
तथैव रामः अश्रु मुखः कृत अन्जलिः । स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः । तथैव सीता रुदती तपस्विनी । निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥
तथा एव रामः अश्रु-मुखः कृत-अन्जलिः । स्थितः अभवल् लक्ष्मण-बाहु-पालितः स्थितः । तथा एव सीता रुदती तपस्विनी । निरीक्षते राज-रथम् तथा एव माम् ॥२॥
tathā eva rāmaḥ aśru-mukhaḥ kṛta-anjaliḥ . sthitaḥ abhaval lakṣmaṇa-bāhu-pālitaḥ sthitaḥ . tathā eva sītā rudatī tapasvinī . nirīkṣate rāja-ratham tathā eva mām ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe aṣṭapañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In