This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकोनषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..2..
मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि । उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥
मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि । उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२॥
mama tu aśvā nivṛttasya na prāvartanta vartmani . uṣṇam aśru vimuncantaḥ rāme samprasthite vanam ..2..
उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् । प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥
उभाभ्याम् राज-पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् । प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२॥
ubhābhyām rāja-putrābhyām atha kṛtvā aham jñalim . prasthitaḥ ratham āsthāya tat duhkham api dhārayan ..2..
गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् । आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥
गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् । आशया यदि माम् रामः पुनर् शब्दापयेत् इति ॥२॥
guhā iva sārdham tatra eva sthitaḥ asmi divasān bahūn . āśayā yadi mām rāmaḥ punar śabdāpayet iti ..2..
विषये ते महा राज माम व्यसन कर्शिताः । अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥
विषये ते महा-राज माम-व्यसन-कर्शिताः । अपि वृक्षाः परिम्लानः सपुष्प-अन्कुर-कोरकाः ॥२॥
viṣaye te mahā-rāja māma-vyasana-karśitāḥ . api vṛkṣāḥ parimlānaḥ sapuṣpa-ankura-korakāḥ ..2..
उपतप्तोदका नद्यः पल्वलानि सराम्सि च । परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥
उपतप्त-उदकाः नद्यः पल्वलानि सराम्सि च । परिष्कु-पलाशानि वनानि उपवनानि च ॥२॥
upatapta-udakāḥ nadyaḥ palvalāni sarāmsi ca . pariṣku-palāśāni vanāni upavanāni ca ..2..
न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च । राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥
न च सर्पन्ति सत्त्वानि व्यालाः न प्रसरन्ति च । राम-शोक-अभिभूतम् तत् निष्कूजम् अभवत् वनम् ॥२॥
na ca sarpanti sattvāni vyālāḥ na prasaranti ca . rāma-śoka-abhibhūtam tat niṣkūjam abhavat vanam ..2..
लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः । सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥
लीन-पुष्कर-पत्राः च नर-इन्द्र कलुष-उदकाः । सम्तप्त-पद्माः पद्मिन्यः लीन-मीन-विहम्गमाः ॥२॥
līna-puṣkara-patrāḥ ca nara-indra kaluṣa-udakāḥ . samtapta-padmāḥ padminyaḥ līna-mīna-vihamgamāḥ ..2..
जलजानि च पुष्पाणि माल्यानि स्थलजानि च । न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥
जल-जानि च पुष्पाणि माल्यानि स्थल-जानि च । न अद्य भान्ति अल्प-गन्धीनि फलानि च यथा पुरम् ॥२॥
jala-jāni ca puṣpāṇi mālyāni sthala-jāni ca . na adya bhānti alpa-gandhīni phalāni ca yathā puram ..2..
अत्रोद्यानानि शून्यानि प्रलीनविहगानि च । न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥
अत्र उद्यानानि शून्यानि प्रलीन-विहगानि च । न च अभिरामान् आरामान् पश्यामि मनुज-ऋषभ ॥२॥
atra udyānāni śūnyāni pralīna-vihagāni ca . na ca abhirāmān ārāmān paśyāmi manuja-ṛṣabha ..2..
प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति । नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥
प्रविशन्तम् अयोध्याम् माम् न कश्चिद् अभिनन्दति । नराः रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुर् ॥२॥
praviśantam ayodhyām mām na kaścid abhinandati . narāḥ rāmam apaśyantaḥ nihśvasanti muhur muhur ..2..
देव राजरथम् दृष्ट्वा विना राममिहागतम् । दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥
देव राज-रथम् दृष्ट्वा विना रामम् इह आगतम् । दुःखात् अश्रु-मुखः सर्वः राजमार्ग-गतः जनः ॥२॥
deva rāja-ratham dṛṣṭvā vinā rāmam iha āgatam . duḥkhāt aśru-mukhaḥ sarvaḥ rājamārga-gataḥ janaḥ ..2..
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् । हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् । हाहा-कार-कृताः नार्यः राम-अदर्शन-कर्शिताः ॥२॥
harmyaiḥ vimānaiḥ prāsādaiḥ avekṣya ratham āgatam . hāhā-kāra-kṛtāḥ nāryaḥ rāma-adarśana-karśitāḥ ..2..
आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः । अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥
आयतैः विमलैः नेत्रैः अश्रु-वेग-परिप्लुतैः । अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२॥
āyataiḥ vimalaiḥ netraiḥ aśru-vega-pariplutaiḥ . anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ ..2..
न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च । अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥
न अमित्राणाम् न मित्राणाम् उदासीन-जनस्य च । अहम् आर्त-तया कम्चिद् विशेषम् न उपलक्षये ॥२॥
na amitrāṇām na mitrāṇām udāsīna-janasya ca . aham ārta-tayā kamcid viśeṣam na upalakṣaye ..2..
अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा । आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥
अप्रहृष्ट-मनुष्या च दीन-नाग-तुरम्गमा । आर्त-स्वर-परिम्लाना विनिह्श्वसित-निह्स्वना ॥२॥
aprahṛṣṭa-manuṣyā ca dīna-nāga-turamgamā . ārta-svara-parimlānā vinihśvasita-nihsvanā ..2..
निरानन्दा महा राज राम प्रव्राजन आतुला । कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥
निरानन्दा महा-राज राम-प्रव्राजन-आतुला । कौसल्या-पुत्र-हीना इव अयोध्या प्रतिभाति मा मा ॥२॥
nirānandā mahā-rāja rāma-pravrājana-ātulā . kausalyā-putra-hīnā iva ayodhyā pratibhāti mā mā ..2..
सूतस्य वचनम् श्रुत्वा वाचा परम दीनया । बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥
सूतस्य वचनम् श्रुत्वा वाचा परम-दीनया । बाष्प-उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२॥
sūtasya vacanam śrutvā vācā parama-dīnayā . bāṣpa-upahatayā rājā tam sūtam idam abravīt ..2..
कैकेय्या विनियुक्तेन पाप अभिजन भावया । मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥
कैकेय्या विनियुक्तेन पाप-अभिजन-भावया । मया न मन्त्र-कुशलैः वृद्धैः सह समर्थितम् ॥२॥
kaikeyyā viniyuktena pāpa-abhijana-bhāvayā . mayā na mantra-kuśalaiḥ vṛddhaiḥ saha samarthitam ..2..
न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः । मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥
न सुहृद्भिः न च अमात्यैः मन्त्रयित्वा न नैगमैः । मया अयम् अर्थः सम्मोहात् स्त्री-हेतोह् सहसा कृतः ॥२॥
na suhṛdbhiḥ na ca amātyaiḥ mantrayitvā na naigamaiḥ . mayā ayam arthaḥ sammohāt strī-hetoh sahasā kṛtaḥ ..2..
भवितव्यतया नूनम् इदम् वा व्यसनम् महत् । कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥
भवितव्यतया नूनम् इदम् वा व्यसनम् महत् । कुलस्य अस्य विनाशाय प्राप्तम् सूत-यदृच्चया ॥२॥
bhavitavyatayā nūnam idam vā vyasanam mahat . kulasya asya vināśāya prāptam sūta-yadṛccayā ..2..
सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् । त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥
सूत यदि अस्ति ते किम्चिद् मया अपि सुकृतम् कृतम् । त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२॥
sūta yadi asti te kimcid mayā api sukṛtam kṛtam . tvam prāpaya āśu mām rāmam prāṇāḥ samtvarayanti mām ..2..
यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् । न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥
यत् यत् या अपि मम एव आज्ञा निवर्तयतु राघवम् । न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२॥
yat yat yā api mama eva ājñā nivartayatu rāghavam . na śakṣyāmi vinā rāma muhūrtam api jīvitum ..2..
अथवा अपि महा बाहुर् गतः दूरम् भविष्यति । माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥
अथवा अपि महा-बाहुः गतः दूरम् भविष्यति । माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२॥
athavā api mahā-bāhuḥ gataḥ dūram bhaviṣyati . mām eva ratham āropya śīghram rāmāya darśaya ..2..
वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः । यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥
वृत्त-दम्ष्ट्रः महा-इष्वासः क्व असौ लक्ष्मण-पूर्वजः । यदि जीवामि साधु एनम् पश्येयम् सह सीतया ॥२॥
vṛtta-damṣṭraḥ mahā-iṣvāsaḥ kva asau lakṣmaṇa-pūrvajaḥ . yadi jīvāmi sādhu enam paśyeyam saha sītayā ..2..
लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् । रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥
लोहित-अक्षम् महा-बाहुम् आमुक्त-मणि-कुण्डलम् । रामम् यदि न पश्यामि गमिष्यामि यम-क्षयम् ॥२॥
lohita-akṣam mahā-bāhum āmukta-maṇi-kuṇḍalam . rāmam yadi na paśyāmi gamiṣyāmi yama-kṣayam ..2..
अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् । इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥
अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु-नन्दनम् । इमाम् अवस्थाम् आपन्नः नः इह पश्यामि राघवम् ॥२॥
ataḥ nu kim duhkhataram yo aham ikṣvāku-nandanam . imām avasthām āpannaḥ naḥ iha paśyāmi rāghavam ..2..
हा राम राम अनुज हा हा वैदेहि तपस्विनी । न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥
हा राम राम-अनुज हा हा वैदेहि तपस्विनी । न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२॥
hā rāma rāma-anuja hā hā vaidehi tapasvinī . na mām jānīta duhkhena mriyamāṇam anāthavat ..2..
स तेन राजा दुःखेन भृशमर्पितचेतनः । अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥
स तेन राजा दुःखेन भृशम् अर्पित-चेतनः । अवगाढः सु दुष्पारम् शोक-सागम् अब्रवीत् ॥२॥
sa tena rājā duḥkhena bhṛśam arpita-cetanaḥ . avagāḍhaḥ su duṣpāram śoka-sāgam abravīt ..2..
रामशोकमहाभोगः सीताविरहपारगः । श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥
। श्वसित-ऊर्मि-महा-आवर्तः बाष्प-फेन-जल-आविलः ॥२॥
. śvasita-ūrmi-mahā-āvartaḥ bāṣpa-phena-jala-āvilaḥ ..2..
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः । प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥
। प्रकीर्ण-केश-शैवालः कैकेयी-बडबामुखः ॥२॥
. prakīrṇa-keśa-śaivālaḥ kaikeyī-baḍabāmukhaḥ ..2..
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः । वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥
मम अश्रु-वेग-प्रभवः कुब्जा-वाक्य-महा-ग्रहः । वरवेलः नृशम्सायाः राम-प्रव्राजन-आयतः ॥२॥
mama aśru-vega-prabhavaḥ kubjā-vākya-mahā-grahaḥ . varavelaḥ nṛśamsāyāḥ rāma-pravrājana-āyataḥ ..2..
यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना । दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥
यस्मिन् बत निमग्नः अहम् कौसल्ये राघवम् विना । दुस्तरः जीवता देवि मया अयम् शोक-सागरः ॥२॥
yasmin bata nimagnaḥ aham kausalye rāghavam vinā . dustaraḥ jīvatā devi mayā ayam śoka-sāgaraḥ ..2..
अशोभनम् यो अहम् इह अद्य राघवम् । दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥
अशोभनम् यो अहम् इह अद्य राघवम् । दिदृक्षमाणः न लभे सलक्ष्मणम् इति इव राजा विलपन् महा यह-आशः पपात तूर्णम् शयने स मूर्चितः ॥२॥
aśobhanam yo aham iha adya rāghavam . didṛkṣamāṇaḥ na labhe salakṣmaṇam iti iva rājā vilapan mahā yaha-āśaḥ papāta tūrṇam śayane sa mūrcitaḥ ..2..
इति विलपति पार्थिवे प्रनष्टे । करुणतरम् द्विगुणम् च राम हेतोः । वचनम् अनुनिशम्य तस्य देवी । भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥
इति विलपति पार्थिवे प्रनष्टे । करुणतरम् द्विगुणम् च राम-हेतोः । वचनम् अनुनिशम्य तस्य देवी । भयम् अगमत् पुनर् एव राम-माता ॥२॥
iti vilapati pārthive pranaṣṭe . karuṇataram dviguṇam ca rāma-hetoḥ . vacanam anuniśamya tasya devī . bhayam agamat punar eva rāma-mātā ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In