This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaṣṭhitamaḥ sargaḥ ..2..
ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः । धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥
ततस् भूत-उपसृष्टा इव वेपमाना पुनर् पुनर् । धरण्याम् गत-सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२॥
tatas bhūta-upasṛṣṭā iva vepamānā punar punar . dharaṇyām gata-sattvā iva kausalyā sūtam abravīt ..2..
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२॥
naya mām yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ . tān vinā kṣaṇam api atra jīvitum na utsahe hi aham ..2..
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि । अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि । अथ तान् न अनुगच्चामि गमिष्यामि यम-क्षयम् ॥२॥
nivartaya ratham śīghram daṇḍakān naya mām api . atha tān na anugaccāmi gamiṣyāmi yama-kṣayam ..2..
बाष्प वेगौपहतया स वाचा सज्जमानया । इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥
बाष्प-वेग-औपहतया स वाचा सज्जमानया । इदम् आश्वासयन् देवीम् सूतः प्रान्जलिः अब्रवीत् ॥२॥
bāṣpa-vega-aupahatayā sa vācā sajjamānayā . idam āśvāsayan devīm sūtaḥ prānjaliḥ abravīt ..2..
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा । व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा । व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२॥
tyaja śokam ca moham ca sambhramam duhkhajam tathā . vyavadhūya ca samtāpam vane vatsyati rāghavaḥ ..2..
लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥
लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः पर-लोकम् जित-इन्द्रियः ॥२॥
lakṣmaṇaḥ ca api rāmasya pādau paricaran vane . ārādhayati dharmajñaḥ para-lokam jita-indriyaḥ ..2..
विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव । विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥
विजने अपि वने सीता वासम् प्राप्य गृहेषु इव । विस्रम्भम् लभते अभीता रामे सम्न्यस्त-मानसा ॥२॥
vijane api vane sītā vāsam prāpya gṛheṣu iva . visrambham labhate abhītā rāme samnyasta-mānasā ..2..
न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये । उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥
न अस्याः दैन्यम् कृतम् किम्चिद् सुसूक्ष्मम् अपि लक्षये । उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२॥
na asyāḥ dainyam kṛtam kimcid susūkṣmam api lakṣaye . ucitā iva pravāsānām vaidehī pratibhāti mā ..2..
नगर उपवनम् गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥
नगर-उपवनम् गत्वा यथा स्म रमते पुरा । तथा एव रमते सीता निर्जनेषु वनेषु अपि ॥२॥
nagara-upavanam gatvā yathā sma ramate purā . tathā eva ramate sītā nirjaneṣu vaneṣu api ..2..
बाला इव रमते सीता बाल चन्द्र निभ आनना । रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥
बाला इव रमते सीता बाल-चन्द्र-निभ-आनना । रामा रामे हि अदीन-आत्मा विजने अपि वने सती ॥२॥
bālā iva ramate sītā bāla-candra-nibha-ānanā . rāmā rāme hi adīna-ātmā vijane api vane satī ..2..
तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् । अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥
तत् गतम् हृदयम् हि अस्याः तद्-अधीनम् च जीवितम् । अयोध्या अपि भवेत् तस्याः राम-हीना तथा वनम् ॥२॥
tat gatam hṛdayam hi asyāḥ tad-adhīnam ca jīvitam . ayodhyā api bhavet tasyāḥ rāma-hīnā tathā vanam ..2..
परि पृच्चति वैदेही ग्रामामः च नगराणि च । गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
परि पृच्चति वैदेही ग्रामामः च नगराणि च । गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२॥
pari pṛccati vaidehī grāmāmaḥ ca nagarāṇi ca . gatim dṛṣṭvā nadīnām ca pādapān vividhān api ..2..
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती । अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती । अयोध्या-क्रोश-मात्रे तु विहारम् इव सम्श्रिता ॥२॥
rāmam hi lakṣmanam vāpi pṛṣṭvā jānāti jānatī . ayodhyā-krośa-mātre tu vihāram iva samśritā ..2..
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥
इदम् एव स्मरामि अस्याः सहसा एव उपजल्पितम् । कैकेयी-सम्श्रितम् वाक्यम् न इदानीम् प्रतिभाति माम् ॥२॥
idam eva smarāmi asyāḥ sahasā eva upajalpitam . kaikeyī-samśritam vākyam na idānīm pratibhāti mām ..2..
ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् । ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥
ध्वम्सयित्वा तु तत् वाक्यम् प्रमादात् पर्युपस्थितम् । ह्लदनम् वचनम् सूतः देव्याः मधुरम् अब्रवीत् ॥२॥
dhvamsayitvā tu tat vākyam pramādāt paryupasthitam . hladanam vacanam sūtaḥ devyāḥ madhuram abravīt ..2..
अध्वना वात वेगेन सम्भ्रमेण आतपेन च । न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥
अध्वना वात-वेगेन सम्भ्रमेण आतपेन च । न हि गच्छति वैदेह्याः चन्द्र-अम्शु-सदृशी प्रभा ॥२॥
adhvanā vāta-vegena sambhrameṇa ātapena ca . na hi gacchati vaidehyāḥ candra-amśu-sadṛśī prabhā ..2..
सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् । वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥
सदृशम् शत-पत्रस्य पूर्ण-चन्द्र-उपम-प्रभम् । वदनम् तत् वदान्यायाः वैदेह्याः न विकम्पते ॥२॥
sadṛśam śata-patrasya pūrṇa-candra-upama-prabham . vadanam tat vadānyāyāḥ vaidehyāḥ na vikampate ..2..
अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ । अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥
अलक्त-रस-रक्त-अभौ अलक्त-रस-वर्जितौ । अद्य अपि चरणौ तस्याः पद्म-कोश-सम-प्रभौ ॥२॥
alakta-rasa-rakta-abhau alakta-rasa-varjitau . adya api caraṇau tasyāḥ padma-kośa-sama-prabhau ..2..
नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी । इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥
नूपुर-उद्घुष्ट-हेला इव खेलम् गच्छति भामिनी । इदानीम् अपि वैदेही तद्-रागा न्यस्त-भूषणा ॥२॥
nūpura-udghuṣṭa-helā iva khelam gacchati bhāminī . idānīm api vaidehī tad-rāgā nyasta-bhūṣaṇā ..2..
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता । न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता । न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२॥
gajam vā vīkṣya simham vā vyāghram vā vanam āśritā . na āhārayati samtrāsam bāhū rāmasya samśritā ..2..
न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः । इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥
न शोच्याः ते न च आत्मा ते शोच्यः न अपि जन-अधिपः । इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२॥
na śocyāḥ te na ca ātmā te śocyaḥ na api jana-adhipaḥ . idam hi caritam loke pratiṣṭhāsyati śāśvatam ..2..
विधूय शोकम् परिहृष्ट मानसा । महर्षि याते पथि सुव्यवस्थिताः । वने रता वन्य फल अशनाः पितुः । शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥
विधूय शोकम् परिहृष्ट-मानसा । महा-ऋषि याते पथि सु व्यवस्थिताः । वने रता वन्य-फल-अशनाः पितुः । शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२॥
vidhūya śokam parihṛṣṭa-mānasā . mahā-ṛṣi yāte pathi su vyavasthitāḥ . vane ratā vanya-phala-aśanāḥ pituḥ . śubhām pratijñām paripālayanti te ..2..
तथा अपि सूतेन सुयुक्त वादिना । निवार्यमाणा सुत शोक कर्शिता । न चैव देवी विरराम कूजितात् । प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥
तथा अपि सूतेन सुयुक्त-वादिना । निवार्यमाणा सुत-शोक-कर्शिता । न च एव देवी विरराम कूजितात् । प्रियः इति पुत्रः इति च राघवः इति च ॥२॥
tathā api sūtena suyukta-vādinā . nivāryamāṇā suta-śoka-karśitā . na ca eva devī virarāma kūjitāt . priyaḥ iti putraḥ iti ca rāghavaḥ iti ca ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In