This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्विषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..2..
एवम् तु क्रुद्धया राजा राम मात्रा सशोकया । श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥
एवम् तु क्रुद्धया राजा राम-मात्रा स शोकया । श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२॥
evam tu kruddhayā rājā rāma-mātrā sa śokayā . śrāvitaḥ paruṣam vākyam cintayām āsa duhkhitaḥ ..2..
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः । अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥
चिन्तयित्वा स च नृपः मुमोह व्याकुल-इन्द्रियः । अथ दीर्घेण कालेन सम्ज्ञाम् आप परतपः ॥२॥
cintayitvā sa ca nṛpaḥ mumoha vyākula-indriyaḥ . atha dīrgheṇa kālena samjñām āpa paratapaḥ ..2..
स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् । कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥
स सम्ज्ञाअम् उपलब्य एव दीर्घम् उष्णम् च निःससन् । कौसल्याम् पार्श्वतस् दृष्ट्वा ततस् चिन्ताम् उपागमत् ॥२॥
sa samjñāam upalabya eva dīrgham uṣṇam ca niḥsasan . kausalyām pārśvatas dṛṣṭvā tatas cintām upāgamat ..2..
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यत् अनेन कृतम् पूर्वम् अज्ञानात् शब्द-वेधिना ॥२॥
tasya cintayamānasya pratyabhāt karma duṣkṛtam . yat anena kṛtam pūrvam ajñānāt śabda-vedhinā ..2..
अमनाः तेन शोकेन राम शोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥
अमनाः तेन शोकेन राम-शोकेन च प्रभुः । द्वाभ्याम् अपि महा-राजः शोकाब्याम् अभितप्यतः ॥२॥
amanāḥ tena śokena rāma-śokena ca prabhuḥ . dvābhyām api mahā-rājaḥ śokābyām abhitapyataḥ ..2..
दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः । वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥
दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू-पतिः । वेपमानः अञ्जलिम् कृत्वा प्रसाद-ऋतम् अवाङ्मुखः ॥२॥
dahyamānaḥ tu śokābhyām kausalyām āha bhū-patiḥ . vepamānaḥ añjalim kṛtvā prasāda-ṛtam avāṅmukhaḥ ..2..
प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः । वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥
प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः । वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेषु अपि ॥२॥
prasādaye tvām kausalye racitaḥ ayam mayā anjaliḥ . vatsalā ca ānṛśamsā ca tvam hi nityam pareṣu api ..2..
भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा । धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥
भर्ता तु खलु नारीणाम् गुणवान् निर्गुणः अपि वा । धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२॥
bhartā tu khalu nārīṇām guṇavān nirguṇaḥ api vā . dharmam vimṛśamānānām pratyakṣam devi daivatam ..2..
सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर । न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥
सा त्वम् धर्म-परा नित्यम् दृष्ट-लोक-पर-अवर । न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२॥
sā tvam dharma-parā nityam dṛṣṭa-loka-para-avara . na arhase vipriyam vaktum duhkhitā api suduhkhitam ..2..
तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥
तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजत् बाष्पम् प्रणाली इव नव-उदकम् ॥२॥
tat vākyam karuṇam rājñaḥ śrutvā dīnasya bhāṣitam . kausalyā vyasṛjat bāṣpam praṇālī iva nava-udakam ..2..
स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् । सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥
स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् । सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण-अक्षरम् वचः ॥२॥
sa mūdrhni baddhvā rudatī rājñaḥ padmam iva anjalim . sambhramāt abravīt trastā tvaramāṇa-akṣaram vacaḥ ..2..
प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते । याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥
प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते । याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२॥
prasīda śirasā yāce bhūmau nitatitā asmi te . yācitā asmi hatā deva hantavyā aham na hi tvayā ..2..
न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥
न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोः लोकयोः वीर-पत्या या सम्प्रसाद्यते ॥२॥
na eṣā hi sā strī bhavati ślāghanīyena dhīmatā . ubhayoḥ lokayoḥ vīra-patyā yā samprasādyate ..2..
जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् । पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥
जानामि धर्मम् धर्म-ज्ञ त्वाम् जाने सत्यवादिनम् । पुत्र शोक-आर्तया तत् तु मया किम् अपि भाषितम् ॥२॥
jānāmi dharmam dharma-jña tvām jāne satyavādinam . putra śoka-ārtayā tat tu mayā kim api bhāṣitam ..2..
शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् । शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥
शोकः नाशयते धैर्यम् शोकः नाशयते श्रुतम् । शोकः नाशयते सर्वम् न अस्ति शोक-समः रिपुः ॥२॥
śokaḥ nāśayate dhairyam śokaḥ nāśayate śrutam . śokaḥ nāśayate sarvam na asti śoka-samaḥ ripuḥ ..2..
शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः । सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥
शक्यम् आपतितः सोढुम् प्रहरः रिपु-हस्ततः । सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२॥
śakyam āpatitaḥ soḍhum praharaḥ ripu-hastataḥ . soḍhum āpatitaḥ śokaḥ susūkṣmaḥ api na śakyate ..2..
दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः । यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥
दर्म-ज्ञाः श्रुतिमन्तः अपि चिन्न-धर्म-अर्थ-सम्शयाः । यतयः वीर मुह्यन्ति शोक-सम्मूढ-चेतसः ॥२॥
darma-jñāḥ śrutimantaḥ api cinna-dharma-artha-samśayāḥ . yatayaḥ vīra muhyanti śoka-sammūḍha-cetasaḥ ..2..
वन वासाय रामस्य पन्च रात्रः अद्य गण्यते । यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥
वन-वासाय रामस्य पन्च-रात्रः अद्य गण्यते । यः शोक-हत-हर्षायाः पन्च-वर्ष-उपमः मम ॥२॥
vana-vāsāya rāmasya panca-rātraḥ adya gaṇyate . yaḥ śoka-hata-harṣāyāḥ panca-varṣa-upamaḥ mama ..2..
तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते । अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥
तम् हि चिन्तयमानायाः शोकः अयम् हृदि वर्धते । अदीनाम् इव वेगेन समुद्र-सलिलम् महत् ॥२॥
tam hi cintayamānāyāḥ śokaḥ ayam hṛdi vardhate . adīnām iva vegena samudra-salilam mahat ..2..
एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः । मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥
एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः । मन्द-रश्मिः अभूत् सुर्यः रजनी च अभ्यवर्तत ॥२॥
evam hi kathayantyāḥ tu kausalyāyāḥ śubham vacaḥ . manda-raśmiḥ abhūt suryaḥ rajanī ca abhyavartata ..2..
तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः । शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥
तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः । शोकेन च समाक्रान्तः निद्रायाः वशम् एयिवान् ॥२॥
tatha prahlāditaḥ vākyaiḥ devyā kausalyayā nṛpaḥ . śokena ca samākrāntaḥ nidrāyāḥ vaśam eyivān ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In