This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रिषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe triṣaṣṭhitamaḥ sargaḥ ..2..
प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः । अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥
प्रतिबुद्धः मुहुर् तेन शोकः चेतनः । अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२॥
pratibuddhaḥ muhur tena śokaḥ cetanaḥ . atha rājā daśarathaḥ sa cintām abhyapadyata ..2..
राम लक्ष्मणयोः चैव विवासात् वासव उपमम् । आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥
राम-लक्ष्मणयोः च एव विवासात् वासव-उपमम् । आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२॥
rāma-lakṣmaṇayoḥ ca eva vivāsāt vāsava-upamam . āviveśa upasargaḥ tam tamaḥ sūryam iva āsuram ..2..
सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः । विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥
स भार्ये निर्गते रामे कौसल्याम् कोसल-ईश्वरः । विवक्षुः असित-अपाङ्गाम् स्मृवा दुष्कृतम् आत्मनः ॥२॥
sa bhārye nirgate rāme kausalyām kosala-īśvaraḥ . vivakṣuḥ asita-apāṅgām smṛvā duṣkṛtam ātmanaḥ ..2..
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् । अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् । अर्ध-रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२॥
sa rājā rajanīm ṣaṣṭhīm rāme pravrajite vanam . ardha-rātre daśarathaḥ samsmaran duṣkṛtam kṛtam ..2..
स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः । कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥
स राजा पुत्र-शोक-आर्तः स्मरन् दुष्कृतम् आत्मनः । कौसल्याम् पुत्र-शोक-आर्ताम् इदम् वचनम् अब्रवीत् ॥२॥
sa rājā putra-śoka-ārtaḥ smaran duṣkṛtam ātmanaḥ . kausalyām putra-śoka-ārtām idam vacanam abravīt ..2..
यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् । तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥
यत् आचरति कल्याणि शुभम् वा यदि वा अशुभम् । तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२॥
yat ācarati kalyāṇi śubham vā yadi vā aśubham . tat eva labhate bhadre kartā karmajam ātmanaḥ ..2..
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् । दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् । दोषम् वा यः न जानाति स बाल एति ह उच्यते ॥२॥
guru lāghavam arthānām ārambhe karmaṇām phalam . doṣam vā yaḥ na jānāti sa bāla eti ha ucyate ..2..
कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति । पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥
कश्चिद् आम्र-वणम् चित्त्वा पलाशामः च निषिन्चति । पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल-आगमे ॥२॥
kaścid āmra-vaṇam cittvā palāśāmaḥ ca niṣincati . puṣpam dṛṣṭvā phale gṛdhnuḥ sa śocati phala-āgame ..2..
अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति । स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥
अ विज्ञाय फलम् यः हि कर्म तु एव अनुधावति । स शोचेत् फल-वेलायाम् यथा किम् शुक-सेचकः ॥२॥
a vijñāya phalam yaḥ hi karma tu eva anudhāvati . sa śocet phala-velāyām yathā kim śuka-secakaḥ ..2..
सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् । रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥
सः अहम् आम्र-वणम् चित्त्वा पलाशामः च न्यषेचयम् । रामम् फल-आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२॥
saḥ aham āmra-vaṇam cittvā palāśāmaḥ ca nyaṣecayam . rāmam phala-āgame tyaktvā paścāt śocāmi durmatiḥ ..2..
लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥
लब्ध-शब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्द-वेधी इति मया पापम् इदम् कृतम् ॥२॥
labdha-śabdena kausalye kumāreṇa dhanuṣmatā . kumāraḥ śabda-vedhī iti mayā pāpam idam kṛtam ..2..
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् । सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् । सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२॥
tat idam me anusamprāptam devi duhkham svayam kṛtam . sammohāt iha bālena yathā syāt bhakṣitam viṣam ..2..
यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् । एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥
यथा अन्यः पुरुषः कश्चिद् पलाशैः मोओहितः भवेत् । एवम् मम अपि अविज्ञातम् शब्द-वेध्य-मयम् फलम् ॥२॥
yathā anyaḥ puruṣaḥ kaścid palāśaiḥ moohitaḥ bhavet . evam mama api avijñātam śabda-vedhya-mayam phalam ..2..
देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् । ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥
देवी अन् ऊढा त्वम् अभवः राजः भवामि अहम् । ततस् प्रावृष् अनुप्राप्ता मद-काम-विवर्धिनी ॥२॥
devī an ūḍhā tvam abhavaḥ rājaḥ bhavāmi aham . tatas prāvṛṣ anuprāptā mada-kāma-vivardhinī ..2..
उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः । परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥
रसान् भौमान् तप्त्वा च जगत् अम्शुभिः । परेत-आचरिताम् भीमाम् रविः आविशते दिशम् ॥२॥
rasān bhaumān taptvā ca jagat amśubhiḥ . pareta-ācaritām bhīmām raviḥ āviśate diśam ..2..
उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः । ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥
उष्णम् अन्तर् दधे सद्यस् स्निग्धाः ददृशिरे घनाः । ततस् जहृषिरे सर्वे भेक-सारन्ग-बर्हिणः ॥२॥
uṣṇam antar dadhe sadyas snigdhāḥ dadṛśire ghanāḥ . tatas jahṛṣire sarve bheka-sāranga-barhiṇaḥ ..2..
क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः । वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥
क्लिन्न-पक्ष-उत्तराः स्नाताः कृच्च्रात् इव वतत्रिणः । वृष्टि-वात-अवधूत-अग्रान् पादपान् अभिपेदिरे ॥२॥
klinna-pakṣa-uttarāḥ snātāḥ kṛccrāt iva vatatriṇaḥ . vṛṣṭi-vāta-avadhūta-agrān pādapān abhipedire ..2..
पतितेन अम्भसा चन्नः पतमानेन च असकृत् । आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥
पतितेन अम्भसा चन्नः पतमानेन च असकृत् । आबभौ मत्त-सारन्गः तोय-राशिः इव अचलः ॥२॥
patitena ambhasā cannaḥ patamānena ca asakṛt . ābabhau matta-sārangaḥ toya-rāśiḥ iva acalaḥ ..2..
पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि । सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥
पाण्डुर-अरुण-वर्णानि विमलानि अपि । सुस्रुवुः गिरि-धातुभ्यः स भस्मानि भुजङ्ग-वत् ॥२॥
pāṇḍura-aruṇa-varṇāni vimalāni api . susruvuḥ giri-dhātubhyaḥ sa bhasmāni bhujaṅga-vat ..2..
आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि । उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥
आकुल-अरुण-तोयानि विमलानि अपि । उन्मार्ग-जल-वाहीनि बभूवुः जलद-आगमे ॥२॥
ākula-aruṇa-toyāni vimalāni api . unmārga-jala-vāhīni babhūvuḥ jalada-āgame ..2..
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी । व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥
तस्मिन् अति सुखे काले धनुष्मान् इषुमान् रथी । व्यायाम-कृत-सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२॥
tasmin ati sukhe kāle dhanuṣmān iṣumān rathī . vyāyāma-kṛta-samkalpaḥ sarayūm anvagām nadīm ..2..
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् । अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् । अन्यम् वा श्वा पदम् कम्चिद् जिघाम्सुः अजित-इन्द्रियः ॥२॥
nipāne mahiṣam rātrau gajam vā abhyāgatam nadīm . anyam vā śvā padam kamcid jighāmsuḥ ajita-indriyaḥ ..2..
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः । तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥
तस्मिन् तत्र अहम् एकान्ते रात्रौ विवृत-कार्मुकः । तत्र अहम् सम्वृतम् वन्यम् हतवाम् तीरम् आगतम् ॥२॥
tasmin tatra aham ekānte rātrau vivṛta-kārmukaḥ . tatra aham samvṛtam vanyam hatavām tīram āgatam ..2..
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् । अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥
अन्यम् च अपि मृगम् हिम्स्रम् शब्दम् श्रुत्वा अभु-पागतम् । अथ अन्ध-कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२॥
anyam ca api mṛgam himsram śabdam śrutvā abhu-pāgatam . atha andha-kāre tu aśrauṣam jale kumbhasya paryataḥ ..2..
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः । ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥
अचक्षुः-विषये घोषम् वारणस्य इव नर्दतः । ततस् अहम् शरम् उद्धृत्य दीप्तम् आशी विष-उपमम् ॥२॥
acakṣuḥ-viṣaye ghoṣam vāraṇasya iva nardataḥ . tatas aham śaram uddhṛtya dīptam āśī viṣa-upamam ..2..
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् । अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥
शब्दम् प्रति गज-प्रेप्सुः अभिलक्ष्य तु अपातयम् । अमुन्चम् निशितम् बाणम् अहम् आशी विष-उपमम् ॥२॥
śabdam prati gaja-prepsuḥ abhilakṣya tu apātayam . amuncam niśitam bāṇam aham āśī viṣa-upamam ..2..
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः । हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥
तत्र वाच् उषसि व्यक्ता प्रादुर् आसीत् वने ओकसः । हा हा इति पततः तोये बाण-अभिहत-मर्मणः ॥२॥
tatra vāc uṣasi vyaktā prādur āsīt vane okasaḥ . hā hā iti patataḥ toye bāṇa-abhihata-marmaṇaḥ ..2..
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी । कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥
तस्मिन् निपतिते बाणे वाच् अभूत् तत्र मानुषी । कथम् अस्मद्-विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२॥
tasmin nipatite bāṇe vāc abhūt tatra mānuṣī . katham asmad-vidhe śastram nipatet tu tapasvini ..2..
प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः । इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥
प्रविविक्ताम् नदीम् रात्रौ उदाहारः अहम् आगतः । इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२॥
praviviktām nadīm rātrau udāhāraḥ aham āgataḥ . iṣuṇā abhihataḥ kena kasya vā kim kṛtam mayā ..2..
ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः । कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥
ऋषेः हि दण्डस्य वने वन्येन जीवतः । कथम् नु शस्त्रेण वधः मद्-विधस्य विधीयते ॥२॥
ṛṣeḥ hi daṇḍasya vane vanyena jīvataḥ . katham nu śastreṇa vadhaḥ mad-vidhasya vidhīyate ..2..
जटा भार धरस्य एव वल्कल अजिन वाससः । को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥
जटा-भार-धरस्य एव वल्कल-अजिन-वाससः । कः वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२॥
jaṭā-bhāra-dharasya eva valkala-ajina-vāsasaḥ . kaḥ vadhena mama arthī syāt kim vā asya apakṛtam mayā ..2..
एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् । न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥
एवम् निष्फलम् आरब्धम् केवल-अनर्थ-सम्हितम् । न कश्चिद् साधु मन्येत यथा एव गुरु तल्प-गम् ॥२॥
evam niṣphalam ārabdham kevala-anartha-samhitam . na kaścid sādhu manyeta yathā eva guru talpa-gam ..2..
नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः । मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥
नहम् तथा अनुशोचामि जीवित-क्षयम् आत्मनः । मातरम् पितरम् च उभौ अनुशोचामि मद्-विधे ॥२॥
naham tathā anuśocāmi jīvita-kṣayam ātmanaḥ . mātaram pitaram ca ubhau anuśocāmi mad-vidhe ..2..
तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया । मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥
तत् एतान् मिथुनम् वृद्धम् चिर-कालभृतम् मया । मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२॥
tat etān mithunam vṛddham cira-kālabhṛtam mayā . mayi pancatvam āpanne kām vṛttim vartayiṣyati ..2..
वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः । केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥
वृद्धौ च माता-पितरौ अहम् च एकः इषुणा हतः । केन स्म निहताः सर्वे सुबालेन अकृत-आत्मना ॥२॥
vṛddhau ca mātā-pitarau aham ca ekaḥ iṣuṇā hataḥ . kena sma nihatāḥ sarve subālena akṛta-ātmanā ..2..
तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः । कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥
तम् गिरम् करुणाम् श्रुत्वा मम धर्म-अनुकान्क्षिणः । कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२॥
tam giram karuṇām śrutvā mama dharma-anukānkṣiṇaḥ . karābhyām saśaram cāpam vyathitasya apatat bhuvi ..2..
तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु । सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥
तस्य अहम् करुणम् श्रुत्वा निशि लालपतः बहु । सम्भ्रानतः शोक-वेगेन भृशम् आस विचेतनः ॥२॥
tasya aham karuṇam śrutvā niśi lālapataḥ bahu . sambhrānataḥ śoka-vegena bhṛśam āsa vicetanaḥ ..2..
तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः । अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥
तम् देशम् अहम् आगम्य दीन-सत्त्वः सुदुर्मनाः । अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२॥
tam deśam aham āgamya dīna-sattvaḥ sudurmanāḥ . apaśyam iṣuṇā tīre sarayvāḥ tāpasam hatam ..2..
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् । पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥
अवकीर्ण-जटा-भारम् प्रविद्ध-कलश-उदकम् । पासु-शोणित-दिग्ध-अङ्गम् शयानम् शल्य-पीडितम् ॥२॥
avakīrṇa-jaṭā-bhāram praviddha-kalaśa-udakam . pāsu-śoṇita-digdha-aṅgam śayānam śalya-pīḍitam ..2..
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् । इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ-चेतसम् । इति उवाच वचः क्रूरम् दिधक्षन् इव तेजसा ॥२॥
sa mām udvīkṣya netrābhyām trastam asvastha-cetasam . iti uvāca vacaḥ krūram didhakṣan iva tejasā ..2..
किम् तव अपकृतम् राजन् वने निवसता मया । जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥
किम् तव अपकृतम् राजन् वने निवसता मया । जिहीर्षिउः अम्भः गुरु अर्थम् यत् अहम् ताडितः त्वया ॥२॥
kim tava apakṛtam rājan vane nivasatā mayā . jihīrṣiuḥ ambhaḥ guru artham yat aham tāḍitaḥ tvayā ..2..
एकेन खलु बाणेन मर्मणि अभिहते मयि । द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥
एकेन खलु बाणेन मर्मणि अभिहते मयि । द्वौ अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२॥
ekena khalu bāṇena marmaṇi abhihate mayi . dvau andhau nihatau vṛddhau mātā janayitā ca me ..2..
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ । चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥
तौ नूनम् दुर्बलौ अन्धौ मत् प्रतीक्षौ पिपासितौ । चिरम् आशा-कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२॥
tau nūnam durbalau andhau mat pratīkṣau pipāsitau . ciram āśā-kṛtām tṛṣṇām kaṣṭām samdhārayiṣyataḥ ..2..
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा । पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥
न नूनम् तपसः वै अस्ति फल-योगः श्रुतस्य वा । पिता यत् माम् न जानाति शयानम् पतितम् भुवि ॥२॥
na nūnam tapasaḥ vai asti phala-yogaḥ śrutasya vā . pitā yat mām na jānāti śayānam patitam bhuvi ..2..
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः । चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥
जानन् अपि च किम् कुर्यात् अशक्तिः अपरिक्रमः । चिद्यमानम् इव अशक्तः त्रातुम् अन्यः नगः नगम् ॥२॥
jānan api ca kim kuryāt aśaktiḥ aparikramaḥ . cidyamānam iva aśaktaḥ trātum anyaḥ nagaḥ nagam ..2..
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव । न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥
पितुः त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव । न त्वाम् अनुदहेत् क्रुद्धः वनम् वह्निः इव एधितः ॥२॥
pituḥ tvam eva me gatvā śīghram ācakṣva rāghava . na tvām anudahet kruddhaḥ vanam vahniḥ iva edhitaḥ ..2..
इयम् एक पदी राजन् यतः मे पितुर् आश्रमः । तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥
इयम् एक-पदी राजन् यतस् मे पितुः आश्रमः । तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२॥
iyam eka-padī rājan yatas me pituḥ āśramaḥ . tam prasādaya gatvā tvam na tvām sa kupitaḥ śapet ..2..
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः । रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः । रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु-रयः यथा ॥२॥
viśalyam kuru mām rājan marma me niśitaḥ śaraḥ . ruṇaddhi mṛdu sa utsedham tīram ambu-rayaḥ yathā ..2..
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥
स शल्यः क्लिश्यते प्राणैः विशल्यः विनशिष्यति । इति माम् अविशत् चिन्ता तस्य शल्य-अपकर्षणे ॥२॥
sa śalyaḥ kliśyate prāṇaiḥ viśalyaḥ vinaśiṣyati . iti mām aviśat cintā tasya śalya-apakarṣaṇe ..2..
दुःखितस्य च दीनस्य मम शोकातुरस्य च । लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥
दुःखितस्य च दीनस्य मम शोक-आतुरस्य च । लक्ष्यामास हृदये चिन्ताम् मुनि-सुतः तदा ॥२॥
duḥkhitasya ca dīnasya mama śoka-āturasya ca . lakṣyāmāsa hṛdaye cintām muni-sutaḥ tadā ..2..
ताम्यमानः स माम् दुःखादुवाच परमार्तवत् । सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥
ताम्यमानः स माम् दुःखात् उवाच परम-आर्त-वत् । सीदमानः विवृत्त-अङ्गः वेष्टमानः गतः क्षयम् ॥२॥
tāmyamānaḥ sa mām duḥkhāt uvāca parama-ārta-vat . sīdamānaḥ vivṛtta-aṅgaḥ veṣṭamānaḥ gataḥ kṣayam ..2..
सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् । ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥
सम्स्तभ्य धैर्येण स्थिर-चित्तः भवामि अहम् । ब्रह्महत्या-कृतम् पापम् हृदयात् अपनीयताम् ॥२॥
samstabhya dhairyeṇa sthira-cittaḥ bhavāmi aham . brahmahatyā-kṛtam pāpam hṛdayāt apanīyatām ..2..
न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा । शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥
न द्विजातिः अहम् राजन् मा भूत् ते मनसः व्यथा । शूद्रायाम् अस्मि वैश्येन जातः जन-पद-अधिप ॥२॥
na dvijātiḥ aham rājan mā bhūt te manasaḥ vyathā . śūdrāyām asmi vaiśyena jātaḥ jana-pada-adhipa ..2..
इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः । विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥
इति इव वदतः कृच्च्रात् बाण-अभिहत-मर्मणः । विघूर्णतः विचेष्टस्य वेपमाचस्य भू-तले ॥२॥
iti iva vadataḥ kṛccrāt bāṇa-abhihata-marmaṇaḥ . vighūrṇataḥ viceṣṭasya vepamācasya bhū-tale ..2..
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् । तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् । तस्य तु आनम्यमानस्य तम् बाणाम् अहम् उद्धरम् ॥२॥
tasya tu ānamyamānasya tam bāṇam aham uddharam . tasya tu ānamyamānasya tam bāṇām aham uddharam ..2..
जल आर्द्र गात्रम् तु विलप्य कृच्चान् । मर्म व्रणम् सम्ततम् उच्चसन्तम् । ततः सरय्वाम् तम् अहम् शयानम् । समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥
जल-आर्द्र-गात्रम् तु विलप्य कृच्चान् । मर्म-व्रणम् सम्ततम् उच्चसन्तम् । ततस् सरय्वाम् तम् अहम् शयानम् । समीक्ष्य भद्रे सु भृशम् विषण्णः ॥२॥
jala-ārdra-gātram tu vilapya kṛccān . marma-vraṇam samtatam uccasantam . tatas sarayvām tam aham śayānam . samīkṣya bhadre su bhṛśam viṣaṇṇaḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe triṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In