This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..2..
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि । वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि । वन्दिनः पर्युपातिष्ठम् तत् पार्थिव निवेशनम् ॥२॥
atha rātryām vyatītāyām prātar eva apare ahani . vandinaḥ paryupātiṣṭham tat pārthiva niveśanam ..2..
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः । गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥
सूताः परम-सम्स्काराः । गायकाः स्तुति-शीलाः च निगदन्तः पृथक् पृथक्॥२॥
sūtāḥ parama-samskārāḥ . gāyakāḥ stuti-śīlāḥ ca nigadantaḥ pṛthak pṛthak..2..
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥
राजानम् स्तुताम् तेषाम् उदात्त-अभिहित-आशिषाम् । प्रासाद-आभोग-विस्तीर्णः स्तुति-शब्दः हि अवर्तत ॥२॥
rājānam stutām teṣām udātta-abhihita-āśiṣām . prāsāda-ābhoga-vistīrṇaḥ stuti-śabdaḥ hi avartata ..2..
ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः । अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥
ततस् तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः । अवदानानि उदाहृत्य पाणिवादाः न अवादयन् ॥२॥
tatas tu stuvatām teṣām sūtānām pāṇivādakāḥ . avadānāni udāhṛtya pāṇivādāḥ na avādayan ..2..
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥
तेन शब्देन विहगाः प्रतिबुद्धाः विसस्वनुः । शाखा-स्थाः पञ्जर-स्थाः च ये राज-कुल-गोचराः ॥२॥
tena śabdena vihagāḥ pratibuddhāḥ visasvanuḥ . śākhā-sthāḥ pañjara-sthāḥ ca ye rāja-kula-gocarāḥ ..2..
व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः । आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥
व्याहृताः पुण्य-शब्दाः च वीणानाम् च अपि निस्स्वनाः । आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२॥
vyāhṛtāḥ puṇya-śabdāḥ ca vīṇānām ca api nissvanāḥ . āśīrgeyam ca gāthānām pūrayāmāsa veśma tata ..2..
ततः शुचि समाचाराः पर्युपस्थान कोविदः । स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥
ततः शुचि-समाचाराः पर्युपस्थान-कोविदः । स्त्री वर्ष वर भूयिष्ठाः उपतस्थुः यथा पुरम् ॥२॥
tataḥ śuci-samācārāḥ paryupasthāna-kovidaḥ . strī varṣa vara bhūyiṣṭhāḥ upatasthuḥ yathā puram ..2..
हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः । आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥
हरि-चन्दन-सम्पृक्तम् उदकम् कान्चनैः घटैः । आनिन्युः स्नान-शिक्षा-आज्ञा यथा कालम् यथा विधि ॥२॥
hari-candana-sampṛktam udakam kāncanaiḥ ghaṭaiḥ . āninyuḥ snāna-śikṣā-ājñā yathā kālam yathā vidhi ..2..
मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् । उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥
मन्गल-आलम्भनीयानि प्राशनीयान् उपस्करान् । उपनिन्युः तथा अपि अन्याः कुमारी-बहुलाः स्त्रियः ॥२॥
mangala-ālambhanīyāni prāśanīyān upaskarān . upaninyuḥ tathā api anyāḥ kumārī-bahulāḥ striyaḥ ..2..
सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् । सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥
सर्व-लक्षण-सम्पन्नम् सर्वम् विधिवत् अर्चितम् । सर्वम् सु गुण-लक्स्मीवत् तत् भभूव आभिहारिकम् ॥२॥
sarva-lakṣaṇa-sampannam sarvam vidhivat arcitam . sarvam su guṇa-laksmīvat tat bhabhūva ābhihārikam ..2..
ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् । तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥
ततस् सूर्य-उदयम् यावत् सर्वम् परिसमुत्सुकम् । तस्थौ अन् उपसम्प्राप्तम् किम् स्विद् इति उपश् ॥२॥
tatas sūrya-udayam yāvat sarvam parisamutsukam . tasthau an upasamprāptam kim svid iti upaś ..2..
अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः । ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥
अथ याः कोसल-इन्द्रस्य शयनम् प्रत्यनन्तराः । ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२॥
atha yāḥ kosala-indrasya śayanam pratyanantarāḥ . tāḥ striyaḥ tu samāgamya bhartāram pratyabodhayan ..2..
तथाप्युचितवृत्तास्ता विनयेन नयेन च । न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥
तथा अपि उचित-वृत्ताः ताः विनयेन नयेन च । न हि अस्य शयनम् स्पृष्ट्वा किम् चित् अपि उपलेभिरे ॥२॥
tathā api ucita-vṛttāḥ tāḥ vinayena nayena ca . na hi asya śayanam spṛṣṭvā kim cit api upalebhire ..2..
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु । ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥
ताः स्वप्न-शील-ज्ञास्-चेष्टा-सम्चलन-आदिषु । ता वेपथु-परीताः च राज्ञः प्राणेषु शन्किताः ॥२॥
tāḥ svapna-śīla-jñās-ceṣṭā-samcalana-ādiṣu . tā vepathu-parītāḥ ca rājñaḥ prāṇeṣu śankitāḥ ..2..
प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे । अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥
प्रतिस्रोतस् तृण-अग्राणाम् सदृशम् सम्चकम्पिरे । अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२॥
pratisrotas tṛṇa-agrāṇām sadṛśam samcakampire . atha samvepamanānām strīṇām dṛṣṭvā ca pārthivam ..2..
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः । कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः । कौसल्या च सुमित्रा च पुत्र-शोक-पराजिते ॥२॥
yat tat āśankitam pāpam tasya jajñe viniścayaḥ . kausalyā ca sumitrā ca putra-śoka-parājite ..2..
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥
प्रसुप्ते न प्रबुध्येते यथा काल-समन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन सन्न-ता ॥२॥
prasupte na prabudhyete yathā kāla-samanvite . niṣprabhā ca vivarṇā ca sannā śokena sanna-tā ..2..
न व्यराजत कौसल्या तारेव तिमिरावृता । कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥
न व्यराजत कौसल्या तारा इव तिमिर-आवृता । कौसल्या-अनन्तरम् राज्ञः सुमित्रा ॥२॥
na vyarājata kausalyā tārā iva timira-āvṛtā . kausalyā-anantaram rājñaḥ sumitrā ..2..
न स्म विभ्राजते देवी शोकाश्रुलुलितानना । ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥
न स्म विभ्राजते देवी शोक-अश्रु-लुलित-आनना । ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२॥
na sma vibhrājate devī śoka-aśru-lulita-ānanā . te ca dṛṣṭvā tathā supte śubhe devyau ca tam nṛpam ..2..
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत । ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥
सुप्तमे वा उद्गत-प्राणम् अन्तर् पुरम् अमन्यत । ततस् प्रचुक्रुशुः दीनाः सस्वरम् ता वर-अन्गनाः ॥२॥
suptame vā udgata-prāṇam antar puram amanyata . tatas pracukruśuḥ dīnāḥ sasvaram tā vara-anganāḥ ..2..
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः । तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥
करेणवा एव अरण्ये स्थान-प्रच्युत-यूथपाः । तासाम् आक्रन्द-शब्देन सहसा उद्गत-चेतने ॥२॥
kareṇavā eva araṇye sthāna-pracyuta-yūthapāḥ . tāsām ākranda-śabdena sahasā udgata-cetane ..2..
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥
कौसल्या च सुमित्राच त्यक्त-निद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२॥
kausalyā ca sumitrāca tyakta-nidre babhūvatuḥ . kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam ..2..
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले । सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥
हा नाथः इति परिक्रुश्य पेततुः धरणी तले । सा कोसल-इन्द्र-दुहिता वेष्टमाना मही तले ॥२॥
hā nāthaḥ iti parikruśya petatuḥ dharaṇī tale . sā kosala-indra-duhitā veṣṭamānā mahī tale ..2..
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता । नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥
न बभ्राज रजः-ध्वस्ता तारा इव गगन-च्युता । नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२॥
na babhrāja rajaḥ-dhvastā tārā iva gagana-cyutā . nṛpe śāntaguṇe jāte kausalyām patitām bhuvi ..2..
आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव । ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥
आपश्यम्स्ताः ताः स्त्रियः सर्वाः हताम् नागवधूम् इव । ततस् सर्वाः नरेन्द्रस्य कैकेयी-प्रमुखाः स्त्रियः ॥२॥
āpaśyamstāḥ tāḥ striyaḥ sarvāḥ hatām nāgavadhūm iva . tatas sarvāḥ narendrasya kaikeyī-pramukhāḥ striyaḥ ..2..
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः । ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥
रुदन्त्यः शोक-सन्तप्ताः निपेतुः गत-चेतनाः । ताभिः स बलवान् नादः क्रोशन्तीभिः अनुद्रुतः ॥२॥
rudantyaḥ śoka-santaptāḥ nipetuḥ gata-cetanāḥ . tābhiḥ sa balavān nādaḥ krośantībhiḥ anudrutaḥ ..2..
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् । तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥
येन स्फीतीकृतः भूयस् तत् गृहम् समनादयत् । तत् समुत्त्रस्त-सम्भ्रान्तम् पर्युत्सुक-जन-आकुलम् ॥२॥
yena sphītīkṛtaḥ bhūyas tat gṛham samanādayat . tat samuttrasta-sambhrāntam paryutsuka-jana-ākulam ..2..
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् । सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥
सर्वतस् तुमुल-आक्रन्दम् परिताप-आर्त-बान्धवम् । सद्यस् निपतित-आनन्दम् दीन-विक्लव-दर्शनम् ॥२॥
sarvatas tumula-ākrandam paritāpa-ārta-bāndhavam . sadyas nipatita-ānandam dīna-viklava-darśanam ..2..
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः । अतीतम् आज्ञाय तु पार्थिव ऋषभम् । यशस्विनम् सम्परिवार्य पत्नयः । भृशम् रुदन्त्यः करुणम् सुदुह्खिताः । प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥
बभूव नर-देवस्य सद्म दिष्ट-अन्तम् ईयुषः । अतीतम् आज्ञाय तु पार्थिव ऋषभम् । यशस्विनम् सम्परिवार्य पत्नयः । भृशम् रुदन्त्यः करुणम् सुदुह्खिताः । प्रगृह्य बाहू व्यलपन् अनाथ-वत् ॥२॥
babhūva nara-devasya sadma diṣṭa-antam īyuṣaḥ . atītam ājñāya tu pārthiva ṛṣabham . yaśasvinam samparivārya patnayaḥ . bhṛśam rudantyaḥ karuṇam suduhkhitāḥ . pragṛhya bāhū vyalapan anātha-vat ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In