This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षट्षष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..2..
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् । हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
तम् अग्निम् इव सम्शान्तम् अम्बु-हीनम् इव अर्णवम् । हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२॥
tam agnim iva samśāntam ambu-hīnam iva arṇavam . hataprabham iva ādityam svargatham prekṣya bhūmipam ..2..
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता । उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥
कौसल्या बाष्प-पूर्ण-अक्षी विविधम् शोक-कर्शिता । उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२॥
kausalyā bāṣpa-pūrṇa-akṣī vividham śoka-karśitā . upagṛhya śiraḥ rājñaḥ kaikeyīm pratyabhāṣata ..2..
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् । त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥
स कामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् । त्यक्त्वा राजानम् एक-अग्रा नृशम्से दुष्ट-चारिणि ॥२॥
sa kāmā bhava kaikeyi bhunkṣva rājyam akaṇṭakam . tyaktvā rājānam eka-agrā nṛśamse duṣṭa-cāriṇi ..2..
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम । विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम । विपथे सार्थ-हीना इव न अहम् जीवितुम् उत्सहे ॥२॥
vihāya mām gataḥ rāmaḥ bhartā ca svar gataḥ mama . vipathe sārtha-hīnā iva na aham jīvitum utsahe ..2..
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः । इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः । इच्चेद् जीवितुम् अन्यत्र कैकेय्याः त्यक्त-धर्मणः ॥२॥
bhartāram tam parityajya kā strī daivatam ātmanaḥ . icced jīvitum anyatra kaikeyyāḥ tyakta-dharmaṇaḥ ..2..
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् । कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥
न लुब्धः बुध्यते दोषान् किम् पाकम् इव भक्षयन् । कुब्जा-निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२॥
na lubdhaḥ budhyate doṣān kim pākam iva bhakṣayan . kubjā-nimittam kaikeyyā rāghavāṇān kulam hatam ..2..
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् । सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् । सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२॥
aniyoge niyuktena rājñā rāmam vivāsitam . sabhāryam janakaḥ śrutvā patitapsyati aham yathā ..2..
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः । रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥
स माम् अनाथाम् विधवाम् न अद्य जानाति धार्मिकः । रामः कमल-पत्र-अक्षः जीव-नाशम् इतः गतः ॥२॥
sa mām anāthām vidhavām na adya jānāti dhārmikaḥ . rāmaḥ kamala-patra-akṣaḥ jīva-nāśam itaḥ gataḥ ..2..
विदेह राजस्य सुता तहा सीता तपस्विनी । दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥
विदेह-राजस्य सुता सीता तपस्विनी । दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२॥
videha-rājasya sutā sītā tapasvinī . duhkhasya anucitā duhkham vane paryudvijiṣyati ..2..
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् । निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥
नदताम् भीम-घोषाणाम् निशासु मृग-पक्षिणाम् । निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२॥
nadatām bhīma-ghoṣāṇām niśāsu mṛga-pakṣiṇām . niśamya nūnam samstrastā rāghavam samśrayiṣyati ..2..
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् । सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥
वृद्धः चएव अल्प-पुत्रः च वैदेहीम् अनिचिन्तयन् । सः अपि शोक-समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२॥
vṛddhaḥ caeva alpa-putraḥ ca vaidehīm anicintayan . saḥ api śoka-samāviṣṭaḥ nanu tyakṣyati jīvitam ..2..
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता । इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥
सा अहम् अद्य एव दिष्टान्तम् गमिष्यामि पतिव्रता । इदम् शरीरम् आलिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२॥
sā aham adya eva diṣṭāntam gamiṣyāmi pativratā . idam śarīram āliṅgya pravekṣyāmi hutāśanam ..2..
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् । व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥
ताम् ततस् सम्परिष्वज्य विलपन्तीम् तपस्विनीम् । व्यपनिन्युः सुदुह्ख-आर्ताम् कौसल्याम् व्यावहारिकाः ॥२॥
tām tatas sampariṣvajya vilapantīm tapasvinīm . vyapaninyuḥ suduhkha-ārtām kausalyām vyāvahārikāḥ ..2..
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् । राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥
तैल-द्रोण्याम् अथ अमात्याः सम्वेश्य जगती-पतिम् । राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२॥
taila-droṇyām atha amātyāḥ samveśya jagatī-patim . rājñaḥ sarvāṇi atha ādiṣṭāḥ cakruḥ karmāṇi anantaram ..2..
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥
न तु सम्कलनम् राज्ञः विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुम् ईषुः ते ततस् रक्षन्ति भूमिपम् ॥२॥
na tu samkalanam rājñaḥ vinā putreṇa mantriṇaḥ . sarvajñāḥ kartum īṣuḥ te tatas rakṣanti bhūmipam ..2..
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् । हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥
तैल-द्रोण्याम् तु सचिवैः शायितम् तम् नर-अधिपम् । हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२॥
taila-droṇyām tu sacivaiḥ śāyitam tam nara-adhipam . hā mṛtaḥ ayam iti jñātvā striyaḥ tāḥ paryadevayan ..2..
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः । रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥
बाहून् उद्यम्य कृपणा नेत्र-प्रस्रवणैः मुखैः । रुदन्त्यः शोक-सम्तप्ताः कृपणम् पर्यदेवयन् ॥२॥
bāhūn udyamya kṛpaṇā netra-prasravaṇaiḥ mukhaiḥ . rudantyaḥ śoka-samtaptāḥ kṛpaṇam paryadevayan ..2..
हा महाराज रामेण सततम् प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥
हा महा-राज रामेण सततम् प्रिय-वादिना । विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२॥
hā mahā-rāja rāmeṇa satatam priya-vādinā . vihīnāḥ satyasandhena kimartham vijahāsi naḥ ..2..
कैकेय्या दुष्टभावाया राघवेण वियोजिताः । कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥
कैकेय्याः दुष्ट-भावायाः राघवेण वियोजिताः । कथम् पति-घ्न्याः वत्स्यामः समीपे विधवाः वयम् ॥२॥
kaikeyyāḥ duṣṭa-bhāvāyāḥ rāghaveṇa viyojitāḥ . katham pati-ghnyāḥ vatsyāmaḥ samīpe vidhavāḥ vayam ..2..
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् । वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥
स हि नाथः सदा अस्माकम् तव च प्रभुः आत्मवान् । वनम् रामः गतः श्रीमान् विहाय नृपति-श्रियम् ॥२॥
sa hi nāthaḥ sadā asmākam tava ca prabhuḥ ātmavān . vanam rāmaḥ gataḥ śrīmān vihāya nṛpati-śriyam ..2..
त्वया तेन च वीरेण विना व्यसनमोहिताः । कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥
त्वया तेन च वीरेण विना व्यसन-मोहिताः । कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२॥
tvayā tena ca vīreṇa vinā vyasana-mohitāḥ . katham vayam nivatsyāmaḥ kaikeyyā ca vidūṣitāḥ ..2..
यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥
यया तु राजा रामः च लक्ष्मणः च महा-बलः । सीतया सह सम्त्यक्ताः सा कमन्यम् न हास्यति ॥२॥
yayā tu rājā rāmaḥ ca lakṣmaṇaḥ ca mahā-balaḥ . sītayā saha samtyaktāḥ sā kamanyam na hāsyati ..2..
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥
ताः बाष्पेण च सम्वीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दाः राघवस्य वर-स्त्रीयः ॥२॥
tāḥ bāṣpeṇa ca samvītāḥ śokena vipulena ca . vyaveṣṭanta nirānandāḥ rāghavasya vara-strīyaḥ ..2..
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता । पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥
निशा-नक्षत्र-हीना इव स्त्री इव भर्तृ-विवर्जिता । पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२॥
niśā-nakṣatra-hīnā iva strī iva bhartṛ-vivarjitā . purī na arājata ayodhyā hīnā rājñā mahātmanā ..2..
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना । शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥
बाष्प-पर्याकुल-जना हाहा-भूत-कुल-अन्गना । शून्य-चत्वर-वेश्म-अन्ता न बभ्राज यथा पुरम् ॥२॥
bāṣpa-paryākula-janā hāhā-bhūta-kula-anganā . śūnya-catvara-veśma-antā na babhrāja yathā puram ..2..
गत प्रभा द्यौर् इव भास्करम् विना । व्यपेत नक्षत्र गणा इव शर्वरी । निवृत्तचारः सहसा गतो रविः । प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥
गत प्रभा द्यौः इव भास्करम् विना । व्यपेत नक्षत्र-गणा इव शर्वरी । निवृत्त-चारः सहसा गतः रविः । प्रवृत्त-चारा राजनी हि उपस्थिता ॥२॥
gata prabhā dyauḥ iva bhāskaram vinā . vyapeta nakṣatra-gaṇā iva śarvarī . nivṛtta-cāraḥ sahasā gataḥ raviḥ . pravṛtta-cārā rājanī hi upasthitā ..2..
ऋते तु पुत्राद्दहनम् महीपते । र्नरोचयन्ते सुहृदः समागताः । इतीव तस्मिन् शयने न्यवेशय । न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥
ऋते तु पुत्रात् दहनम् महीपते । सुहृदः समागताः । इति इव तस्मिन् शयने न्यवेशय । नु इचिन्त्य राजानम् अ चिन्त्य दर्शनम् ॥२॥
ṛte tu putrāt dahanam mahīpate . suhṛdaḥ samāgatāḥ . iti iva tasmin śayane nyaveśaya . nu icintya rājānam a cintya darśanam ..2..
गतप्रभा द्यौरिव भास्करम् विना । व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता मह आत्मना । न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥
गत-प्रभा द्यौः इव भास्करम् विना । व्यपेत-नक्षत्र-गणा इव शर्वरी । पुरी बभासे रहिता महः आत्मना । न च अस्र-कण्ठ-आकुल-मार्ग-चत्वरा ॥२॥
gata-prabhā dyauḥ iva bhāskaram vinā . vyapeta-nakṣatra-gaṇā iva śarvarī . purī babhāse rahitā mahaḥ ātmanā . na ca asra-kaṇṭha-ākula-mārga-catvarā ..2..
नराः च नार्यः च समेत्य सम्घशो । विगर्हमाणा भरतस्य मातरम् । तदा नगर्याम् नर देव सम्क्षये । बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥
नराः च नार्यः च समेत्य सम्घशो । विगर्हमाणाः भरतस्य मातरम् । तदा नगर्याम् नर-देव-सम्क्षये । बभूवुः आर्ताः न च शर्म लेभिरे ॥२॥
narāḥ ca nāryaḥ ca sametya samghaśo . vigarhamāṇāḥ bharatasya mātaram . tadā nagaryām nara-deva-samkṣaye . babhūvuḥ ārtāḥ na ca śarma lebhire ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In