This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..2..
आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला । आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥
आक्रन्दित-निरानन्दा स अस्र-कम्ठ-जन-आविला । आयोध्यायाम् अतितता सा व्यतीयाय शर्वरी ॥२॥
ākrandita-nirānandā sa asra-kamṭha-jana-āvilā . āyodhyāyām atitatā sā vyatīyāya śarvarī ..2..
व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः । समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥
व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततस् । समेत्य राज कर्तारः सभाम् ईयुः द्विजातयः ॥२॥
vyatītāyām tu śarvaryām ādityasya udaye tatas . sametya rāja kartāraḥ sabhām īyuḥ dvijātayaḥ ..2..
मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः । कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥
मार्कण्डेयः अथ मौद्गल्यः वामदेवः च काश्यपः । कात्ययनः गौतमः च जाबालिः च महा-यशाः ॥२॥
mārkaṇḍeyaḥ atha maudgalyaḥ vāmadevaḥ ca kāśyapaḥ . kātyayanaḥ gautamaḥ ca jābāliḥ ca mahā-yaśāḥ ..2..
एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् । वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥
एते द्विजाः सह अमात्यैः पृथक् वाचम् उदीरयन् । वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज-पुरोहितम् ॥२॥
ete dvijāḥ saha amātyaiḥ pṛthak vācam udīrayan . vasiṣṭham eva abhimukhāḥ śreṣṭhaḥ rāja-purohitam ..2..
अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा । अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥
अतीता शर्वरी दुह्खम् या नः वर्ष शत-उपमा । अस्मिन् पन्चत्वम् आपन्ने पुत्र-शोकेन पार्थिवे ॥२॥
atītā śarvarī duhkham yā naḥ varṣa śata-upamā . asmin pancatvam āpanne putra-śokena pārthive ..2..
स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः । लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥
स्वर्-गतः च महा-राजो रामः च अरण्यम् आश्रितः । लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२॥
svar-gataḥ ca mahā-rājo rāmaḥ ca araṇyam āśritaḥ . lakṣmaṇaḥ ca api tejasvī rāmeṇa eva gataḥ saha ..2..
उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ । पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥
उभौ भरत-शत्रुघ्नौ क्केकयेषु परम् तपौ । पुरे राज-गृहे रम्ये मातामह-निवेशने ॥२॥
ubhau bharata-śatrughnau kkekayeṣu param tapau . pure rāja-gṛhe ramye mātāmaha-niveśane ..2..
इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् । अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥
इक्ष्वाकूणाम् इह अद्य एव कश्चिद् राजा विधीयताम् । अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२॥
ikṣvākūṇām iha adya eva kaścid rājā vidhīyatām . arājakam hi no rāṣṭram na vināśam avāpnuyāt ..2..
न अराजले जन पदे विद्युन् माली महा स्वनः । अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥
न अराजले जन-पदे विद्युन्-माली महा-स्वनः । अभिवर्षति पर्जन्यः महीम् दिव्येन वारिणा ॥२॥
na arājale jana-pade vidyun-mālī mahā-svanaḥ . abhivarṣati parjanyaḥ mahīm divyena vāriṇā ..2..
न अराजके जन पदे बीज मुष्टिः प्रकीर्यते । न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥
न अराजके जन-पदे बीज-मुष्टिः प्रकीर्यते । न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२॥
na arājake jana-pade bīja-muṣṭiḥ prakīryate . na arākake pituḥ putraḥ bhāryā vā vartate vaśe ..2..
अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके । इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥
अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके । इदम् अत्याहितम् च अन्यत् कुतस् सत्यम् अराजके ॥२॥
arājake dhanam na asti na asti bhāryā api arājake . idam atyāhitam ca anyat kutas satyam arājake ..2..
न अराजके जन पदे कारयन्ति सभाम् नराः । उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥
न अराजके जन-पदे कारयन्ति सभाम् नराः । उद्यानानि च रम्याणि हृष्टाः पुण्य-गृहाणि च ॥२॥
na arājake jana-pade kārayanti sabhām narāḥ . udyānāni ca ramyāṇi hṛṣṭāḥ puṇya-gṛhāṇi ca ..2..
न अराजके जन पदे यज्ञ शीला द्विजातयः । सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥
न अराजके जन-पदे यज्ञ-शीलाः द्विजातयः । सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित-व्रताः ॥२॥
na arājake jana-pade yajña-śīlāḥ dvijātayaḥ . satrāṇi anvāsate dāntā brāhmaṇāḥ samśita-vratāḥ ..2..
न अराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥
न अराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणाः वसु-सम्पन्नाः विसृजन्ति आप्त-दक्षिणाः ॥२॥
na arājake janapade mahāyajñeṣu yajvanaḥ . brāhmaṇāḥ vasu-sampannāḥ visṛjanti āpta-dakṣiṇāḥ ..2..
न अराजके जन पदे प्रभूत नट नर्तकाः । उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥
न अराजके जन-पदे प्रभूत-नट-नर्तकाः । उत्सवाः च समाजाः च वर्धन्ते राष्ट्र-वर्धनाः ॥२॥
na arājake jana-pade prabhūta-naṭa-nartakāḥ . utsavāḥ ca samājāḥ ca vardhante rāṣṭra-vardhanāḥ ..2..
न अरजके जन पदे सिद्ध अर्था व्यवहारिणः । कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥
न अरजके जन-पदे सिद्ध-अर्थाः व्यवहारिणः । कथाभिः अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२॥
na arajake jana-pade siddha-arthāḥ vyavahāriṇaḥ . kathābhiḥ anurajyante kathā śīlāḥ kathā priyaiḥ ..2..
न अराजके जनपदे उद्यानानि समागताः । सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥
न अराजके जनपदे उद्यानानि समागताः । सायाह्ने क्रीडितुम् यान्ति कुमार्यः हेम-भूषिताः ॥२॥
na arājake janapade udyānāni samāgatāḥ . sāyāhne krīḍitum yānti kumāryaḥ hema-bhūṣitāḥ ..2..
न अराजके जन पदे वाहनैः शीघ्र गामिभिः । नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥
न अराजके जन-पदे वाहनैः शीघ्र-गामिभिः । नराः निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२॥
na arājake jana-pade vāhanaiḥ śīghra-gāmibhiḥ . narāḥ niryānti araṇyāni nārībhiḥ saha kāminaḥ ..2..
न अराकजे जन पदे धनवन्तः सुरक्षिताः । शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥
न अराकजे जन-पदे धनवन्तः सुरक्षिताः । शेरते विवृत-द्वाराः कृषि-गो-रक्ष-जीविनः ॥२॥
na arākaje jana-pade dhanavantaḥ surakṣitāḥ . śerate vivṛta-dvārāḥ kṛṣi-go-rakṣa-jīvinaḥ ..2..
न अराजके जनपदे बद्दघण्टा विषाणीनः । आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥
न अराजके जनपदे बद्दघण्टा विषाणीनः । आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२॥
na arājake janapade baddaghaṇṭā viṣāṇīnaḥ . āṭanti rājamārgeṣu kuñjarāḥ ṣaṣṭihāyanāḥ ..2..
न अराजके जनपदे शरान् सम्ततमस्यताम् । श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥
न अराजके जनपदे शरान् सम्ततमस्यताम् । श्रूयते तल-निर्घोषः इषु-अस्त्राणाम् उपासने ॥२॥
na arājake janapade śarān samtatamasyatām . śrūyate tala-nirghoṣaḥ iṣu-astrāṇām upāsane ..2..
न अराजके जन पदे वणिजो दूर गामिनः । गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥
न अराजके जन-पदे वणिजः दूर-गामिनः । गच्चन्ति क्षेमम् अध्वानम् बहु-पुण्य-समाचिताः ॥२॥
na arājake jana-pade vaṇijaḥ dūra-gāminaḥ . gaccanti kṣemam adhvānam bahu-puṇya-samācitāḥ ..2..
न अराजके जन पदे चरति एक चरः वशी । भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥
न अराजके जन-पदे चरति एक-चरः वशी । भावयन् आत्मना आत्मानम् यत्र सायम् गृहः मुनिः ॥२॥
na arājake jana-pade carati eka-caraḥ vaśī . bhāvayan ātmanā ātmānam yatra sāyam gṛhaḥ muniḥ ..2..
न अराजके जन पदे योग क्षेमम् प्रवर्तते । न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥
न अराजके जन-पदे योग-क्षेमम् प्रवर्तते । न च अपि अराजके सेना शत्रून् विषहते युधि ॥२॥
na arājake jana-pade yoga-kṣemam pravartate . na ca api arājake senā śatrūn viṣahate yudhi ..2..
न अराजके जनपदे हृष्टैः परमवाजिभिः । नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥
न अराजके जनपदे हृष्टैः परम-वाजिभिः । नराः सम्यान्ति सहसा रथैः च परिमण्डिताः ॥२॥
na arājake janapade hṛṣṭaiḥ parama-vājibhiḥ . narāḥ samyānti sahasā rathaiḥ ca parimaṇḍitāḥ ..2..
न अराजके जनपदे नराः शास्त्रविशारदाः । सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥
न अराजके जनपदे नराः शास्त्र-विशारदाः । सम्पद्-अन्तः अवतिष्ठन्ते वनेषु उपवनेषु च ॥२॥
na arājake janapade narāḥ śāstra-viśāradāḥ . sampad-antaḥ avatiṣṭhante vaneṣu upavaneṣu ca ..2..
न अराजके जनपदे माल्यमोदकदक्षिणाः । देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥
न अराजके जनपदे माल्य-मोदक-दक्षिणाः । कल्प्यन्ते नियतैः जनैः ॥२॥
na arājake janapade mālya-modaka-dakṣiṇāḥ . kalpyante niyataiḥ janaiḥ ..2..
न अराजके जनपदे चन्दनागुरुरूषिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥
न अराजके जनपदे चन्दन-अगुरु-रूषिताः । राज-पुत्राः विराजन्ते वसन्ते इव शाखिनः ॥२॥
na arājake janapade candana-aguru-rūṣitāḥ . rāja-putrāḥ virājante vasante iva śākhinaḥ ..2..
यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् । अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥
यथा हि अनुदकाः नद्यः यथा वा अपि अतृणम् वनम् । अगोपालाः यथा गावः तथा राष्ट्रम् अराजकम् ॥२॥
yathā hi anudakāḥ nadyaḥ yathā vā api atṛṇam vanam . agopālāḥ yathā gāvaḥ tathā rāṣṭram arājakam ..2..
ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः । तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥
ध्वजः रथस्य प्रज्ञानम् धूमः ज्ञानम् विभावसोः । तेषाम् यः नः ध्वजः राज स देव-त्वम् इतस् गतः ॥२॥
dhvajaḥ rathasya prajñānam dhūmaḥ jñānam vibhāvasoḥ . teṣām yaḥ naḥ dhvajaḥ rāja sa deva-tvam itas gataḥ ..2..
न अराजके जन पदे स्वकम् भवति कस्यचित् । मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥
न अराजके जन-पदे स्वकम् भवति कस्यचिद् । मत्स्याः इव नराः नित्यम् भक्षयन्ति परस्परम् ॥२॥
na arājake jana-pade svakam bhavati kasyacid . matsyāḥ iva narāḥ nityam bhakṣayanti parasparam ..2..
येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः । ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥
येहि सम्भिन्न-मर्यादा नास्तिकाः चिन्न-सम्शयाः । ते अपि भावाय कल्पन्ते राज-दण्ड-निपीडिताः ॥२॥
yehi sambhinna-maryādā nāstikāḥ cinna-samśayāḥ . te api bhāvāya kalpante rāja-daṇḍa-nipīḍitāḥ ..2..
यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥
यथा दृष्टिः शरीरस्य नित्यम् एव प्रवर्तते । तथा नरेन्द्रः राष्ट्रस्य प्रभवः सत्य-धर्मयोः ॥२॥
yathā dṛṣṭiḥ śarīrasya nityam eva pravartate . tathā narendraḥ rāṣṭrasya prabhavaḥ satya-dharmayoḥ ..2..
राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥
राजा सत्यम् च धर्मः च राजा कुलवताम् कुलम् । राजा माता पिता च एव राजा हित-करः नृणाम् ॥२॥
rājā satyam ca dharmaḥ ca rājā kulavatām kulam . rājā mātā pitā ca eva rājā hita-karaḥ nṛṇām ..2..
यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥
यमः वैश्रवणः शक्रः वरुणः च महा-बलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततस् ॥२॥
yamaḥ vaiśravaṇaḥ śakraḥ varuṇaḥ ca mahā-balaḥ . viśeṣyante narendreṇa vṛttena mahātā tatas ..2..
अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन । राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥
अहो तमा एव इदम् स्यात् न प्रज्ञायेत किम्चन । राजा चेद् न भवेत् लोके विभजन् साधु असाधुनी ॥२॥
aho tamā eva idam syāt na prajñāyeta kimcana . rājā ced na bhavet loke vibhajan sādhu asādhunī ..2..
जीवति अपि महा राजे तव एव वचनम् वयम् । न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥
जीवति अपि महा-राजे तव एव वचनम् वयम् । न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२॥
jīvati api mahā-rāje tava eva vacanam vayam . na atikramāmahe sarve velām prāpya iva sāgaraḥ ..2..
स नः समीक्ष्य द्विज वर्य वृत्तम् । नृपम् विना राज्यम् अरण्य भूतम् । कुमारम् इक्ष्वाकु सुतम् वदान्यम् । त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥
स नः समीक्ष्य द्विज-वर्य-वृत्तम् । नृपम् विना राज्यम् अरण्य-भूतम् । कुमारम् इक्ष्वाकु-सुतम् वदान्यम् । त्वम् एव राजानम् इह अभिषिन्चय ॥२॥
sa naḥ samīkṣya dvija-varya-vṛttam . nṛpam vinā rājyam araṇya-bhūtam . kumāram ikṣvāku-sutam vadānyam . tvam eva rājānam iha abhiṣincaya ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In