This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..2..
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्र-अमात्य-गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२॥
teṣām tat vacanam śrutvā vasiṣṭhaḥ pratyuvāca ha . mitra-amātya-gaṇān sarvān brāhmaṇāms tān idam vacaḥ ..2..
यद् असौ मातुल कुले पुरे राज गृहे सुखी । भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥
यत् असौ मातुल-कुले पुरे राज-गृहे सुखी । भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२॥
yat asau mātula-kule pure rāja-gṛhe sukhī . bharataḥ vasati bhrātrā śatrughnena samanvitaḥ ..2..
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः । आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥
तत् शीघ्रम् जवना दूताः गच्चन्तु त्वरितैः हयैः । आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२॥
tat śīghram javanā dūtāḥ gaccantu tvaritaiḥ hayaiḥ . ānetum bhrātarau vīrau kim samīkṣāmahe vayam ..2..
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् । तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥
गच्चन्तु इति ततस् सर्वे वसिष्ठम् वाक्यम् अब्रुवन् । तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः वाक्यम् अब्रवीत् ॥२॥
gaccantu iti tatas sarve vasiṣṭham vākyam abruvan . teṣām tat vacanam śrutvā vasiṣṭhaḥ vākyam abravīt ..2..
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन । श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥
एहि सिद्ध-अर्थ-विजय जयन्त अशोक-नन्दन । श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२॥
ehi siddha-artha-vijaya jayanta aśoka-nandana . śrūyatām itikartavyam sarvān eva bravīmi vaḥ ..2..
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः । त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥
पुरम् राज-गृहम् गत्वा शीघ्रम् शीघ्र-जवैः हयैः । त्यक्त-शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२॥
puram rāja-gṛham gatvā śīghram śīghra-javaiḥ hayaiḥ . tyakta-śokaiḥ idam vācyaḥ śāsanāt bharataḥ mama ..2..
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२॥
purohitaḥ tvām kuśalam prāha sarve ca mantriṇaḥ . tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā ..2..
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् । भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् । भवन्तः शम्सिषुः गत्वा राघवाणाम् इमम् क्षयम् ॥२॥
mā ca asmai proṣitam rāmam mā ca asmai pitaram mṛtam . bhavantaḥ śamsiṣuḥ gatvā rāghavāṇām imam kṣayam ..2..
कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥
कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२॥
kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca . kṣipram ādāya rājñaḥ ca bharatasya ca gaccata ..2..
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् । केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥
दत्त-पथि-अशनाः दूताः जग्मुः स्वम् स्वम् निवेशनम् । केकयान् ते गमिष्यन्तः हयान् आरुह्य सम्मतान् ॥२॥
datta-pathi-aśanāḥ dūtāḥ jagmuḥ svam svam niveśanam . kekayān te gamiṣyantaḥ hayān āruhya sammatān ..2..
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥
ततस् प्रास्थानिकम् कृत्वा कार्य-शेषम् अनन्तरम् । वसिष्ठेन अभ्यनुज्ञाताः दूताः सम्त्वरिताः ययुः ॥२॥
tatas prāsthānikam kṛtvā kārya-śeṣam anantaram . vasiṣṭhena abhyanujñātāḥ dūtāḥ samtvaritāḥ yayuḥ ..2..
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति । निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥
न्यन्तेन अपर-तालस्य प्रलम्बस्य उत्तरम् प्रति । निषेवमाणाः ते जग्मुः नदीम् मध्येन मालिनीम् ॥२॥
nyantena apara-tālasya pralambasya uttaram prati . niṣevamāṇāḥ te jagmuḥ nadīm madhyena mālinīm ..2..
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः । पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यक्-मुखाः ययुः । पाञल-देशम् आसाद्य मध्येन कुरुजाङ्गलम् ॥२॥
te hastināpure gaṅgām tīrtvā pratyak-mukhāḥ yayuḥ . pāñala-deśam āsādya madhyena kurujāṅgalam ..2..
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥
सराम्सि च सु पूर्णानि नदीः च विमल-उदकाः । निरीक्षमाणाः ते जग्मुः दूताः कार्य-वशात् द्रुतम् ॥२॥
sarāmsi ca su pūrṇāni nadīḥ ca vimala-udakāḥ . nirīkṣamāṇāḥ te jagmuḥ dūtāḥ kārya-vaśāt drutam ..2..
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥
ते प्रसन्न-उदकाम् दिव्याम् नाना विहग-सेविताम् । उपातिजग्मुः वेगेन शरदण्डाम् जन-आकुलाम् ॥२॥
te prasanna-udakām divyām nānā vihaga-sevitām . upātijagmuḥ vegena śaradaṇḍām jana-ākulām ..2..
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् । अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥
निकूलवृक्षम् आसाद्य दिव्यम् सत्य-उपयाचनम् । अभिगम्य अभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२॥
nikūlavṛkṣam āsādya divyam satya-upayācanam . abhigamya abhivādyam tam kuliṅgām prāviśan purīm ..2..
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् । पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥
अभिकालम् ततस् प्राप्यते बोधि-भवनात् च्युताम् । पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२॥
abhikālam tatas prāpyate bodhi-bhavanāt cyutām . pitṛpaitāmahīm puṇyām terurikṣumatīm nadīm ..2..
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् । ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥
ब्राह्मणान् वेदपारगान् । ययुः मध्येन वाह्लीकान् सुदामानम् च पर्वतम् ॥२॥
brāhmaṇān vedapāragān . yayuḥ madhyena vāhlīkān sudāmānam ca parvatam ..2..
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् । नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥
विष्णोः पदम् प्रेक्षमाणा विपाशाम् च अपि शाल्मालीम् । नदीः वापीः तटाकानि पल्वलानि सराम्सि च ॥२॥
viṣṇoḥ padam prekṣamāṇā vipāśām ca api śālmālīm . nadīḥ vāpīḥ taṭākāni palvalāni sarāmsi ca ..2..
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् । ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥
पस्यन्तः विविधान् च अपि सिम-हव्य-अग्र-मृग-द्विपान् । ययुः पथा अति महता शासनम् भर्तुः ईप्सवः ॥२॥
pasyantaḥ vividhān ca api sima-havya-agra-mṛga-dvipān . yayuḥ pathā ati mahatā śāsanam bhartuḥ īpsavaḥ ..2..
ते श्रान्त वाहना दूता विकृष्टेन सता पथा । गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥
ते श्रान्त-वाहना दूता विकृष्टेन सता पथा । गिरि-व्रजम् पुर-वरम् शीघ्रम् आसेदुः अन्जसा ॥२॥
te śrānta-vāhanā dūtā vikṛṣṭena satā pathā . giri-vrajam pura-varam śīghram āseduḥ anjasā ..2..
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् । भर्तुः च वम्शस्य परिग्रह अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥
भर्तुः प्रिय-अर्थम् कुल-रक्षण-अर्थम् । भर्तुः च वम्शस्य परिग्रह-अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२॥
bhartuḥ priya-artham kula-rakṣaṇa-artham . bhartuḥ ca vamśasya parigraha-artham . aheḍamānāḥ tvarayā sma dūtā . rātryām tu te tat puram eva yātāḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In