This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकोनसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekonasaptatitamaḥ sargaḥ ..2..
याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् । भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥
याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् । भरतेन अपि ताम् रात्रिम् स्वप्नः दृष्टः अयम् अप्रियः ॥२॥
yām eva rātrim te dūtāḥ praviśanti sma tām purīm . bharatena api tām rātrim svapnaḥ dṛṣṭaḥ ayam apriyaḥ ..2..
व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् । पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥
व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् । पुत्रः राज-अधिराजस्य सुभृशम् पर्यतप्यत ॥२॥
vyuṣṭām eva tu tām rātrim dṛṣṭvā tam svapnam apriyam . putraḥ rāja-adhirājasya subhṛśam paryatapyata ..2..
तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः । आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥
तप्यमानम् समाज्ञाय वयस्याः प्रिय-वादिनः । आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२॥
tapyamānam samājñāya vayasyāḥ priya-vādinaḥ . āyāsam hi vineṣyantaḥ sabhāyām cakrire kathāḥ ..2..
वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे । नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥
वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे । नाटकानि अपरे प्राहुः हास्यानि विविधानि च ॥२॥
vādayanti tathā śāntim lāsayanti api ca apare . nāṭakāni apare prāhuḥ hāsyāni vividhāni ca ..2..
स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः । गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥
स तैः महात्मा भरतः सखिभिः प्रिय-वादिभिः । गोष्ठी हास्यानि कुर्वद्भिः न प्राहृष्यत राघवः ॥२॥
sa taiḥ mahātmā bharataḥ sakhibhiḥ priya-vādibhiḥ . goṣṭhī hāsyāni kurvadbhiḥ na prāhṛṣyata rāghavaḥ ..2..
तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् । सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥
तम् अब्रवीत् प्रिय-सखः भरतम् सखिभिः वृतम् । सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२॥
tam abravīt priya-sakhaḥ bharatam sakhibhiḥ vṛtam . suhṛdbhiḥ paryupāsīnaḥ kim sakhe na anumodase ..2..
एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह । शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥
एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह । शृणु त्वम् यत् निमित्तम्मे मे दैन्यम् एतत् उपागतम् ॥२॥
evam bruvāṇam suhṛdam bharataḥ pratyuvāca ha . śṛṇu tvam yat nimittamme me dainyam etat upāgatam ..2..
स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् । पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥
स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त-मूर्धजम् । पतन्तम् अद्रि-शिखरात् कलुषे गोमये ह्रदे ॥२॥
svapne pitaram adrākṣam malinam mukta-mūrdhajam . patantam adri-śikharāt kaluṣe gomaye hrade ..2..
प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे । पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥
प्लवमानः च मे दृष्टः स तस्मिन् गोमय-ह्रदे । पिबन् अन्जलिना तैलम् हसन् इव मुहुर् मुहुर् ॥२॥
plavamānaḥ ca me dṛṣṭaḥ sa tasmin gomaya-hrade . piban anjalinā tailam hasan iva muhur muhur ..2..
ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः । तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥
ततस् तिलोदनम् भुक्त्वा पुनर् पुनर् अधः शिराः । तैलेन अभ्यक्त-सर्व-अन्गः तैलम् एव अवगाहत ॥२॥
tatas tilodanam bhuktvā punar punar adhaḥ śirāḥ . tailena abhyakta-sarva-angaḥ tailam eva avagāhata ..2..
स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि । सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥
स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि । सहसा च अपि सम्शन्तम् ज्वलितम् जात-वेदसम् ॥२॥
svapne api sāgaram śuṣkam candram ca patitam bhuvi . sahasā ca api samśantam jvalitam jāta-vedasam ..2..
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् । सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् । सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२॥
aupavāhyasya nāgasya viṣāṇam śakalīkṛtam . sahasā cāpi samśāntam jvalitam jātavedasam ..2..
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् । अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् । अहम् पश्यामि विध्वस्तान् सधूमामः च एव पार्वतान् ॥२॥
avadīrṇām ca pṛthivīm śuṣkāmaḥ ca vividhān drumān . aham paśyāmi vidhvastān sadhūmāmaḥ ca eva pārvatān ..2..
पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् । प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥
पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण-वाससम् । प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण-पिन्गलाः ॥२॥
pīṭhe kārṣṇāyase ca enam niṣaṇṇam kṛṣṇa-vāsasam . prahasanti sma rājānam pramadāḥ kṛṣṇa-pingalāḥ ..2..
त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः । रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥
त्वरमाणः च धर्म-आत्मा रक्त-माल्य-अनुलेपनः । रथेन खर-युक्तेन प्रयातः दक्षिणा-मुखः ॥२॥
tvaramāṇaḥ ca dharma-ātmā rakta-mālya-anulepanaḥ . rathena khara-yuktena prayātaḥ dakṣiṇā-mukhaḥ ..2..
प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी । प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥
प्रहसन्ती इव राजानम् प्रमदा रक्त-वासिनी । प्रकर्षन्ती मया दृष्टा राक्षसी विकृत-आसना ॥२॥
prahasantī iva rājānam pramadā rakta-vāsinī . prakarṣantī mayā dṛṣṭā rākṣasī vikṛta-āsanā ..2..
एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् । अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥
एवम् एतत् मया दृष्टम् इमाम् रात्रिम् भय-आवहाम् । अहम् रामः अथ वा राजा लक्ष्मणः वा मरिष्यति ॥२॥
evam etat mayā dṛṣṭam imām rātrim bhaya-āvahām . aham rāmaḥ atha vā rājā lakṣmaṇaḥ vā mariṣyati ..2..
नरः यानेन यः स्वप्ने खर युक्तेन याति हि । अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥
नरः यानेन यः स्वप्ने खर-युक्तेन याति हि । अचिरात् तस्य धूम-अग्रम् चितायाम् सम्प्रदृश्यते ॥२॥
naraḥ yānena yaḥ svapne khara-yuktena yāti hi . acirāt tasya dhūma-agram citāyām sampradṛśyate ..2..
एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये । शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥
एतत् निमित्तम् दीनः अहम् तत् न वः प्रतिपूजये । शुष्यति इव च मे कण्ठः न स्वस्थम् इव मे मनः ॥२॥
etat nimittam dīnaḥ aham tat na vaḥ pratipūjaye . śuṣyati iva ca me kaṇṭhaḥ na svastham iva me manaḥ ..2..
न पश्यामि भयस्थानम् भयम् चैवोपधारये । भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥
न पश्यामि भय-स्थानम् भयम् च एव उपधारये । भ्रष्टः च स्वर-योगः मे चाया च उपहता मम ॥२॥
na paśyāmi bhaya-sthānam bhayam ca eva upadhāraye . bhraṣṭaḥ ca svara-yogaḥ me cāyā ca upahatā mama ..2..
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् । अनेक रूपाम् अवितर्किताम् पुरा । भयम् महत् तद्द् हृदयान् न याति मे । विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥
जुगुप्सन् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न-गतिम् निशाम्य ताम् । अनेक-रूपाम् अवितर्किताम् पुरा । भयम् महत् तत् हृदयात् न याति मे । विचिन्त्य राजानम् अ चिन्त्य दर्शनम् ॥२॥
jugupsan iva ca ātmānam na ca paśyāmi kāraṇam . imām hi duhsvapna-gatim niśāmya tām . aneka-rūpām avitarkitām purā . bhayam mahat tat hṛdayāt na yāti me . vicintya rājānam a cintya darśanam ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekonasaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In