This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptamaḥ sargaḥ ..2..
ज्ञातिदासी यतो जाता कैकेय्या तु सहोषिता।प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया॥ १॥
ज्ञाति-दासी यतस् जाता कैकेय्या तु सह उषिता।प्रासादम् चन्द्र-संकाशम् आरुरोह यदृच्छया॥ १॥
jñāti-dāsī yatas jātā kaikeyyā tu saha uṣitā.prāsādam candra-saṃkāśam āruroha yadṛcchayā.. 1..
सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्।अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत॥ २॥
सिक्त-राज-पथाम् कृत्स्नाम् प्रकीर्ण-कमल-उत्पलाम्।अयोध्याम् मन्थरा तस्मात् प्रासादात् अन्ववैक्षत॥ २॥
sikta-rāja-pathām kṛtsnām prakīrṇa-kamala-utpalām.ayodhyām mantharā tasmāt prāsādāt anvavaikṣata.. 2..
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम्।सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्युताम्॥ ३॥
पताकाभिः वर-अर्हाभिः ध्वजैः च समलंकृताम्।सिक्ताम् चन्दन-तोयैः च शिरः-स्नात-जनैः युताम्॥ ३॥
patākābhiḥ vara-arhābhiḥ dhvajaiḥ ca samalaṃkṛtām.siktām candana-toyaiḥ ca śiraḥ-snāta-janaiḥ yutām.. 3..
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्।शुक्लदेवगृहद्वारां सर्ववादित्रनादिताम्॥ ४॥
माल्य-मोदक-हस्तैः च द्विजेन्द्रैः अभिनादिताम्।शुक्ल-देवगृह-द्वाराम् सर्व-वादित्र-नादिताम्॥ ४॥
mālya-modaka-hastaiḥ ca dvijendraiḥ abhināditām.śukla-devagṛha-dvārām sarva-vāditra-nāditām.. 4..
सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषनिनादिताम्।प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्॥ ५॥
सम्प्रहृष्ट-जन-आकीर्णाम् ब्रह्मघोष-निनादिताम्।प्रहृष्ट-वर-हस्ति-अश्वाम् सम्प्रणर्दित-गो-वृषाम्॥ ५॥
samprahṛṣṭa-jana-ākīrṇām brahmaghoṣa-nināditām.prahṛṣṭa-vara-hasti-aśvām sampraṇardita-go-vṛṣām.. 5..
हृष्टप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्।अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता॥ ६॥
हृष्ट-प्रमुदितैः पौरैः उच्छ्रित-ध्वज-मालिनीम्।अयोध्याम् मन्थरा दृष्ट्वा परम् विस्मयम् आगता॥ ६॥
hṛṣṭa-pramuditaiḥ pauraiḥ ucchrita-dhvaja-mālinīm.ayodhyām mantharā dṛṣṭvā param vismayam āgatā.. 6..
सा हर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम्।अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा॥ ७॥
सा हर्ष-उत्फुल्ल-नयनाम् पाण्डुर-क्षौम-वासिनीम्।अविदूरे स्थिताम् दृष्ट्वा धात्रीम् पप्रच्छ मन्थरा॥ ७॥
sā harṣa-utphulla-nayanām pāṇḍura-kṣauma-vāsinīm.avidūre sthitām dṛṣṭvā dhātrīm papraccha mantharā.. 7..
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती।राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति॥ ८॥
उत्तमेन अभिसंयुक्ता हर्षेण अर्थ-परा सती।राम-माता धनम् किम् नु जनेभ्यः सम्प्रयच्छति॥ ८॥
uttamena abhisaṃyuktā harṣeṇa artha-parā satī.rāma-mātā dhanam kim nu janebhyaḥ samprayacchati.. 8..
अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे।कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः॥ ९॥
अतिमात्रम् प्रहर्षः किम् जनस्य अस्य च शंस मे।कारयिष्यति किम् वा अपि सम्प्रहृष्टः महीपतिः॥ ९॥
atimātram praharṣaḥ kim janasya asya ca śaṃsa me.kārayiṣyati kim vā api samprahṛṣṭaḥ mahīpatiḥ.. 9..
विदीर्यमाणा हर्षेण धात्री तु परया मुदा।आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम्॥ १०॥
विदीर्यमाणा हर्षेण धात्री तु परया मुदा।आचचक्षे अथ कुब्जायै भूयसीम् राघवे श्रियम्॥ १०॥
vidīryamāṇā harṣeṇa dhātrī tu parayā mudā.ācacakṣe atha kubjāyai bhūyasīm rāghave śriyam.. 10..
श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम्।राजा दशरथो राममभिषेक्ता हि राघवम्॥ ११॥
श्वस् पुष्येण जित-क्रोधम् यौवराज्येन च अनघम्।राजा दशरथः रामम् अभिषेक्ता हि राघवम्॥ ११॥
śvas puṣyeṇa jita-krodham yauvarājyena ca anagham.rājā daśarathaḥ rāmam abhiṣektā hi rāghavam.. 11..
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षितः।कैलासशिखराकारात् प्रासादादवरोहत॥ १२॥
धात्र्याः तु वचनम् श्रुत्वा कुब्जा क्षिप्रम् अमर्षितः।कैलास-शिखर-आकारात् प्रासादात् अवरोहत॥ १२॥
dhātryāḥ tu vacanam śrutvā kubjā kṣipram amarṣitaḥ.kailāsa-śikhara-ākārāt prāsādāt avarohata.. 12..
सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी।शयानामेव कैकेयीमिदं वचनमब्रवीत्॥ १३॥
सा दह्यमाना क्रोधेन मन्थरा पाप-दर्शिनी।शयानाम् एव कैकेयीम् इदम् वचनम् अब्रवीत्॥ १३॥
sā dahyamānā krodhena mantharā pāpa-darśinī.śayānām eva kaikeyīm idam vacanam abravīt.. 13..
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते।उपप्लुतमघौघेन नात्मानमवबुध्यसे॥ १४॥
उत्तिष्ठ मूढे किम् शेषे भयम् त्वाम् अभिवर्तते।उपप्लुतम् अघ-ओघेन न आत्मानम् अवबुध्यसे॥ १४॥
uttiṣṭha mūḍhe kim śeṣe bhayam tvām abhivartate.upaplutam agha-oghena na ātmānam avabudhyase.. 14..
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे।चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे॥ १५॥
अनिष्टे सुभग-आकारे सौभाग्येन विकत्थसे।चलम् हि तव सौभाग्यम् नद्याः स्रोतः इव उष्णगे॥ १५॥
aniṣṭe subhaga-ākāre saubhāgyena vikatthase.calam hi tava saubhāgyam nadyāḥ srotaḥ iva uṣṇage.. 15..
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः।कुब्जया पापदर्शिन्या विषादमगमत् परम्॥ १६॥
एवम् उक्ता तु कैकेयी रुष्टया परुषम् वचः।कुब्जया पाप-दर्शिन्या विषादम् अगमत् परम्॥ १६॥
evam uktā tu kaikeyī ruṣṭayā paruṣam vacaḥ.kubjayā pāpa-darśinyā viṣādam agamat param.. 16..
कैकेयी त्वब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे।विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्॥ १७॥
कैकेयी तु अब्रवीत् कुब्जाम् कच्चित् क्षेमम् न मन्थरे।विषण्ण-वदनाम् हि त्वाम् लक्षये भृश-दुःखिताम्॥ १७॥
kaikeyī tu abravīt kubjām kaccit kṣemam na manthare.viṣaṇṇa-vadanām hi tvām lakṣaye bhṛśa-duḥkhitām.. 17..
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्।उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा॥ १८॥
मन्थरा तु वचः श्रुत्वा कैकेय्याः मधुर-अक्षरम्।उवाच क्रोध-संयुक्ता वाक्यम् वाक्य-विशारदा॥ १८॥
mantharā tu vacaḥ śrutvā kaikeyyāḥ madhura-akṣaram.uvāca krodha-saṃyuktā vākyam vākya-viśāradā.. 18..
सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणी।विषादयन्ती प्रोवाच भेदयन्ती च राघवम्॥ १९॥
सा विषण्णतरा भूत्वा कुब्जा तस्याम् हित-एषिणी।विषादयन्ती प्रोवाच भेदयन्ती च राघवम्॥ १९॥
sā viṣaṇṇatarā bhūtvā kubjā tasyām hita-eṣiṇī.viṣādayantī provāca bhedayantī ca rāghavam.. 19..
अक्षयं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम्।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति॥ २०॥
अक्षयम् सु महत् देवि प्रवृत्तम् त्वद्-विनाशनम्।रामम् दशरथः राजा यौवराज्ये अभिषेक्ष्यति॥ २०॥
akṣayam su mahat devi pravṛttam tvad-vināśanam.rāmam daśarathaḥ rājā yauvarājye abhiṣekṣyati.. 20..
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता।दह्यमानानलेनेव त्वद्धितार्थमिहागता॥ २१॥
सा अस्मि अगाधे भये मग्ना दुःख-शोक-समन्विता।दह्यमाना अनलेन इव त्वद्-हित-अर्थम् इह आगता॥ २१॥
sā asmi agādhe bhaye magnā duḥkha-śoka-samanvitā.dahyamānā analena iva tvad-hita-artham iha āgatā.. 21..
तव दुःखेन कैकेयि मम दुःखं महद् भवेत्।त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः॥ २२॥
तव दुःखेन कैकेयि मम दुःखम् महत् भवेत्।त्वद्-वृद्धौ मम वृद्धिः च भवेत् इह न संशयः॥ २२॥
tava duḥkhena kaikeyi mama duḥkham mahat bhavet.tvad-vṛddhau mama vṛddhiḥ ca bhavet iha na saṃśayaḥ.. 22..
नराधिपकुले जाता महिषी त्वं महीपतेः।उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे॥ २३॥
नराधिप-कुले जाता महिषी त्वम् महीपतेः।उग्र-त्वम् राज-धर्माणाम् कथम् देवि न बुध्यसे॥ २३॥
narādhipa-kule jātā mahiṣī tvam mahīpateḥ.ugra-tvam rāja-dharmāṇām katham devi na budhyase.. 23..
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः।शुद्धभावेन जानीषे तेनैवमतिसंधिता॥ २४॥
धर्म-वादी शठः भर्ता श्लक्ष्ण-वादी च दारुणः।शुद्ध-भावेन जानीषे तेन एवम् अति संधिता॥ २४॥
dharma-vādī śaṭhaḥ bhartā ślakṣṇa-vādī ca dāruṇaḥ.śuddha-bhāvena jānīṣe tena evam ati saṃdhitā.. 24..
उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्।अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति॥ २५॥
उपस्थितः प्रयुञ्जानः त्वयि सान्त्वम् अनर्थकम्।अर्थेन एव अद्य ते भर्ता कौसल्याम् योजयिष्यति॥ २५॥
upasthitaḥ prayuñjānaḥ tvayi sāntvam anarthakam.arthena eva adya te bhartā kausalyām yojayiṣyati.. 25..
अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु।काल्ये स्थापयिता रामं राज्ये निहतकण्टके॥ २६॥
अपवाह्य तु दुष्ट-आत्मा भरतम् तव बन्धुषु।काल्ये स्थापयिता रामम् राज्ये निहत-कण्टके॥ २६॥
apavāhya tu duṣṭa-ātmā bharatam tava bandhuṣu.kālye sthāpayitā rāmam rājye nihata-kaṇṭake.. 26..
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया।आशीविष(=सर्प) इवाङ्गेन बाले परिधृतस्त्वया॥ २७॥
शत्रुः पति-प्रवादेन मातृ-एव हित-काम्यया।आशीविष(इव अङ्गेन बाले परिधृतः त्वया॥ २७॥
śatruḥ pati-pravādena mātṛ-eva hita-kāmyayā.āśīviṣa(iva aṅgena bāle paridhṛtaḥ tvayā.. 27..
यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः।राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता॥ २८॥
यथा हि कुर्यात् शत्रुः वा सर्पः वा प्रत्युपेक्षितः।राज्ञा दशरथेन अद्य स पुत्रा त्वम् तथा कृता॥ २८॥
yathā hi kuryāt śatruḥ vā sarpaḥ vā pratyupekṣitaḥ.rājñā daśarathena adya sa putrā tvam tathā kṛtā.. 28..
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिता।रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि॥ २९॥
पापेन अनृत-सान्त्वेन बाले नित्यम् सुख-उचिता।रामम् स्थापयता राज्ये स अनुबन्धा हता हि असि॥ २९॥
pāpena anṛta-sāntvena bāle nityam sukha-ucitā.rāmam sthāpayatā rājye sa anubandhā hatā hi asi.. 29..
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव।त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने॥ ३०॥
सा प्राप्त-कालम् कैकेयि क्षिप्रम् कुरु हितम् तव।त्रायस्व पुत्रम् आत्मानम् माम् च विस्मय-दर्शने॥ ३०॥
sā prāpta-kālam kaikeyi kṣipram kuru hitam tava.trāyasva putram ātmānam mām ca vismaya-darśane.. 30..
मन्थराया वचः श्रुत्वा शयनात् सा शुभानना।उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी॥ ३१॥
मन्थरायाः वचः श्रुत्वा शयनात् सा शुभ-आनना।उत्तस्थौ हर्ष-सम्पूर्णा चन्द्र-लेखा इव शारदी॥ ३१॥
mantharāyāḥ vacaḥ śrutvā śayanāt sā śubha-ānanā.uttasthau harṣa-sampūrṇā candra-lekhā iva śāradī.. 31..
अतीव सा तु संतुष्टा कैकेयी विस्मयान्विता।दिव्यमाभरणं तस्यै कुब्जायै प्रददौ शुभम्॥ ३२॥
अतीव सा तु संतुष्टा कैकेयी विस्मय-अन्विता।दिव्यम् आभरणम् तस्यै कुब्जायै प्रददौ शुभम्॥ ३२॥
atīva sā tu saṃtuṣṭā kaikeyī vismaya-anvitā.divyam ābharaṇam tasyai kubjāyai pradadau śubham.. 32..
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा।कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्॥ ३३॥
दत्त्वा तु आभरणम् तस्यै कुब्जायै प्रमदा-उत्तमा।कैकेयी मन्थराम् हृष्टा पुनर् एव अब्रवीत् इदम्॥ ३३॥
dattvā tu ābharaṇam tasyai kubjāyai pramadā-uttamā.kaikeyī mantharām hṛṣṭā punar eva abravīt idam.. 33..
इदं तु मन्थरे मह्यमाख्यातं परमं प्रियम्।एतन्मे प्रियमाख्यातं किं वा भूयः करोमि ते॥ ३४॥
इदम् तु मन्थरे मह्यम् आख्यातम् परमम् प्रियम्।एतत् मे प्रियम् आख्यातम् किम् वा भूयस् करोमि ते॥ ३४॥
idam tu manthare mahyam ākhyātam paramam priyam.etat me priyam ākhyātam kim vā bhūyas karomi te.. 34..
रामे वा भरते वाहं विशेषं नोपलक्षये।तस्मात् तुष्टास्मि यद् राजा रामं राज्येऽभिषेक्ष्यति॥ ३५॥
रामे वा भरते वा अहम् विशेषम् न उपलक्षये।तस्मात् तुष्टा अस्मि यत् राजा रामम् राज्ये अभिषेक्ष्यति॥ ३५॥
rāme vā bharate vā aham viśeṣam na upalakṣaye.tasmāt tuṣṭā asmi yat rājā rāmam rājye abhiṣekṣyati.. 35..
न मे परं किंचिदितो वरं पुनः प्रियं प्रियार्हे सुवचं वचोऽमृतम्।तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु॥ ३६॥
न मे परम् किंचिद् इतस् वरम् पुनर् प्रियम् प्रिय-अर्हे सुवचम् वचः अमृतम्।तथा हि अवोचः त्वम् अतस् प्रिय-उत्तरम् वरम् परम् ते प्रददामि तम् वृणु॥ ३६॥
na me param kiṃcid itas varam punar priyam priya-arhe suvacam vacaḥ amṛtam.tathā hi avocaḥ tvam atas priya-uttaram varam param te pradadāmi tam vṛṇu.. 36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे सप्तमः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe saptamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In