This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptatitamaḥ sargaḥ ..2..
भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः । प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥
भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त-वाहनाः । प्रविश्य असह्य-परिखम् रम्यम् राज-गृहम् पुरम् ॥२॥
bharate bruvati svapnam dūtāḥ te klānta-vāhanāḥ . praviśya asahya-parikham ramyam rāja-gṛham puram ..2..
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः । राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥
समागम्य तु राज्ञा च राज-पुत्रेण च अर्चिताः । राज्ञः पादौ गृहीत्वा तु तम् ऊचुः भरतम् वचः ॥२॥
samāgamya tu rājñā ca rāja-putreṇa ca arcitāḥ . rājñaḥ pādau gṛhītvā tu tam ūcuḥ bharatam vacaḥ ..2..
पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥
पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२॥
purohitaḥ tvā kuśalam prāha sarve ca mantriṇaḥ . tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā ..2..
इमानि च महार्हाणि वस्त्राण्Yआभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥
इमानि च महार्हाणि वस्त्राणि आभरणानि च । प्रतिगृह्य विशाल-अक्ष मातुलस्य च दापय ॥२॥
imāni ca mahārhāṇi vastrāṇi ābharaṇāni ca . pratigṛhya viśāla-akṣa mātulasya ca dāpaya ..2..
अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते । दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥
अत्र विम्शति कोट्यः तु नृपतेः मातुलस्य ते । दश कोट्यः तु सम्पूर्णाः तथा एव च नृप-आत्मज ॥२॥
atra vimśati koṭyaḥ tu nṛpateḥ mātulasya te . daśa koṭyaḥ tu sampūrṇāḥ tathā eva ca nṛpa-ātmaja ..2..
प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने । दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥
प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने । दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२॥
pratigṛhya ca tat sarvam svanuraktaḥ suhṛj jane . dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān ..2..
कच्चित् सुकुशली राजा पिता दशरथो मम । कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥
कच्चित् सु कुशली राजा पिता दशरथः मम । कच्चित् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२॥
kaccit su kuśalī rājā pitā daśarathaḥ mama . kaccit ca arāgatā rāme lakṣmaṇe vā mahātmani ..2..
आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी । अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥
आर्या च धर्म-निरता धर्म-ज्ञा धर्म-दर्शिनी । अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२॥
āryā ca dharma-niratā dharma-jñā dharma-darśinī . arogā ca api kausalyā mātā rāmasya dhīmataḥ ..2..
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥
कच्चित् सुमित्रा धर्म-ज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२॥
kaccit sumitrā dharma-jñā jananī lakṣmaṇasya yā . śatrughnasya ca vīrasya sārogā ca api madhyamā ..2..
आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी । अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥
आत्म-कामा सदा चण्डी क्रोधना प्राज्ञ-मानिनी । अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२॥
ātma-kāmā sadā caṇḍī krodhanā prājña-māninī . arogā ca api kaikeyī mātā me kim uvāca ha ..2..
एवम् उक्ताः तु ते दूता भरतेन महात्मना । ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥
एवम् उक्ताः तु ते दूताः भरतेन महात्मना । ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२॥
evam uktāḥ tu te dūtāḥ bharatena mahātmanā . ūcuḥ sampraśritam vākyam idam tam bharatam tadā ..2..
कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि । श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥
कुशलाः ते नर-व्याघ्र येषाम् कुशलम् इच्चसि । श्रीः च त्वाम् वृणुते पद्मा युज्यताम् च अपि ते रकः ॥२॥
kuśalāḥ te nara-vyāghra yeṣām kuśalam iccasi . śrīḥ ca tvām vṛṇute padmā yujyatām ca api te rakaḥ ..2..
भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत । आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥
भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत । आपृच्चे अहम् महा-राजम् दूताः सम्त्वरयन्ति माम् ॥२॥
bharataḥ ca api tān dūtān evam uktaḥ abhyabhāṣata . āpṛcce aham mahā-rājam dūtāḥ samtvarayanti mām ..2..
एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः । दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥
एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव-आत्मजः । दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२॥
evam uktvā tu tān dūtān bharataḥ pārthiva-ātmajaḥ . dūtaiḥ samcoditaḥ vākyam mātāmaham uvāca ha ..2..
राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः । पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥
राजन् पितुः गमिष्यामि सकाशम् दूत-चोदितः । पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२॥
rājan pituḥ gamiṣyāmi sakāśam dūta-coditaḥ . punar api aham eṣyāmi yadā me tvam smariṣyasi ..2..
भरतेन एवम् उक्तः तु नृपो मातामहः तदा । तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥
भरतेन एवम् उक्तः तु नृपः मातामहः तदा । तम् उवाच शुभम् वाक्यम् शिरसि आघ्राय राघवम् ॥२॥
bharatena evam uktaḥ tu nṛpaḥ mātāmahaḥ tadā . tam uvāca śubham vākyam śirasi āghrāya rāghavam ..2..
गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया । मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥
गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया । मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२॥
gacca tāta anujāne tvām kaikeyī suprajāḥ tvayā . mātaram kuśalam brūyāḥ pitaram ca param tapa ..2..
पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः । तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥
पुरोहितम् च कुशलम् ये च अन्ये द्विज-सत्तमाः । तौ च तात महा-इष्वासौ भ्रातरु राम-लक्ष्मणौ ॥२॥
purohitam ca kuśalam ye ca anye dvija-sattamāḥ . tau ca tāta mahā-iṣvāsau bhrātaru rāma-lakṣmaṇau ..2..
तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च । अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥
तस्मै हस्ति-उत्तमामः चित्रान् कम्बलान् अजिनानि च । अभिसत्कृत्य कैकेयः भरताय धनम् ददौ ॥२॥
tasmai hasti-uttamāmaḥ citrān kambalān ajināni ca . abhisatkṛtya kaikeyaḥ bharatāya dhanam dadau ..2..
रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च । सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥
रुक्म-निष्क-सहस्रे द्वे षोडश-अश्व-शतानि च । सत्कृत्य कैकेयी पुत्रम् केकयः धनम् आदिशत् ॥२॥
rukma-niṣka-sahasre dve ṣoḍaśa-aśva-śatāni ca . satkṛtya kaikeyī putram kekayaḥ dhanam ādiśat ..2..
तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् । ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥
तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण-अन्वितान् । ददौ अश्व-पतिः शीघ्रम् भरताय अनुयायिनः ॥२॥
tathā amātyān abhipretān viśvāsyāmaḥ ca guṇa-anvitān . dadau aśva-patiḥ śīghram bharatāya anuyāyinaḥ ..2..
ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् । खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥
ऐरावतान् ऐन्द्र-शिरान् नागान् वै प्रिय-दर्शनान् । खरान् शीघ्रान् सु सम्युक्तान् मातुलः अस्मै धनम् ददौ ॥२॥
airāvatān aindra-śirān nāgān vai priya-darśanān . kharān śīghrān su samyuktān mātulaḥ asmai dhanam dadau ..2..
अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् । दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥
अन्तः पुरे अतिसम्वृद्धान् व्याघ्र-वीर्य-बल-अन्वितान् । दम्ष्ट्र-आयुधान् महा-कायान् शुनः च उपायनम् ददौ ॥२॥
antaḥ pure atisamvṛddhān vyāghra-vīrya-bala-anvitān . damṣṭra-āyudhān mahā-kāyān śunaḥ ca upāyanam dadau ..2..
स मातामहम् आपृच्च्य मातुलम् च युधा जितम् । रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥
स मातामहम् आपृच्च्य मातुलम् च युधा जितम् । रथम् आरुह्य भरतः शत्रुघ्न-सहितः ययौ ॥२॥
sa mātāmaham āpṛccya mātulam ca yudhā jitam . ratham āruhya bharataḥ śatrughna-sahitaḥ yayau ..2..
बभूव ह्यस्य हृदते चिन्ता सुमहती तदा । त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥
बभूव हि अस्य हृदते चिन्ता सु महती तदा । त्वरया च अपि दूतानाम् स्वप्नस्य अपि च दर्शनात् ॥२॥
babhūva hi asya hṛdate cintā su mahatī tadā . tvarayā ca api dūtānām svapnasya api ca darśanāt ..2..
स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् । प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥
स स्व-वेश्म अभ्यतिक्रम्य नर-नाग-श्व-सम्वृतम् । प्रपेदे सु महत् श्रीमान् राजमार्गम् अनुत्तमम् ॥२॥
sa sva-veśma abhyatikramya nara-nāga-śva-samvṛtam . prapede su mahat śrīmān rājamārgam anuttamam ..2..
अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः । ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥
अभ्यतीत्य ततस् अपश्यत् अन्तर् पुरम् उदार-धीः । ततस् तत् भरतः श्रीमान् आविवेश अनिवारितः ॥२॥
abhyatītya tatas apaśyat antar puram udāra-dhīḥ . tatas tat bharataḥ śrīmān āviveśa anivāritaḥ ..2..
स माता महमापृच्च्य मातुलम् च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥
स माता महम् आपृच्च्य मातुलम् च युधाजितम् । रथम् आरुह्य भरतः शत्रुघ्न-सहितः ययौ ॥२॥
sa mātā maham āpṛccya mātulam ca yudhājitam . ratham āruhya bharataḥ śatrughna-sahitaḥ yayau ..2..
रथान् मण्डल चक्रामः च योजयित्वा परः शतम् । उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥
रथान् मण्डल-चक्रामः च योजयित्वा परः शतम् । उष्ट्र-गो-अश्व-खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२॥
rathān maṇḍala-cakrāmaḥ ca yojayitvā paraḥ śatam . uṣṭra-go-aśva-kharaiḥ bhṛtyā bharatam yāntam anvayuḥ ..2..
बलेन गुप्तः भरतः महात्मा । सह आर्यकस्य आत्म समैः अमात्यैः । आदाय शत्रुघ्नम् अपेत शत्रुर् । गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥
बलेन गुप्तः भरतः महात्मा । सह आर्यकस्य आत्म-समैः अमात्यैः । आदाय शत्रु-घ्नम् अपेत शत्रुः । गृहात् ययौ सिद्ध-एव इन्द्र-लोकात् ॥२॥
balena guptaḥ bharataḥ mahātmā . saha āryakasya ātma-samaiḥ amātyaiḥ . ādāya śatru-ghnam apeta śatruḥ . gṛhāt yayau siddha-eva indra-lokāt ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe saptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In