This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्विसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvisaptatitamaḥ sargaḥ ..2..
अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये । जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥
अपश्यम् तु ततस् तत्र पितरम् पितुः आलये । जगाम भरतः द्रष्टुम् मातरम् मातुः आलये ॥२॥
apaśyam tu tatas tatra pitaram pituḥ ālaye . jagāma bharataḥ draṣṭum mātaram mātuḥ ālaye ..2..
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२॥
anuprāptam tu tam dṛṣṭvā kaikeyī proṣitam sutam . utpapāta tadā hṛṣṭā tyaktvā sauvarṇa mānasam ..2..
स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् । भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥
स प्रविश्य एव धर्म-आत्मा स्व-गृहम् श्री-विवर्जितम् । भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२॥
sa praviśya eva dharma-ātmā sva-gṛham śrī-vivarjitam . bharataḥ prekṣya jagrāha jananyāḥ caraṇau śubhau ..2..
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२॥
sā tam mūrdhni samupāghrāya pariṣvajya yaśasvinam . aṅke bharatam āropya praṣṭum samupacakrame ..2..
अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः । अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥
अद्य ते कतिचिद् रात्र्यः च्युतस्य आर्यक-वेश्मनः । अपि न अध्व-श्रमः शीघ्रम् रथेन आपततः तव ॥२॥
adya te katicid rātryaḥ cyutasya āryaka-veśmanaḥ . api na adhva-śramaḥ śīghram rathena āpatataḥ tava ..2..
आर्यकः ते सुकुशलो युधा जिन् मातुलः तव । प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥
आर्यकः ते सु कुशलः युधा जित् मातुलः तव । प्रवासात् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२॥
āryakaḥ te su kuśalaḥ yudhā jit mātulaḥ tava . pravāsāt ca sukham putra sarvam me vaktum arhasi ..2..
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः । आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव-नन्दनः । आचष्ट भरतः सर्वम् मात्रे राजीव-लोचनः ॥२॥
evam pṛṣṭhaḥ tu kaikeyyā priyam pārthiva-nandanaḥ . ācaṣṭa bharataḥ sarvam mātre rājīva-locanaḥ ..2..
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः । अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक-वेश्मनः । अम्बायाः कुशली तातः युधाजित् मातुलः च मे ॥२॥
adya me saptamī rātriḥ cyutasya āryaka-veśmanaḥ . ambāyāḥ kuśalī tātaḥ yudhājit mātulaḥ ca me ..2..
यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः । परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥
यत् मे धनम् च रत्नम् च ददौ राजा परम् तपः । परिश्रान्तम् पथि अभवत् ततस् अहम् पूर्वम् आगतः ॥२॥
yat me dhanam ca ratnam ca dadau rājā param tapaḥ . pariśrāntam pathi abhavat tatas aham pūrvam āgataḥ ..2..
राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः । यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥
राज-वाल्य-हरैः दूतैः त्वर्यमाणः अहम् आगतः । यत् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२॥
rāja-vālya-haraiḥ dūtaiḥ tvaryamāṇaḥ aham āgataḥ . yat aham praṣṭum iccāmi tat ambā vaktum arhasi ..2..
शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः । न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥
शून्यः अयम् शयनीयः ते पर्यन्कः हेम-भूषितः । न च अयम् इक्ष्वाकु-जनः प्रहृष्टः प्रतिभाति मे ॥२॥
śūnyaḥ ayam śayanīyaḥ te paryankaḥ hema-bhūṣitaḥ . na ca ayam ikṣvāku-janaḥ prahṛṣṭaḥ pratibhāti me ..2..
राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने । तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥
राजा भवति भूयिष्ठ्गम् इह अम्बायाः निवेशने । तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन् इह आगतः ॥२॥
rājā bhavati bhūyiṣṭhgam iha ambāyāḥ niveśane . tam aham na adya paśyāmi draṣṭum iccan iha āgataḥ ..2..
पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः । आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥
पितुः ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतस् । आहोस्वित् अम्ब ज्येष्ठायाः कौसल्यायाः निवेशने ॥२॥
pituḥ grahīṣye caraṇau tam mama ākhyāhi pṛccatas . āhosvit amba jyeṣṭhāyāḥ kausalyāyāḥ niveśane ..2..
तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् । अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥
तम् प्रत्युवाच कैकेयी प्रिय-वत् घोरम् अप्रियम् । अजानन्तम् प्रजानन्ती राज्य-लोभेन मोहिता ॥२॥
tam pratyuvāca kaikeyī priya-vat ghoram apriyam . ajānantam prajānantī rājya-lobhena mohitā ..2..
या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥
या गतिः सर्व-भूतानाम् ताम् गतिम् ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२॥
yā gatiḥ sarva-bhūtānām tām gatim te pitā gataḥ . rājā mahātmā tejasvī yāyajūkaḥ satām gatiḥ ..2..
तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः । पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥
तत् श्रुत्वा भरतः वाक्यम् धर्म-अभिजनवान् शुचिः । पपात सहसा भूमौ पितृ-शोक-बल-अर्दितः ॥२॥
tat śrutvā bharataḥ vākyam dharma-abhijanavān śuciḥ . papāta sahasā bhūmau pitṛ-śoka-bala-arditaḥ ..2..
हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् । निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥
हा हातः अस्मि इति कृपणाम् दीनाम् वाचम् उदीरयन् । निपपात महा-बाहुः बाहु विक्षिप्य वीर्यवान् ॥२॥
hā hātaḥ asmi iti kṛpaṇām dīnām vācam udīrayan . nipapāta mahā-bāhuḥ bāhu vikṣipya vīryavān ..2..
ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः । विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥
ततस् शोकेन सम्वीतः पितुः मरण दुह्खितः । विललाप महा-तेजाः भ्रान्त-आकुलित-चेतनः ॥२॥
tatas śokena samvītaḥ pituḥ maraṇa duhkhitaḥ . vilalāpa mahā-tejāḥ bhrānta-ākulita-cetanaḥ ..2..
एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा । शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥
एतत् सु रुचिरम् भाति पितुः मे शयनम् पुरा । शशिना इव अमलम् रात्रौ गगनम् तोयदात्यये ॥२॥
etat su ruciram bhāti pituḥ me śayanam purā . śaśinā iva amalam rātrau gaganam toyadātyaye ..2..
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता । व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता । व्योम इव श्शिना हीनम् अप्भुष्कः इव सागरः ॥२॥
tat idam na vibhāti adya vihīnam tena dhīmatā . vyoma iva śśinā hīnam apbhuṣkaḥ iva sāgaraḥ ..2..
बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः । आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥
बाष्पम् उत्सृज्य कण्ठे स्व-आत्मना परिपीडितः । आत् च अद्य वदनम् श्रीमत्-वस्त्रेण जयताम् वरः ॥२॥
bāṣpam utsṛjya kaṇṭhe sva-ātmanā paripīḍitaḥ . āt ca adya vadanam śrīmat-vastreṇa jayatām varaḥ ..2..
तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि । निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
तम् आर्तम् देव-सम्काशम् समीक्ष्य पतितम् भुवि । निकृत्तम् इव सालस्य स्कन्धम् परशुना वने ॥२॥
tam ārtam deva-samkāśam samīkṣya patitam bhuvi . nikṛttam iva sālasya skandham paraśunā vane ..2..
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः । उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥
मत्त-मातङ्ग-सम्काशम् चन्द्र-अर्क-सदृशम् भुवः । उत्थापयित्वा शोक-आर्तम् वचनम् च इदम् अब्रवीत् ॥२॥
matta-mātaṅga-samkāśam candra-arka-sadṛśam bhuvaḥ . utthāpayitvā śoka-ārtam vacanam ca idam abravīt ..2..
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः । त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज-पुत्र महा-यशः । त्वत् विधाः न हि शोचन्ति सन्तः सदसि सम्मताः ॥२॥
uttiṣṭha uttiṣṭha kim śeṣe rāja-putra mahā-yaśaḥ . tvat vidhāḥ na hi śocanti santaḥ sadasi sammatāḥ ..2..
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥
दान-यज्ञ-अधिकारा हि शील-श्रुति-वचः-नुगा । बुद्धिः ते बुद्धि-सम्पन्न प्रभा इव अर्कस्य मन्दिरे ॥२॥
dāna-yajña-adhikārā hi śīla-śruti-vacaḥ-nugā . buddhiḥ te buddhi-sampanna prabhā iva arkasya mandire ..2..
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च । जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च । जननीम् प्रत्युवाच इदम् शोकैः बहुभिः आवृतः ॥२॥
sa rudatyā ciram kālam bhūmau viparivṛtya ca . jananīm pratyuvāca idam śokaiḥ bahubhiḥ āvṛtaḥ ..2..
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति । इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति । इति अहम् कृत-सम्कल्पः हृष्टः यात्राम् अयासिषम् ॥२॥
abhiṣekṣyati rāmam tu rājā yajñam nu yakṣyati . iti aham kṛta-samkalpaḥ hṛṣṭaḥ yātrām ayāsiṣam ..2..
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम । पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनः मम । पितरम् यः न पश्यामि नित्यम् प्रिय-हिते रतम् ॥२॥
tat idam hi anyathā bhūtam vyavadīrṇam manaḥ mama . pitaram yaḥ na paśyāmi nityam priya-hite ratam ..2..
अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते । धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥
अम्ब केन अत्यगात् राजा व्याधिना मयि अनागते । धन्या राम-आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२॥
amba kena atyagāt rājā vyādhinā mayi anāgate . dhanyā rāma-ādayaḥ sarve yaiḥ pitā samskṛtaḥ svayam ..2..
न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् । उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥
न नूनम् माम् महा-राजः प्राप्तम् जानाति कीर्तिमान् । उपजिघ्रेत् हि माम् मूर्ध्नि तातः सम्नम्य स त्वरम् ॥२॥
na nūnam mām mahā-rājaḥ prāptam jānāti kīrtimān . upajighret hi mām mūrdhni tātaḥ samnamya sa tvaram ..2..
क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥
क्व स पाणिः सुख-स्पर्शः तातस्य अक्लिष्ट-कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२॥
kva sa pāṇiḥ sukha-sparśaḥ tātasya akliṣṭa-karmaṇaḥ . yena mām rajasā dhvastam abhīkṣṇam parimārjati ..2..
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥
यः मे भ्राता पिता बन्धुः यस्य दासः अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट-कर्मणः ॥२॥
yaḥ me bhrātā pitā bandhuḥ yasya dāsaḥ asmi dhīmataḥ . tasya mām śīghram ākhyāhi rāmasya akliṣṭa-karmaṇaḥ ..2..
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥
पिता हि भवति ज्येष्ठः धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिः मम ॥२॥
pitā hi bhavati jyeṣṭhaḥ dharmam āryasya jānataḥ . tasya pādau grahīṣyāmi sa hi idānīm gatiḥ mama ..2..
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥
धर्म-विद् धर्म-नित्यः च सत्य-सन्धः दृढ-व्रतः । आर्ये किम् अब्रवीत् राजा पिता मे सत्य-विक्रमः ॥२॥
dharma-vid dharma-nityaḥ ca satya-sandhaḥ dṛḍha-vrataḥ . ārye kim abravīt rājā pitā me satya-vikramaḥ ..2..
पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥
पश्चिमम् साधु-सम्देशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२॥
paścimam sādhu-samdeśam iccāmi śrotum ātmanaḥ . iti pṛṣṭā yathā tattvam kaikeyī vākyam abravīt ..2..
राम इति राजा विलपन् हा सीते लक्ष्मण इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥
रामः इति राजा विलपन् हा सीते लक्ष्मणः इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२॥
rāmaḥ iti rājā vilapan hā sīte lakṣmaṇaḥ iti ca . sa mahātmā param lokam gataḥ gatimatām varaḥ ..2..
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल-धर्म-परिक्षिप्तः पाशैः इव महा-गजः ॥२॥
imām tu paścimām vācam vyājahāra pitā tava . kāla-dharma-parikṣiptaḥ pāśaiḥ iva mahā-gajaḥ ..2..
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह । लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥
सिद्ध-अर्थाः तु नराः रामम् आगतम् सीतया सह । लक्ष्मणम् च महा-बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२॥
siddha-arthāḥ tu narāḥ rāmam āgatam sītayā saha . lakṣmaṇam ca mahā-bāhum drakṣyanti punar āgatam ..2..
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् । विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय-शम्सनात् । विषण्ण-वदनः भूत्वा भूयस् पप्रच्च मातरम् ॥२॥
tat śrutvā viṣasāda eva dvitīyā priya-śamsanāt . viṣaṇṇa-vadanaḥ bhūtvā bhūyas papracca mātaram ..2..
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥
क्व च इदानीम् स धर्म-आत्मा कौसल्य-आनन्द-वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२॥
kva ca idānīm sa dharma-ātmā kausalya-ānanda-vardhanaḥ . lakṣmaṇena saha bhrātrā sītayā ca samam gataḥ ..2..
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे । माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे । माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय-शन्कया ॥२॥
tathā pṛṣṭā yathā tattvam ākhyātum upacakrame . mātā asya yugapad vākyam vipriyam priya-śankayā ..2..
स हि राज सुतः पुत्र चीर वासा महा वनम् । दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥
स हि राज-सुतः पुत्र-चीर-वासाः महा-वनम् । दण्डकान् सह वैदेह्या लक्ष्मण-अनुचरः गतः ॥२॥
sa hi rāja-sutaḥ putra-cīra-vāsāḥ mahā-vanam . daṇḍakān saha vaidehyā lakṣmaṇa-anucaraḥ gataḥ ..2..
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया । स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र-शन्कया । स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२॥
tat śrutvā bharataḥ trastaḥ bhrātuḥ cāritra-śankayā . svasya vamśasya māhātmyāt praṣṭum samupacakrame ..2..
कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् । कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥
कच्चित् न ब्राह्मण-वधम् हृतम् रामेण कस्यचिद् । कच्चित् न आढ्यः दरिद्रः वा तेन अपापः विहिम्सितः ॥२॥
kaccit na brāhmaṇa-vadham hṛtam rāmeṇa kasyacid . kaccit na āḍhyaḥ daridraḥ vā tena apāpaḥ vihimsitaḥ ..2..
कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते । कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥
कच्चित् न पर-दारान् वा राज-पुत्रः अभिमन्यते । कस्मात् स दण्डक अरण्ये भ्रूण-हा इव विवासितः ॥२॥
kaccit na para-dārān vā rāja-putraḥ abhimanyate . kasmāt sa daṇḍaka araṇye bhrūṇa-hā iva vivāsitaḥ ..2..
अथ अस्य चपला माता तत् स्व कर्म यथा तथम् । तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥
अथ अस्य चपला माता तत् स्व-कर्म यथा तथम् । तेन एव स्त्री-स्वभावेन व्याहर्तुम् उपचक्रमे ॥२॥
atha asya capalā mātā tat sva-karma yathā tatham . tena eva strī-svabhāvena vyāhartum upacakrame ..2..
एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥
एवम् उक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनम् हृष्टा मूढा पण्डित-मानिनी ॥२॥
evam uktā tu kaikeyī bharatena mahātmanā . uvāca vacanam hṛṣṭā mūḍhā paṇḍita-māninī ..2..
न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् । कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
न ब्राह्मण-धनम् किम्चिद्द् हृतम् रामेण कस्यचिद् । कश्चिद् न आढ्यः दरिद्रः वा तेन अपापः विहिम्सितः ॥२॥
na brāhmaṇa-dhanam kimcidd hṛtam rāmeṇa kasyacid . kaścid na āḍhyaḥ daridraḥ vā tena apāpaḥ vihimsitaḥ ..2..
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति । मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
न रामः पर-दारामः च चक्षुर्भ्याम् अपि पश्यति । मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२॥
na rāmaḥ para-dārāmaḥ ca cakṣurbhyām api paśyati . mayā tu putra śrutvā eva rāmasya eva abhiṣecanam ..2..
याचितः ते पिता राज्यम् रामस्य च विवासनम् । स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
याचितः ते पिता राज्यम् रामस्य च विवासनम् । स स्व-वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२॥
yācitaḥ te pitā rājyam rāmasya ca vivāsanam . sa sva-vṛttim samāsthāya pitā te tat tathā akarot ..2..
रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही-पालः महा-यशाः ॥२॥
rāmaḥ ca saha saumitriḥ preṣitaḥ saha sītayā . tam apaśyan priyam putram mahī-pālaḥ mahā-yaśāḥ ..2..
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
पुत्र-शोक-परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२॥
putra-śoka-paridyūnaḥ pancatvam upapedivān . tvayā tu idānīm dharmajña rājatvam avalambyatām ..2..
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
त्वत्-कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यम् आश्रय पुत्रक ॥२॥
tvat-kṛte hi mayā sarvam idam evam vidham kṛtam . mā śokam mā ca samtāpam dhairyam āśraya putraka ..2..
त्वदधीना हि नगरी राज्यम् चैतदनामयम् । तत् पुत्र शीघ्रम् विधिना विधिज्ञैः । वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः । सम्काल्य राजानम् अदीन सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥
त्वद्-अधीना हि नगरी राज्यम् च एतत् अनामयम् । तत् पुत्र शीघ्रम् विधिना विधि-ज्ञैः । वसिष्ठ-मुख्यैः सहितः द्विज-इन्द्रैः । सम्काल्य राजानम् अदीन-सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व ॥२॥
tvad-adhīnā hi nagarī rājyam ca etat anāmayam . tat putra śīghram vidhinā vidhi-jñaiḥ . vasiṣṭha-mukhyaiḥ sahitaḥ dvija-indraiḥ . samkālya rājānam adīna-sattvam . ātmānam urvyām abhiṣecayasva ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe dvisaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In