This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रिसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe trisaptatitamaḥ sargaḥ ..2..
श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ । भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥
श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ । भरतः दुह्ख-सम्तप्तैः इदम् वचनम् अब्रवीत् ॥२॥
śrutvā tu pitaram vṛttam bhrātaru ca vivāsitau . bharataḥ duhkha-samtaptaiḥ idam vacanam abravīt ..2..
किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः । विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥
किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः । विहीनस्य अथ पित्रा च भ्रात्रा पितृ-समेन च ॥२॥
kim nuṇkāryam hatasya iha mama rājyena śocataḥ . vihīnasya atha pitrā ca bhrātrā pitṛ-samena ca ..2..
दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः । राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥
दुह्खे मे दुह्खम् अकरोः व्रणे क्षारम् इव आदधाः । राजानम् प्रेत-भावस्थम् कृत्वा रामम् च तापसम् ॥२॥
duhkhe me duhkham akaroḥ vraṇe kṣāram iva ādadhāḥ . rājānam preta-bhāvastham kṛtvā rāmam ca tāpasam ..2..
कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता । अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥
कुलस्य त्वम् अभावाय काल रात्रिः इव आगता । अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२॥
kulasya tvam abhāvāya kāla rātriḥ iva āgatā . angāram upagūhya sma pitā me na avabuddhavān ..2..
मृत्युमापादितो राजा त्वया मे पापदर्शिनि । सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥
मृत्युम् आपादितः राजा त्वया मे पाप-दर्शिनि । सुखम् परिहृतम् मोहात् कुले अस्मिन् कुल-पाम्सनि ॥२॥
mṛtyum āpāditaḥ rājā tvayā me pāpa-darśini . sukham parihṛtam mohāt kule asmin kula-pāmsani ..2..
त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः । तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥
त्वाम् प्राप्य हि पिता मे।सत्य-सन्धः महा-यशाः । तीव्र-दुःख-अभिसम्तप्तः वृत्तः दशरथः नृपः ॥२॥
tvām prāpya hi pitā me.satya-sandhaḥ mahā-yaśāḥ . tīvra-duḥkha-abhisamtaptaḥ vṛttaḥ daśarathaḥ nṛpaḥ ..2..
विनाशितो महाराजः पिता मे धर्मवत्सलः । कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥
विनाशितः महा-राजः पिता मे धर्म-वत्सलः । कस्मात् प्रव्राजितः रामः कस्मात् एव वनम् गतः ॥२॥
vināśitaḥ mahā-rājaḥ pitā me dharma-vatsalaḥ . kasmāt pravrājitaḥ rāmaḥ kasmāt eva vanam gataḥ ..2..
कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते । दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥
कौसल्या च सुमित्रा च पुत्र-शोक-अभिपीडिते । दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२॥
kausalyā ca sumitrā ca putra-śoka-abhipīḍite . duṣkaram yadi jīvetām prāpya tvām jananīm mama ..2..
ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् । वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥
ननु तु आर्यः अपि धर्म-आत्मा त्वयि वृत्तिम् अनुत्तमाम् । वर्तते गुरु वृत्ति-ज्ञः यथा मातरि वर्तते ॥२॥
nanu tu āryaḥ api dharma-ātmā tvayi vṛttim anuttamām . vartate guru vṛtti-jñaḥ yathā mātari vartate ..2..
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी । त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ-दर्शिनी । त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२॥
tathā jyeṣṭhā hi me mātā kausalyā dīrgha-darśinī . tvayi dharmam samāsthāya bhaginyām iva vartate ..2..
तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् । प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥
तस्याः पुत्रम् कृत-आत्मानम् चीर-वल्कल-वाससम् । प्रस्थाप्य वन-वासाय कथम् पापे न शोचसि ॥२॥
tasyāḥ putram kṛta-ātmānam cīra-valkala-vāsasam . prasthāpya vana-vāsāya katham pāpe na śocasi ..2..
अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् । प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥
अपाप-दर्शिनम् शूरम् कृत-आत्मानम् यशस्विनम् । प्रव्राज्य चीर-वसनम् किम् नु पश्यसि कारणम् ॥२॥
apāpa-darśinam śūram kṛta-ātmānam yaśasvinam . pravrājya cīra-vasanam kim nu paśyasi kāraṇam ..2..
लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति । तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥
लुब्धायाः विदितः मन्ये न ते अहम् राघवम् प्रति । तथा हि अनर्थः राज्य-अर्थम् त्वया नीतः महान् अयम् ॥२॥
lubdhāyāḥ viditaḥ manye na te aham rāghavam prati . tathā hi anarthaḥ rājya-artham tvayā nītaḥ mahān ayam ..2..
अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ । केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥
अहम् हि पुरुष-व्याघ्रौ अपश्यन् राम-लक्ष्मणौ । केन शक्ति-प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२॥
aham hi puruṣa-vyāghrau apaśyan rāma-lakṣmaṇau . kena śakti-prabhāvena rājyam rakṣitum utsahe ..2..
तम् हि नित्यम् महा राजो बलवन्तम् महा बलः । उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥
तम् हि नित्यम् महा-राजः बलवन्तम् महा-बलः । उअपाश्रितः अभूत् धर्म-आत्मा मेरुः मेरु-वनम् यथा ॥२॥
tam hi nityam mahā-rājaḥ balavantam mahā-balaḥ . uapāśritaḥ abhūt dharma-ātmā meruḥ meru-vanam yathā ..2..
सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् । दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥
सः अहम् कथम् इमम् भारम् महा-धुर्य समुद्यतम् । दम्यः धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२॥
saḥ aham katham imam bhāram mahā-dhurya samudyatam . damyaḥ dhuram iva āsādya saheyam kena ca ojasā ..2..
अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा । सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥
अथ वा मे भवेत् शक्तिः योगैः बुद्धि-बलेन वा । सकामाम् न करिष्यामि त्वाम् अहम् पुत्र-गर्धिनीम् ॥२॥
atha vā me bhavet śaktiḥ yogaiḥ buddhi-balena vā . sakāmām na kariṣyāmi tvām aham putra-gardhinīm ..2..
न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥
न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पाप-निश्चयाम् । यदि रामस्य ना अवेक्षा त्वयि स्यात् मातृ-वत् सदा ॥२॥
na me vikāṅkhā jāyeta tyaktum tvām pāpa-niścayām . yadi rāmasya nā avekṣā tvayi syāt mātṛ-vat sadā ..2..
उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि । साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥
उत्पन्ना तु कथम् बुद्धिः तव इयम् पाप-दर्शिनि । साधु-चारित्र-विभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२॥
utpannā tu katham buddhiḥ tava iyam pāpa-darśini . sādhu-cāritra-vibhrāṣṭe pūrveṣām no vigarhitā ..2..
अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥
अस्मिन् कुले हि सर्वेषाम् ज्येष्ठः राज्ये अभिषिच्यते । अपरे भ्रातरः तस्मिन् प्रवर्तन्ते समाहिताः ॥२॥
asmin kule hi sarveṣām jyeṣṭhaḥ rājye abhiṣicyate . apare bhrātaraḥ tasmin pravartante samāhitāḥ ..2..
न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे । गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥
न हि मन्ये नृशसे त्वम् राज-धर्मम् अवेक्षसे । गतिम् वा न विजानासि राज-वृत्तस्य शाश्वतीम् ॥२॥
na hi manye nṛśase tvam rāja-dharmam avekṣase . gatim vā na vijānāsi rāja-vṛttasya śāśvatīm ..2..
सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते । राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥
सततम् राज-वृत्ते हि ज्येष्ठः राज्ये अभिषिच्यते । राज्ञाम् एतत् समम् तत् स्यात् इक्ष्वाकूणाम् विशेषतः ॥२॥
satatam rāja-vṛtte hi jyeṣṭhaḥ rājye abhiṣicyate . rājñām etat samam tat syāt ikṣvākūṇām viśeṣataḥ ..2..
तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् । अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥
तेषाम् धर्म-एक-रक्षाणाम् कुल-चारित्र-योगिनाम् । अत्र चारित्र-शौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२॥
teṣām dharma-eka-rakṣāṇām kula-cāritra-yoginām . atra cāritra-śauṇḍīryam tvām prāpya vinivartatam ..2..
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥
तव अपि सु महाभागाः जन-इन्द्राः कुल-पूर्वगाः । बुद्धेः मोहः कथम् अयम् सम्भूतः त्वयि गर्हितः ॥२॥
tava api su mahābhāgāḥ jana-indrāḥ kula-pūrvagāḥ . buddheḥ mohaḥ katham ayam sambhūtaḥ tvayi garhitaḥ ..2..
न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये । त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥
न तु कामम् करिष्यामि तव अह्म् पाप-निश्चये । त्वया व्यसनम् आरब्धम् जीवितान्त-करम् मम ॥२॥
na tu kāmam kariṣyāmi tava ahm pāpa-niścaye . tvayā vyasanam ārabdham jīvitānta-karam mama ..2..
एष त्विदानीमेवाहमप्रियार्थम् तवनघम् । निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥
एष तु इदानीम् एव अहम् अप्रिय-अर्थम् तव अनघम् । निवर्तयिष्यामि वनात् भ्रातरम् स्वजन-प्रियम् ॥२॥
eṣa tu idānīm eva aham apriya-artham tava anagham . nivartayiṣyāmi vanāt bhrātaram svajana-priyam ..2..
निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः । दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥
निवर्तयित्वा रामम् च तस्य अहम् दीप्ततेजनः । दास-भूतः भविष्यामि सुस्थिरेण अन्तरात्मना ॥२॥
nivartayitvā rāmam ca tasya aham dīptatejanaḥ . dāsa-bhūtaḥ bhaviṣyāmi susthireṇa antarātmanā ..2..
इति एवम् उक्त्वा भरतः महात्मा । प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् । शोक आतुरः च अपि ननाद भूयः । सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥
इति एवम् उक्त्वा भरतः महात्मा । प्रिय-इतरैः वाक्य-गणैअः तुदम्स् ताम् । शोक-आतुरः च अपि ननाद भूयस् । सिम्हः यथा पर्वत गह्वर-स्थः ॥२॥
iti evam uktvā bharataḥ mahātmā . priya-itaraiḥ vākya-gaṇaiaḥ tudams tām . śoka-āturaḥ ca api nanāda bhūyas . simhaḥ yathā parvata gahvara-sthaḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe trisaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In