This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुःसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe catuḥsaptatitamaḥ sargaḥ ..2..
ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा । रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥
ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा । रोषेण महता आविष्टः पुनर् एव अब्रवीत् वचः ॥२॥
tām tathā garhayitvā tu mātaram bharataḥ tadā . roṣeṇa mahatā āviṣṭaḥ punar eva abravīt vacaḥ ..2..
राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि । परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥
राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट-चारिणि । परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२॥
rājyāt bhramśasva kaikeyi nṛśamse duṣṭa-cāriṇi . parityaktā ca dharmeṇa mā mṛtam rudatī bhava ..2..
किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः । ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥
किम् नु ते अदूषयत् राजा रामः वा भृश-धार्मिकः । ययोः मृत्युः विवासः च त्वत् कृते तुल्यम् आगतौ ॥२॥
kim nu te adūṣayat rājā rāmaḥ vā bhṛśa-dhārmikaḥ . yayoḥ mṛtyuḥ vivāsaḥ ca tvat kṛte tulyam āgatau ..2..
भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् । कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥
भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् । कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२॥
bhrūṇahatyām asi prāptā kulasya asya vināśanāt . kaikeyi narakam gacca mā ca bhartuḥ salokatām ..2..
यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा । सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥
यत् त्वया हि ईदृशम् पापम् कृतम् घोरेण कर्मणा । सर्व-लोक-प्रियम् हित्वा मम अपि आपादितम् भयम् ॥२॥
yat tvayā hi īdṛśam pāpam kṛtam ghoreṇa karmaṇā . sarva-loka-priyam hitvā mama api āpāditam bhayam ..2..
त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः । अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥
त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः । अयशः जीव-लोके च त्वया अहम् प्रतिपादितः ॥२॥
tvat kṛte me pitā vṛttaḥ rāmaḥ ca araṇyam āśritaḥ . ayaśaḥ jīva-loke ca tvayā aham pratipāditaḥ ..2..
मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके । न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥
मातृ-रूपे मम अमित्रे नृशम्से राज्य-कामुके । न ते अहम् अभिभाष्यः अस्मि दुर्वृत्ते पति घातिनि ॥२॥
mātṛ-rūpe mama amitre nṛśamse rājya-kāmuke . na te aham abhibhāṣyaḥ asmi durvṛtte pati ghātini ..2..
कौसल्या च सुमित्रा च याः च अन्या मम मातरः । दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥
कौसल्या च सुमित्रा च याः च अन्या मम मातरः । दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल-दूषिणीम् ॥२॥
kausalyā ca sumitrā ca yāḥ ca anyā mama mātaraḥ . duhkhena mahatā āviṣṭāḥ tvām prāpya kula-dūṣiṇīm ..2..
न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः । राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥
न त्वम् अश्व-पतेः कन्या धर्म-राजस्य धीमतः । राक्षसी तत्र जाता असि कुल-प्रध्वम्सिनी पितुः ॥२॥
na tvam aśva-pateḥ kanyā dharma-rājasya dhīmataḥ . rākṣasī tatra jātā asi kula-pradhvamsinī pituḥ ..2..
यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः । वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥
यत् त्वया धार्मिकः रामः नित्यम् सत्य-परायणः । वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२॥
yat tvayā dhārmikaḥ rāmaḥ nityam satya-parāyaṇaḥ . vanam prasthāpitaḥ duhkhāt pitā ca tridivam gataḥ ..2..
यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते । भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥
यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते । भ्रातृभ्याम् च परित्यक्ते सर्व-लोकस्य च अप्रिये ॥२॥
yat pradhānā asi tat pāpam mayi pitrā vinā kṛte . bhrātṛbhyām ca parityakte sarva-lokasya ca apriye ..2..
कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये । कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥
कौसल्याम् धर्म-सम्युक्ताम् वियुक्ताम् पाप-निश्चये । कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय-गामिनी ॥२॥
kausalyām dharma-samyuktām viyuktām pāpa-niścaye . kṛtvā kam prāpsyase tu adya lokam niraya-gāminī ..2..
किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् । ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥
किम् न अवबुध्यसे क्रूरे नियतम् बन्धु-सम्श्रयम् । ज्येष्ठम् पितृ-समम् रामम् कौसल्याय आत्म-सम्भवम् ॥२॥
kim na avabudhyase krūre niyatam bandhu-samśrayam . jyeṣṭham pitṛ-samam rāmam kausalyāya ātma-sambhavam ..2..
अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते । तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥
अन्ग-प्रत्यन्ग-जः पुत्रः हृदयात् च अपि जायते । तस्मात् प्रियतरः मातुः प्रिय-त्वात् न तु बान्धवः ॥२॥
anga-pratyanga-jaḥ putraḥ hṛdayāt ca api jāyate . tasmāt priyataraḥ mātuḥ priya-tvāt na tu bāndhavaḥ ..2..
अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता । वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥
अन्यदा किल धर्म-ज्ञा सुरभिः सुर-सम्मता । वहमानौ ददर्श उर्व्याम् पुत्रौ विगत-चेतसौ ॥२॥
anyadā kila dharma-jñā surabhiḥ sura-sammatā . vahamānau dadarśa urvyām putrau vigata-cetasau ..2..
ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले । रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥
तौ अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले । रुरोद पुत्र-शोकेन बाष्प-पर्याकुल-ईक्षणा ॥२॥
tau ardha divase śrāntau dṛṣṭvā putrau mahī tale . ruroda putra-śokena bāṣpa-paryākula-īkṣaṇā ..2..
अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥
अधस्तात् व्रजतः तस्याः सुर-राज्ञः महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि-गन्धिनः ॥२॥
adhastāt vrajataḥ tasyāḥ sura-rājñaḥ mahātmanaḥ . bindavaḥ patitā gātre sūkṣmāḥ surabhi-gandhinaḥ ..2..
इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् । सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥
इन्द्रः अपि अश्रु-निपातम् तम् स्व-गात्रे पुण्य-गन्धिनम् । सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२॥
indraḥ api aśru-nipātam tam sva-gātre puṇya-gandhinam . surabhim manyate dṛṣṭvā bhūyasīm tām sureśvaraḥ ..2..
निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् । आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥
निरीक्समाणः शक्रः ताम् ददर्श सुरभिम् स्थिताम् । आकाशे विष्ठिताम् दीनाम् रुदतीम् भृश-दुःखिताम् ॥२॥
nirīksamāṇaḥ śakraḥ tām dadarśa surabhim sthitām . ākāśe viṣṭhitām dīnām rudatīm bhṛśa-duḥkhitām ..2..
ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् । इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥
ताम् दृष्ट्वा शोक-सम्तप्ताम् वज्र-पाणिः यशस्विनीम् । इन्द्रः प्रान्जलिः उद्विग्नः सुर राजः अब्रवीत् वचः ॥२॥
tām dṛṣṭvā śoka-samtaptām vajra-pāṇiḥ yaśasvinīm . indraḥ prānjaliḥ udvignaḥ sura rājaḥ abravīt vacaḥ ..2..
भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् । कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥
भयम् कच्चित् न च अस्मासु कुतश्चिद् विद्यते महत् । कुतस् निमित्तः शोकः ते ब्रूहि सर्व-हित-एषिणि ॥२॥
bhayam kaccit na ca asmāsu kutaścid vidyate mahat . kutas nimittaḥ śokaḥ te brūhi sarva-hita-eṣiṇi ..2..
एवम् उक्ता तु सुरभिः सुर राजेन धीमता । पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥
एवम् उक्ता तु सुरभिः सुर-राजेन धीमता । पत्युवाच ततस् धीरा वाक्यम् वाक्य-विशारदा ॥२॥
evam uktā tu surabhiḥ sura-rājena dhīmatā . patyuvāca tatas dhīrā vākyam vākya-viśāradā ..2..
शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप । अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥
शान्तम् पातम् न वः किम्चिद् कुतश्चिद् अमर-अधिप । अहम् तु मग्नौ शोचामि स्व-पुत्रौ विषमे स्थितौ ॥२॥
śāntam pātam na vaḥ kimcid kutaścid amara-adhipa . aham tu magnau śocāmi sva-putrau viṣame sthitau ..2..
एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ । अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥
एतौ दृष्ट्वा कृषौ दीनौ सूर्य-रश्मि-प्रतापिनौ । अर्ध्यमानौ बली वर्दौ कर्षकेण सुर-अधिप ॥२॥
etau dṛṣṭvā kṛṣau dīnau sūrya-raśmi-pratāpinau . ardhyamānau balī vardau karṣakeṇa sura-adhipa ..2..
मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ । यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥
मम कायात् प्रसूतौ हि दुह्खितौ भार-पीडितौ । यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र-समः प्रियः ॥२॥
mama kāyāt prasūtau hi duhkhitau bhāra-pīḍitau . yau dṛṣṭvā paritapye aham na asti putra-samaḥ priyaḥ ..2..
यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् । ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥
यस्याः पुत्र-सहस्त्रैः तु कृत्स्नम् व्याप्तम् इदम् जगत् । ताम् दृष्ट्वा रुदतीम् शक्रः न सुतान् मन्यते परम् ॥२॥
yasyāḥ putra-sahastraiḥ tu kṛtsnam vyāptam idam jagat . tām dṛṣṭvā rudatīm śakraḥ na sutān manyate param ..2..
सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया । श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥
सदा अप्रतिम-वृत्तायाः लोक-धारण-काम्यया । श्रीमत्याः गुण-नित्यायाः स्वभाव-परिचेष्टया ॥२॥
sadā apratima-vṛttāyāḥ loka-dhāraṇa-kāmyayā . śrīmatyāḥ guṇa-nityāyāḥ svabhāva-pariceṣṭayā ..2..
यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् । किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥
यस्याः पुत्र-सहस्राणि सा अपि कामधुक् । किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२॥
yasyāḥ putra-sahasrāṇi sā api kāmadhuk . kim punar yā vinā rāmam kausalyā vartayiṣyati ..2..
एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता । तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥
एक-पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता । तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२॥
eka-putrā ca sādhvī ca vivatsā iyam tvayā kṛtā . tasmāt tvam satatam duhkham pretya ca iha ca lapsyase ..2..
अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् । वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥
अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् । वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२॥
aham hi apacitim bhrātuḥ pituḥ ca sakalām imām . vardhanam yaśasaḥ ca api kariṣyāmi na samśayaḥ ..2..
आनाययित्वा तनयम् कौसल्याया महा द्युतिम् । स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥
आनाययित्वा तनयम् कौसल्यायाः महा-द्युतिम् । स्वयम् एव प्रवेक्ष्यामि वनम् मुनि-निषेवितम् ॥२॥
ānāyayitvā tanayam kausalyāyāḥ mahā-dyutim . svayam eva pravekṣyāmi vanam muni-niṣevitam ..2..
न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् । शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥
न हि अहम् पाप-सम्कल्पे पापे पापम् त्वया कृतम् । शक्तः धारयितुम् पौरैः अश्रु-कण्ठैः निरीक्षितः ॥२॥
na hi aham pāpa-samkalpe pāpe pāpam tvayā kṛtam . śaktaḥ dhārayitum pauraiḥ aśru-kaṇṭhaiḥ nirīkṣitaḥ ..2..
सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश । रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥
सा त्वम् अग्निम् प्रविश वा स्वयम् वा दण्डकान् विश । रज्जुम् बधान वा कण्ठे न हि ते अन्यत् परायणम् ॥२॥
sā tvam agnim praviśa vā svayam vā daṇḍakān viśa . rajjum badhāna vā kaṇṭhe na hi te anyat parāyaṇam ..2..
अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥
अहम् अपि अवनिम् प्राप्ते रामे सत्य-पराक्रमे । कृतकृत्यः भविष्यामि विप्रवासित-कल्मषः ॥२॥
aham api avanim prāpte rāme satya-parākrame . kṛtakṛtyaḥ bhaviṣyāmi vipravāsita-kalmaṣaḥ ..2..
इति नागैव अरण्ये तोमर अन्कुश चोदितः । पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥
इति नागैव-अरण्ये तोमर-अन्कुश-चोदितः । पपात भुवि सम्क्रुद्धः निह्श्वसन् इव पन्नगः ॥२॥
iti nāgaiva-araṇye tomara-ankuśa-coditaḥ . papāta bhuvi samkruddhaḥ nihśvasan iva pannagaḥ ..2..
सम्रक्त नेत्रः शिथिल अम्बरः तदा । विधूत सर्व आभरणः परम्तपः । बभूव भूमौ पतितः नृप आत्मजः । शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥
सम्रक्त-नेत्रः शिथिल-अम्बरः तदा । विधूत-सर्व-आभरणः परम्तपः । बभूव भूमौ पतितः नृप-आत्मजः । शची-पतेः केतुः इव उत्सव-क्षये ॥२॥
samrakta-netraḥ śithila-ambaraḥ tadā . vidhūta-sarva-ābharaṇaḥ paramtapaḥ . babhūva bhūmau patitaḥ nṛpa-ātmajaḥ . śacī-pateḥ ketuḥ iva utsava-kṣaye ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe catuḥsaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In