This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcasaptatitamaḥ sargaḥ ..2..
दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥
दीर्घ-कालात् समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्याम् अश्रु-पूर्णाभ्याम् दीनाम् उद्वीक्ष्य मातरम् ॥२॥
dīrgha-kālāt samutthāya samjñām labdhvā ca vīryavān . netrābhyām aśru-pūrṇābhyām dīnām udvīkṣya mātaram ..2..
सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥
सः अमात्य-मध्ये भरतः जननीम् अभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये ना अपि मातरम् ॥२॥
saḥ amātya-madhye bharataḥ jananīm abhyakutsayat . rājyam na kāmaye jātu mantraye nā api mātaram ..2..
अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः । विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥
अभिषेकम् न जानामि यः।समीक्षितः । विप्रकृष्टे हि अहम् देशे शत्रुघ्न सहितः अवसम् ॥२॥
abhiṣekam na jānāmi yaḥ.samīkṣitaḥ . viprakṛṣṭe hi aham deśe śatrughna sahitaḥ avasam ..2..
वनवासम् न जानामि रामस्यहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥
वन-वासम् न जानामि रामस्य अहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाः च यथा भवत् ॥२॥
vana-vāsam na jānāmi rāmasya aham mahātmanaḥ . vivāsanam vā saumitreḥ sītāyāḥ ca yathā bhavat ..2..
तथैव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥
तथा एव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या-शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२॥
tathā eva krośataḥ tasya bharatasya mahātmanaḥ . kausalyā-śabdam ājñāya sumitrām idam abravīt ..2..
आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥
आगतः क्रूर-कार्यायाः कैकेय्याः भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ-दर्शिनम् ॥२॥
āgataḥ krūra-kāryāyāḥ kaikeyyāḥ bharataḥ sutaḥ . tam aham draṣṭum iccāmi bharatam dīrgha-darśinam ..2..
एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥
एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन-अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२॥
evam uktvā sumitrām sā vivarṇā malina-ambarā . pratasthe bharataḥ yatra vepamānā vicetanā ..2..
स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥
स तु राम-अनुजः च अपि शत्रुघ्न-सहितः तदा । प्रतस्थे भरतः यत्र कौसल्यायाः निवेशनम् ॥२॥
sa tu rāma-anujaḥ ca api śatrughna-sahitaḥ tadā . pratasthe bharataḥ yatra kausalyāyāḥ niveśanam ..2..
ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥
ततस् शत्रुघ्न-भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख-आर्ताम् पतिताम् नष्ट-चेतनाम् ॥२॥
tatas śatrughna-bharatau kausalyām prekṣya duhkhitau . paryaṣvajetām duhkha-ārtām patitām naṣṭa-cetanām ..2..
रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् । भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥
रुदन्तौ रुदतीम् दुःखात् समेत्य आर्याम् मनस्स्विनीम् । भरतम् प्रत्युवाच इदम् कौसल्या भृश-दुह्खिता ॥२॥
rudantau rudatīm duḥkhāt sametya āryām manassvinīm . bharatam pratyuvāca idam kausalyā bhṛśa-duhkhitā ..2..
इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् । सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥
इदम् ते राज्य-कामस्य राज्यम् प्राप्तम् अकण्टकम् । सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२॥
idam te rājya-kāmasya rājyam prāptam akaṇṭakam . samprāptam bata kaikeyyā śīghram krūreṇa karmaṇā ..2..
प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् । कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥
प्रस्थाप्य चीर-वसनम् पुत्रम् मे वन-वासिनम् । कैकेयी कम् गुणम् तत्र पश्यति क्रूर-दर्शिनी ॥२॥
prasthāpya cīra-vasanam putram me vana-vāsinam . kaikeyī kam guṇam tatra paśyati krūra-darśinī ..2..
क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति । हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥
क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति । हिरण्य-नाभः यत्र आस्ते सुतः मे सुमहा-यशाः ॥२॥
kṣipram mām api kaikeyī prasthāpayitum arhati . hiraṇya-nābhaḥ yatra āste sutaḥ me sumahā-yaśāḥ ..2..
अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् । अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥
अथवा स्वयम् एव अहम् सुमित्र-अनुचरा सुखम् । अग्नि-होत्रम् पुरस् कृत्य प्रस्थास्ये यत्र राघवः ॥२॥
athavā svayam eva aham sumitra-anucarā sukham . agni-hotram puras kṛtya prasthāsye yatra rāghavaḥ ..2..
कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि । यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥
कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि । यत्र असौ पुरुष-व्याघ्रः तप्यते मे तपः-सुतः ॥२॥
kāmam vā svayam eva adya tatra mām netum arhasi . yatra asau puruṣa-vyāghraḥ tapyate me tapaḥ-sutaḥ ..2..
इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् । हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥
इदम् हि तव विस्तीर्णम् धन-धान्य-समाचितम् । हस्ति-अश्व-रथ-सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२॥
idam hi tava vistīrṇam dhana-dhānya-samācitam . hasti-aśva-ratha-sampūrṇam rājyam niryātitam tayā ..2..
इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः । विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥
इत्यादि-बहुषु वाक्यैः क्रूरैः सम्भर्स्तितः अनघः । विव्यथे भरतः तीव्रम् व्रणे तुद्य इव सूचिना ॥२॥
ityādi-bahuṣu vākyaiḥ krūraiḥ sambharstitaḥ anaghaḥ . vivyathe bharataḥ tīvram vraṇe tudya iva sūcinā ..2..
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥
पपात चरणौ तस्याः तदा सम्भ्रान्त-चेतनः । विलप्य बहुधा असम्ज्ञः लब्ध-सम्ज्ञः ततस् स्थितः ॥२॥
papāta caraṇau tasyāḥ tadā sambhrānta-cetanaḥ . vilapya bahudhā asamjñaḥ labdha-samjñaḥ tatas sthitaḥ ..2..
एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा । कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥
एवम् विलपमानाम् ताम् भरतः प्रान्जलिः तदा । कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिः आवृताम् ॥२॥
evam vilapamānām tām bharataḥ prānjaliḥ tadā . kausalyām pratyuvāca idam śokaiḥ bahubhiḥ āvṛtām ..2..
आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् । विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥
आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् । विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२॥
ārye kasmāt ajānantam garhase mām akilbiṣam . vipulām ca mama prītim sthirām jānāsi rāghave ..2..
कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन । सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥
कृता शास्त्र-अनुगा बुद्धिः मा भूत् तस्य कदाचन । सत्य-सम्धः सताम् श्रेष्ठः यस्य आर्यः अनुमते गतः ॥२॥
kṛtā śāstra-anugā buddhiḥ mā bhūt tasya kadācana . satya-samdhaḥ satām śreṣṭhaḥ yasya āryaḥ anumate gataḥ ..2..
प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु । हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥
प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु । हन्तु पादेन गाम् सुप्ताम् यस्य आर्यः अनुमते गतः ॥२॥
praiṣyam pāpīyasām yātu sūryam ca prati mehatu . hantu pādena gām suptām yasya āryaḥ anumate gataḥ ..2..
कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् । अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥
कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् । अधर्मः यः अस्य सः अस्याः तु यस्य आर्यः अनुमते गतः ॥२॥
kārayitvā mahat karma bhartā bhṛtyam anarthakam . adharmaḥ yaḥ asya saḥ asyāḥ tu yasya āryaḥ anumate gataḥ ..2..
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥
परिपालयमानस्य राज्ञः भूतानि पुत्र-वत् । ततस् तु द्रुह्यताम् पापम् यस्य आर्यः अनुमते गतः ॥२॥
paripālayamānasya rājñaḥ bhūtāni putra-vat . tatas tu druhyatām pāpam yasya āryaḥ anumate gataḥ ..2..
बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः । अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥
बलि-षड्-भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः । अधर्मः यः अस्य सः अस्य अस्तु यस्य आर्यः अनुमते गतः ॥२॥
bali-ṣaḍ-bhāgam uddhṛtya nṛpasya arakṣataḥ prajāḥ . adharmaḥ yaḥ asya saḥ asya astu yasya āryaḥ anumate gataḥ ..2..
सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् । ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥
सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ-दक्षिणाम् । ताम् विप्रलपताम् पापम् यस्य आर्यः अनुमते गतः ॥२॥
samśrutya ca tapasvibhyaḥ satre vai yajña-dakṣiṇām . tām vipralapatām pāpam yasya āryaḥ anumate gataḥ ..2..
हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले । मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥
हस्ति-अश्व-रथ-सम्बाधे युद्धे शस्त्र-समाकुले । मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यः अनुमते गतः ॥२॥
hasti-aśva-ratha-sambādhe yuddhe śastra-samākule . mā sma kārṣīt satām dharmam yasya āryaḥ anumate gataḥ ..2..
उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता । स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥
उपदिष्टम् सुसूक्ष्म-अर्थम् शास्त्रम् यत्नेन धीमता । स नाशयतु दुष्टः आत्मा यस्य आर्यः अनुमते गतः ॥२॥
upadiṣṭam susūkṣma-artham śāstram yatnena dhīmatā . sa nāśayatu duṣṭaḥ ātmā yasya āryaḥ anumate gataḥ ..2..
मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् । द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥
मा च तम् प्यूढ-बाहु-अम्सम् चन्द्र-अर्क-सम्तेजनम् । द्राक्षीत् राज्य-स्थम् आसीनम् यस्य आर्यः अनुमते गतः ॥२॥
mā ca tam pyūḍha-bāhu-amsam candra-arka-samtejanam . drākṣīt rājya-stham āsīnam yasya āryaḥ anumate gataḥ ..2..
पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः । गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥
पायसम् कृसरम् चागम् वृथा सः अश्नातु निर्घृणः । गुरूमः च अपि अवजानातु यस्य आर्यः अनुमते गतः ॥२॥
pāyasam kṛsaram cāgam vṛthā saḥ aśnātu nirghṛṇaḥ . gurūmaḥ ca api avajānātu yasya āryaḥ anumate gataḥ ..2..
गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥
गाः च स्पृशतु पादेन गुरून् परिवदेत् स्वयम् । मित्रे द्रुह्येत सः अत्यन्तम् यस्य आर्यः अनुमते गतः ॥२॥
gāḥ ca spṛśatu pādena gurūn parivadet svayam . mitre druhyeta saḥ atyantam yasya āryaḥ anumate gataḥ ..2..
विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥
विश्वासात् कथितम् किम्चिद् परिवादम् मिथस् क्वचिद् । विवृणोतु स दुष्ट-आत्मा यस्य आर्यः अनुमते गतः ॥२॥
viśvāsāt kathitam kimcid parivādam mithas kvacid . vivṛṇotu sa duṣṭa-ātmā yasya āryaḥ anumate gataḥ ..2..
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥
अकर्ता हि अकृतज्ञः च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यः यस्य आर्यः अनुमते गतः ॥२॥
akartā hi akṛtajñaḥ ca tyaktātmā nirapatrapaḥ . loke bhavatu vidveṣyaḥ yasya āryaḥ anumate gataḥ ..2..
पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः । स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥
पुत्रैः दारैः च भृत्यैः च स्व-गृहे परिवारितः । सः एकः मृष्टम् अश्नातु यस्य आर्यः अनुमते गतः ॥२॥
putraiḥ dāraiḥ ca bhṛtyaiḥ ca sva-gṛhe parivāritaḥ . saḥ ekaḥ mṛṣṭam aśnātu yasya āryaḥ anumate gataḥ ..2..
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥
अ प्राप्य सदृशान् दारान् अनपत्यः प्रमीयताम् । अन् अवाप्य क्रियाम् धर्म्याम् यशी आर्यः अनुमते गतः ॥२॥
a prāpya sadṛśān dārān anapatyaḥ pramīyatām . an avāpya kriyām dharmyām yaśī āryaḥ anumate gataḥ ..2..
मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः । आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥
मा आत्मनः सम्ततिम् द्राक्षीत् स्वेषु दारेषु दुःखितः । आयुः समग्रम् अ प्राप्य यस्य आर्यः अनुमते गतः ॥२॥
mā ātmanaḥ samtatim drākṣīt sveṣu dāreṣu duḥkhitaḥ . āyuḥ samagram a prāpya yasya āryaḥ anumate gataḥ ..2..
राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते । भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥
राज-स्त्री-बाल-वृद्धानाम् वधे यत् पापम् उच्यते । भृत्य-त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२॥
rāja-strī-bāla-vṛddhānām vadhe yat pāpam ucyate . bhṛtya-tyāge ca yat pāpam tat pāpam pratipadyatām ..2..
लाक्षया मधुमाम्सेन लोहेन च विषेण च । सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥
लाक्षया मधुमाम्सेन लोहेन च विषेण च । सदा एव बिभृयात् भृत्यान् यस्य आर्यः असुमते गतः ॥२॥
lākṣayā madhumāmsena lohena ca viṣeṇa ca . sadā eva bibhṛyāt bhṛtyān yasya āryaḥ asumate gataḥ ..2..
सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे । पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥
सम्ग्रामे समुपोढे स शत्रु-पक्ष-भयम्करे । पलायामानः वध्येत यस्य आर्यः अनुमे गतः ॥२॥
samgrāme samupoḍhe sa śatru-pakṣa-bhayamkare . palāyāmānaḥ vadhyeta yasya āryaḥ anume gataḥ ..2..
कपालपाणिः पृथिवीमटताम् चीरसम्वृतः । भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥
कपाल-पाणिः पृथिवीम् अटताम् चीर-सम्वृतः । भिक्समाणः यथा उन्मत्तः यस्य आर्यः अनुमते गतः ॥२॥
kapāla-pāṇiḥ pṛthivīm aṭatām cīra-samvṛtaḥ . bhiksamāṇaḥ yathā unmattaḥ yasya āryaḥ anumate gataḥ ..2..
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥
पाने प्रसक्तः भवतु स्त्रीषु अक्षेषु च नित्यशस् । काम्-क्रोध-अभिभूतः तु यस्य आर्यः अनुमते गतः ॥२॥
pāne prasaktaḥ bhavatu strīṣu akṣeṣu ca nityaśas . kām-krodha-abhibhūtaḥ tu yasya āryaḥ anumate gataḥ ..2..
यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥
यस्य धर्मे मनः भूयात् अधर्मम् स निषेवताम् । अपात्र-वर्षी भवतु यस्य आर्यः अनुमते गतः ॥२॥
yasya dharme manaḥ bhūyāt adharmam sa niṣevatām . apātra-varṣī bhavatu yasya āryaḥ anumate gataḥ ..2..
सम्चितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥
सम्चितानि अस्य वित्तानि विविधानि सहस्रशस् । दस्युभिः विप्रलुप्यन्ताम् यशी आर्यः अनुमते गतः ॥२॥
samcitāni asya vittāni vividhāni sahasraśas . dasyubhiḥ vipralupyantām yaśī āryaḥ anumate gataḥ ..2..
उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते । तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥
उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते । तत् च पापम् भवेत् तस्य यस्य आर्यः अनुमते गतः ॥२॥
ubhe samdhye śayānasya yat pāpam parikalpyate . tat ca pāpam bhavet tasya yasya āryaḥ anumate gataḥ ..2..
यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे । मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥
यद् अग्नि-दायके पापम् यत् पापम् गुरु-तल्पगे । मित्र-द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२॥
yad agni-dāyake pāpam yat pāpam guru-talpage . mitra-drohe ca yat pāpam tat pāpam pratipadyatām ..2..
देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥
देवतानाम् पितृऋणाम् च माता पित्रोः तथा एव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यः अनुमते गतः ॥२॥
devatānām pitṛṛṇām ca mātā pitroḥ tathā eva ca . mā sma kārṣīt sa śuśrūṣām yasya āryaḥ anumate gataḥ ..2..
सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥
सताम् लोकात् सताम् कीर्त्याः सत्-जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यः अनुमते गतः ॥२॥
satām lokāt satām kīrtyāḥ sat-juṣṭāt karmaṇaḥ tathā . bhraśyatu kṣipram adya eva yasya āryaḥ anumate gataḥ ..2..
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥
अपास्य मातृ-शुश्रूषाम् अनर्थे सः अवतिष्ठताम् । दीर्घ-बाहुः महा-वक्षाः यस्य आर्यः असुमते गतः ॥२॥
apāsya mātṛ-śuśrūṣām anarthe saḥ avatiṣṭhatām . dīrgha-bāhuḥ mahā-vakṣāḥ yasya āryaḥ asumate gataḥ ..2..
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥
बहु-पुत्रः दरिद्रः च ज्वर-रोग-समन्वितः । स भूयात् सतत-क्लेशी यस्य आर्यः अनुमते गतः ॥२॥
bahu-putraḥ daridraḥ ca jvara-roga-samanvitaḥ . sa bhūyāt satata-kleśī yasya āryaḥ anumate gataḥ ..2..
आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् । आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥
आशाम् आशम् समानानाम् दीनानाम् ऊर्ध्व-चक्षुषाम् । आर्थिनाम् वितथाम् कुर्यात् यस्य आर्यः अनुमते गतः ॥२॥
āśām āśam samānānām dīnānām ūrdhva-cakṣuṣām . ārthinām vitathām kuryāt yasya āryaḥ anumate gataḥ ..2..
मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः । राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥
मायया रमताम् नित्यम् परुषः पिशुनः अशुचिः । भीतः स्तु अधर्म-आत्मा यस्य आर्यः अनुमते गतः ॥२॥
māyayā ramatām nityam paruṣaḥ piśunaḥ aśuciḥ . bhītaḥ stu adharma-ātmā yasya āryaḥ anumate gataḥ ..2..
ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥
ऋतुस्नाताम् सतीम् भार्याम् ऋतु-काल-अनुरोधिनीम् । अतिवर्तेत दुष्ट-आत्मा यस्य आर्यः अनुमते गतः ॥२॥
ṛtusnātām satīm bhāryām ṛtu-kāla-anurodhinīm . ativarteta duṣṭa-ātmā yasya āryaḥ anumate gataḥ ..2..
धर्मदारान् परित्यज्य परदारान्नि षेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥
धर्म-दारान् परित्यज्य पर-दारान् नि सेवताम् । त्यक्त-धर्म-रतिः मूढः यस्य आर्यः अनुमते गतः ॥२॥
dharma-dārān parityajya para-dārān ni sevatām . tyakta-dharma-ratiḥ mūḍhaḥ yasya āryaḥ anumate gataḥ ..2..
विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥
विप्रलु प्त-प्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् । तत् एव प्रतिपद्येत यस्य आर्यः अनुमते गतः ॥२॥
vipralu pta-prajātasya duṣkṛtam brāhmaṇasya yat . tat eva pratipadyeta yasya āryaḥ anumate gataḥ ..2..
पानीयदूषके पापम् तथैव विषदायके । यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥
पानीय-दूषके पापम् तथा एव विष-दायके । यत् तत् एकः स लभताम् यस्य आर्यः अनुमते गतः ॥२॥
pānīya-dūṣake pāpam tathā eva viṣa-dāyake . yat tat ekaḥ sa labhatām yasya āryaḥ anumate gataḥ ..2..
ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः । बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥
ब्राह्मणाय उद्यताम् पूजाम् विहन्तु कलुष-इन्द्रियः । बाल-वत्साम् च गाम् यस्य अर्यः अनुमते गतः ॥२॥
brāhmaṇāya udyatām pūjām vihantu kaluṣa-indriyaḥ . bāla-vatsām ca gām yasya aryaḥ anumate gataḥ ..2..
तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥
तृष्णा-आर्तम् सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत् पापम् यस्य आर्यः अनुमते गतः ॥२॥
tṛṣṇā-ārtam sati pānīye vipralambhena yojayet . labheta tasya yat pāpam yasya āryaḥ anumate gataḥ ..2..
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥
भक्त्या विवदमानेषु मार्गम् आश्रित्य पश्यतः । तस्य पापेन युज्येत यस्य आर्यः अनुमते गतः ॥२॥
bhaktyā vivadamāneṣu mārgam āśritya paśyataḥ . tasya pāpena yujyeta yasya āryaḥ anumate gataḥ ..2..
विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः । एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥
विहीनाम् पति-पुत्राभ्याम् कौसल्याम् पार्थिव-आत्मजः । एवम् आश्वसयन् एव दुह्ख-आर्तः निपपात ह ॥२॥
vihīnām pati-putrābhyām kausalyām pārthiva-ātmajaḥ . evam āśvasayan eva duhkha-ārtaḥ nipapāta ha ..2..
तथा तु शपथैः कष्टैः शपमानम् अचेतनम् । भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥
तथा तु शपथैः कष्टैः शपमानम् अचेतनम् । भरतम् शोक-सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२॥
tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam . bharatam śoka-samtaptam kausalyā vākyam abravīt ..2..
मम दुह्खम् इदम् पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥
मम दुह्खम् इदम् पुत्र भूयः समुपजायते । शपथैः शपमानः हि प्राणान् उपरुणत्सि मे ॥२॥
mama duhkham idam putra bhūyaḥ samupajāyate . śapathaiḥ śapamānaḥ hi prāṇān uparuṇatsi me ..2..
दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः । वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥
दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः । वत्स सत्य प्रतिज्ञः मे सताम् लोकान् अवाप्स्यसि ॥२॥
diṣṭyā na calitaḥ dharmāt ātmā te saha lakṣmaṇaḥ . vatsa satya pratijñaḥ me satām lokān avāpsyasi ..2..
इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् । परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥
इति उक्त्वा च अङ्कम् आनीय भरतम् भ्रातृ-वत्सलम् । परिष्वज्य महा-बाहुम् रुरोद भृश-दुःखिता ॥२॥
iti uktvā ca aṅkam ānīya bharatam bhrātṛ-vatsalam . pariṣvajya mahā-bāhum ruroda bhṛśa-duḥkhitā ..2..
एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः । मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥
एवम् विलपमानस्य दुह्ख-आर्तस्य महात्मनः । मोहात् च शोक-सम्रोधात् बभूव लुलितम् मनः ॥२॥
evam vilapamānasya duhkha-ārtasya mahātmanaḥ . mohāt ca śoka-samrodhāt babhūva lulitam manaḥ ..2..
लालप्यमानस्य विचेतनस्य । प्रनष्ट बुद्धेः पतितस्य भूमौ । मुहुर् मुहुर् निह्श्वसतः च दीर्घम् । सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥
लालप्यमानस्य विचेतनस्य । प्रनष्ट-बुद्धेः पतितस्य भूमौ । मुहुर् मुहुर् निह्श्वसतः च दीर्घम् । सा तस्य शोकेन जगाम रात्रिः ॥२॥
lālapyamānasya vicetanasya . pranaṣṭa-buddheḥ patitasya bhūmau . muhur muhur nihśvasataḥ ca dīrgham . sā tasya śokena jagāma rātriḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe pañcasaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In