This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptasaptatitamaḥ sargaḥ ..2..
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥
ततस् दश-अहे अतिगते कृत-शौचः नृप-आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध-कर्माणि अकारयत् ॥२॥
tatas daśa-ahe atigate kṛta-śaucaḥ nṛpa-ātmajaḥ . dvādaśe ahani samprāpte śrāddha-karmāṇi akārayat ..2..
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥
ब्राह्मणेभ्यः ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । च महार्हाणि रत्नानि विविधानि च ॥२॥
brāhmaṇebhyaḥ dadau ratnam dhanam annam ca puṣkalam . ca mahārhāṇi ratnāni vividhāni ca ..2..
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशस् तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२॥
bāstikam bahu śuklam ca gāḥ ca api śataśas tathā . dāsī dāsam ca yānam ca veśmāni sumahānti ca ..2..
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
ब्राह्मणेभ्यः ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततस् प्रभात-समये दिवसे अथ त्रयोदशे ॥२॥
brāhmaṇebhyaḥ dadau putraḥ rājñaḥ tasya aurdhvadaihikam . tatas prabhāta-samaye divase atha trayodaśe ..2..
विललाप महा बाहुर् भरतः शोक मूर्चितः । शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
विललाप महा-बाहुः भरतः शोक-मूर्चितः । शब्द-अपिहित-कण्ठः च शोधन-अर्थम् उपागतः ॥२॥
vilalāpa mahā-bāhuḥ bharataḥ śoka-mūrcitaḥ . śabda-apihita-kaṇṭhaḥ ca śodhana-artham upāgataḥ ..2..
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
चिता मूले पितुः वाक्यम् इदम् आह सु दुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२॥
citā mūle pituḥ vākyam idam āha su duhkhitaḥ . tāta yasmin niṣṛṣṭaḥ aham tvayā bhrātari rāghave ..2..
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया । यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्मि अहम् त्वया । यथा गतिः अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२॥
tasmin vanam pravrajite śūnye tyaktaḥ asmi aham tvayā . yathā gatiḥ anāthāyāḥ putraḥ pravrājitaḥ vanam ..2..
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म-अरुणम् तत् च दग्ध-अस्थि-स्थान-मण्डलम् ॥२॥
tām ambām tāta kausalyām tyaktvā tvam kva gataḥ nṛpa . dṛṣṭvā bhasma-aruṇam tat ca dagdha-asthi-sthāna-maṇḍalam ..2..
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
पितुः शरीर-निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२॥
pituḥ śarīra-nirvāṇam niṣṭanan viṣasāda ha . sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇī tale ..2..
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः । अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
उत्थाप्यमानः शक्रस्य यन्त्र च्युतः । अभिपेतुः ततस् सर्वे तस्य अमात्याः शुचि-व्रतम् ॥२॥
utthāpyamānaḥ śakrasya yantra cyutaḥ . abhipetuḥ tatas sarve tasya amātyāḥ śuci-vratam ..2..
अन्त काले निपतितम् ययातिम् ऋषयो यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
अन्त-काले निपतितम् ययातिम् ऋषयः यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक-परिप्लुतम् ॥२॥
anta-kāle nipatitam yayātim ṛṣayaḥ yathā . śatrughnaḥ ca api bharatam dṛṣṭvā śoka-pariplutam ..2..
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
विसम्ज्ञः न्यपतत् भूमौ भूमि-पालम् अनुस्मरन् । उन्मत्ता एव निश्चेताः विललाप सु दुह्खितः ॥२॥
visamjñaḥ nyapatat bhūmau bhūmi-pālam anusmaran . unmattā eva niścetāḥ vilalāpa su duhkhitaḥ ..2..
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा । मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
स्मृत्वा पितुः गुण-अन्गानि तनि तानि तदा तदा । मन्थरा-प्रभवः तीव्रः कैकेयी-ग्राह-सम्कुलः ॥२॥
smṛtvā pituḥ guṇa-angāni tani tāni tadā tadā . mantharā-prabhavaḥ tīvraḥ kaikeyī-grāha-samkulaḥ ..2..
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
वर-दान-मयः अक्षोभ्यः अमज्जयत् शोक-सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२॥
vara-dāna-mayaḥ akṣobhyaḥ amajjayat śoka-sāgaraḥ . sukumāram ca bālam ca satatam lālitam tvayā ..2..
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेषु आभरणेषु च ॥२॥
kva tāta bharatam hitvā vilapantam gataḥ bhavān . nanu bhojyeṣu pāneṣu vastreṣu ābharaṇeṣu ca ..2..
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति । अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
प्रवारयसि नः सर्वान् तत् नः कः अद्य करिष्यति । अवदारण-काले तु पृथिवी न अवदीर्यते ॥२॥
pravārayasi naḥ sarvān tat naḥ kaḥ adya kariṣyati . avadāraṇa-kāle tu pṛthivī na avadīryate ..2..
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
विहीना या त्वया राज्ञा धर्म-ज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२॥
vihīnā yā tvayā rājñā dharma-jñena mahātmanā . pitari svargam āpanne rāme ca araṇyam āśrite ..2..
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् । हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
किम् मे जीवित-सामर्थ्यम् प्रवेक्ष्यामि हुत-अशनम् । हीनः भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२॥
kim me jīvita-sāmarthyam pravekṣyāmi huta-aśanam . hīnaḥ bhrātrā ca pitrā ca śūnyām ikṣvāku pālitām ..2..
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपः-वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२॥
ayodhyām na pravekṣyāmi pravekṣyāmi tapaḥ-vanam . tayoḥ vilapitam śrutvā vyasanam ca anvavekṣya tat ..2..
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
भृशम् आर्ततराः भूयस् सर्वएव अनुगामिनः । ततस् विषण्णौ श्रान्तौ च शत्रुघ्न भरतौ उभौ ॥२॥
bhṛśam ārtatarāḥ bhūyas sarvaeva anugāminaḥ . tatas viṣaṇṇau śrāntau ca śatrughna bharatau ubhau ..2..
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ । ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
धरण्याम् सम्व्यचेष्टेताम् भग्न-शृन्गौ इव ऋषभौ । ततस् प्रकृतिमान् वैद्यः पितुः एषाम् पुरोहितः ॥२॥
dharaṇyām samvyaceṣṭetām bhagna-śṛngau iva ṛṣabhau . tatas prakṛtimān vaidyaḥ pituḥ eṣām purohitaḥ ..2..
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥
वसिष्ठः भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशः अयम् दिवसः पितुः वृत्तस्य ते विभो ॥२॥
vasiṣṭhaḥ bharatam vākyam utthāpya tam uvāca ha . trayodaśaḥ ayam divasaḥ pituḥ vṛttasya te vibho ..2..
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
स अवशेष-अस्थि-निचये किम् इह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२॥
sa avaśeṣa-asthi-nicaye kim iha tvam vilambase . trīṇi dvandvāni bhūteṣu pravṛttāni aviśeṣataḥ ..2..
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२॥
teṣu ca aparihāryeṣu na evam bhavitum arhati . sumantraḥ ca api śatrughnam utthāpya abhiprasādya ca ..2..
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ । उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
श्रावयाम् आस तत्त्वज्ञः सर्व-भूत-भव-अभवौ । उत्थितौ तौ नर-व्याघ्रौ प्रकाशेते यशस्विनौ ॥२॥
śrāvayām āsa tattvajñaḥ sarva-bhūta-bhava-abhavau . utthitau tau nara-vyāghrau prakāśete yaśasvinau ..2..
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव । अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
वर्ष-आतप-परिक्लिन्नौ पृथक् इन्द्र ध्वजौ इव । अश्रूणि परिमृद्नन्तौ रक्त-अक्षौ दीन-भाषिणौ ॥२॥
varṣa-ātapa-pariklinnau pṛthak indra dhvajau iva . aśrūṇi parimṛdnantau rakta-akṣau dīna-bhāṣiṇau ..2..
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।
amātyāḥ tvarayanti sma tanayau ca aparāḥ kriyāḥ .
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe saptasaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In