This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टम् सर्गः ॥२-४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टम् सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭam sargaḥ ..2..
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्।उवाचेदं ततो वाक्यं कोपदुःखसमन्विता॥ १॥
मन्थरा तु अभ्यसूय्य एनाम् उत्सृज्य आभरणम् हि तत्।उवाच इदम् ततस् वाक्यम् कोप-दुःख-समन्विता॥ १॥
mantharā tu abhyasūyya enām utsṛjya ābharaṇam hi tat.uvāca idam tatas vākyam kopa-duḥkha-samanvitā.. 1..
हर्षं किमर्थमस्थाने कृतवत्यसि बालिशे।शोकसागरमध्यस्थं नात्मानमवबुध्यसे॥ २॥
हर्षम् किमर्थम् अस्थाने कृतवती असि बालिशे।शोक-सागर-मध्य-स्थम् न आत्मानम् अवबुध्यसे॥ २॥
harṣam kimartham asthāne kṛtavatī asi bāliśe.śoka-sāgara-madhya-stham na ātmānam avabudhyase.. 2..
मनसा प्रसहामि त्वां देवि दुःखार्दिता सती।यच्छोचितव्ये हृष्टासि प्राप्य त्वं व्यसनं महत्॥ ३॥
मनसा प्रसहामि त्वाम् देवि दुःख-अर्दिता सती।यत् शोचितव्ये हृष्टा असि प्राप्य त्वम् व्यसनम् महत्॥ ३॥
manasā prasahāmi tvām devi duḥkha-arditā satī.yat śocitavye hṛṣṭā asi prāpya tvam vyasanam mahat.. 3..
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्।अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्॥ ४॥
शोचामि दुर्मति-त्वम् ते का हि प्राज्ञा प्रहर्षयेत्।अरेः सपत्नी-पुत्रस्य वृद्धिम् मृत्योः इव आगताम्॥ ४॥
śocāmi durmati-tvam te kā hi prājñā praharṣayet.areḥ sapatnī-putrasya vṛddhim mṛtyoḥ iva āgatām.. 4..
भरतादेव रामस्य राज्यसाधारणाद् भयम्।तद् विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते॥ ५॥
भरतात् एव रामस्य राज्य-साधारणात् भयम्।तत् विचिन्त्य विषण्णा अस्मि भयम् भीतात् हि जायते॥ ५॥
bharatāt eva rāmasya rājya-sādhāraṇāt bhayam.tat vicintya viṣaṇṇā asmi bhayam bhītāt hi jāyate.. 5..
लक्ष्मणो हि महाबाहू रामं सर्वात्मना गतः।शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा॥ ६॥
लक्ष्मणः हि महा-बाहुः रामम् सर्व-आत्मना गतः।शत्रुघ्नः च अपि भरतम् काकुत्स्थम् लक्ष्मणः यथा॥ ६॥
lakṣmaṇaḥ hi mahā-bāhuḥ rāmam sarva-ātmanā gataḥ.śatrughnaḥ ca api bharatam kākutstham lakṣmaṇaḥ yathā.. 6..
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि।राज्यक्रमो विसृष्टस्तु तयोस्तावद्यवीयसोः॥ ७॥
प्रत्यासन्न-क्रमेण अपि भरतस्य एव भामिनि।राज्य-क्रमः विसृष्टः तु तयोः तावत् यवीयसोः॥ ७॥
pratyāsanna-krameṇa api bharatasya eva bhāmini.rājya-kramaḥ visṛṣṭaḥ tu tayoḥ tāvat yavīyasoḥ.. 7..
विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः।भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्॥ ८॥
विदुषः क्षत्र-चारित्रे प्राज्ञस्य प्राप्त-कारिणः।भयात् प्रवेपे रामस्य चिन्तयन्ती तव आत्मजम्॥ ८॥
viduṣaḥ kṣatra-cāritre prājñasya prāpta-kāriṇaḥ.bhayāt pravepe rāmasya cintayantī tava ātmajam.. 8..
सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः॥ ९॥
सुभगा किल कौसल्या यस्याः पुत्रः अभिषेक्ष्यते।यौवराज्येन महता श्वस् पुष्येण द्विजोत्तमैः॥ ९॥
subhagā kila kausalyā yasyāḥ putraḥ abhiṣekṣyate.yauvarājyena mahatā śvas puṣyeṇa dvijottamaiḥ.. 9..
प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम्।उपस्थास्यसि कौसल्यां दासीवत् त्वं कृताञ्जलिः॥ १०॥
प्राप्ताम् वसुमतीम् प्रीतिम् प्रतीताम् हत-विद्विषम्।उपस्थास्यसि कौसल्याम् दासी-वत् त्वम् कृताञ्जलिः॥ १०॥
prāptām vasumatīm prītim pratītām hata-vidviṣam.upasthāsyasi kausalyām dāsī-vat tvam kṛtāñjaliḥ.. 10..
एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि।पुत्रश्च तव रामस्य प्रेष्यत्वं हि गमिष्यति॥ ११॥
एवम् च त्वम् सह अस्माभिः तस्याः प्रेष्या भविष्यसि।पुत्रः च तव रामस्य प्रेष्य-त्वम् हि गमिष्यति॥ ११॥
evam ca tvam saha asmābhiḥ tasyāḥ preṣyā bhaviṣyasi.putraḥ ca tava rāmasya preṣya-tvam hi gamiṣyati.. 11..
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः।अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये॥ १२॥
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः।अप्रहृष्टाः भविष्यन्ति स्नुषाः ते भरत-क्षये॥ १२॥
hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ.aprahṛṣṭāḥ bhaviṣyanti snuṣāḥ te bharata-kṣaye.. 12..
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः।रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह॥ १३॥
ताम् दृष्ट्वा परम-प्रीताम् ब्रुवन्तीम् मन्थराम् ततस्।रामस्य एव गुणान् देवी कैकेयी प्रशशंस ह॥ १३॥
tām dṛṣṭvā parama-prītām bruvantīm mantharām tatas.rāmasya eva guṇān devī kaikeyī praśaśaṃsa ha.. 13..
धमर्ज्ञो गुणवान् दान्तः कृतज्ञः सत्यवान् शुचिः।रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति॥ १४॥
धमर्-ज्ञः गुणवान् दान्तः कृतज्ञः सत्यवान् शुचिः।रामः राज-सुतः ज्येष्ठः यौवराज्यम् अतस् अर्हति॥ १४॥
dhamar-jñaḥ guṇavān dāntaḥ kṛtajñaḥ satyavān śuciḥ.rāmaḥ rāja-sutaḥ jyeṣṭhaḥ yauvarājyam atas arhati.. 14..
भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत् पालयिष्यति।संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्॥ १५॥
भ्रातॄन् भृत्यान् च दीर्घ-आयुः पितृ-वत् पालयिष्यति।संतप्यसे कथम् कुब्जे श्रुत्वा राम-अभिषेचनम्॥ १५॥
bhrātṝn bhṛtyān ca dīrgha-āyuḥ pitṛ-vat pālayiṣyati.saṃtapyase katham kubje śrutvā rāma-abhiṣecanam.. 15..
भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम्।पितृपैतामहं राज्यमवाप्स्यति नरर्षभः॥ १६॥
भरतः च अपि रामस्य ध्रुवम् वर्ष-शतात् परम्।पितृपैतामहम् राज्यम् अवाप्स्यति नर-ऋषभः॥ १६॥
bharataḥ ca api rāmasya dhruvam varṣa-śatāt param.pitṛpaitāmaham rājyam avāpsyati nara-ṛṣabhaḥ.. 16..
सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे।भविष्यति च कल्याणे किमिदं परितप्यसे॥ १७॥
सा त्वम् अभ्युदये प्राप्ते दह्यमाना इव मन्थरे।भविष्यति च कल्याणे किम् इदम् परितप्यसे॥ १७॥
sā tvam abhyudaye prāpte dahyamānā iva manthare.bhaviṣyati ca kalyāṇe kim idam paritapyase.. 17..
यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः।कौसल्यातोऽतिरिक्तं च मम शुश्रूषते बहु॥ १८॥
यथा वै भरतः मान्यः तथा भूयस् अपि राघवः।कौसल्यातः अतिरिक्तम् च मम शुश्रूषते बहु॥ १८॥
yathā vai bharataḥ mānyaḥ tathā bhūyas api rāghavaḥ.kausalyātaḥ atiriktam ca mama śuśrūṣate bahu.. 18..
राज्यं यदि हि रामस्य भरतस्यापि तत् तदा।मन्यते हि यथाऽऽत्मानं यथा भ्रातॄंस्तु राघवः॥ १९॥
राज्यम् यदि हि रामस्य भरतस्य अपि तत् तदा।मन्यते हि यथा आत्मानम् यथा भ्रातॄन् तु राघवः॥ १९॥
rājyam yadi hi rāmasya bharatasya api tat tadā.manyate hi yathā ātmānam yathā bhrātṝn tu rāghavaḥ.. 19..
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता।दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्॥ २०॥
कैकेय्याः वचनम् श्रुत्वा मन्थरा भृश-दुःखिता।दीर्घम् उष्णम् विनिःश्वस्य कैकेयीम् इदम् अब्रवीत्॥ २०॥
kaikeyyāḥ vacanam śrutvā mantharā bhṛśa-duḥkhitā.dīrgham uṣṇam viniḥśvasya kaikeyīm idam abravīt.. 20..
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे।शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे॥ २१॥
अनर्थ-दर्शिनी मौर्ख्यात् न आत्मानम् अवबुध्यसे।शोक-व्यसन-विस्तीर्णे मज्जन्ती दुःख-सागरे॥ २१॥
anartha-darśinī maurkhyāt na ātmānam avabudhyase.śoka-vyasana-vistīrṇe majjantī duḥkha-sāgare.. 21..
भविता राघवो राजा राघवस्य च यः सुतः।राजवंशात्तु भरतः कैकेयि परिहास्यते॥ २२॥
भविता राघवः राजा राघवस्य च यः सुतः।राज-वंशात् तु भरतः कैकेयि परिहास्यते॥ २२॥
bhavitā rāghavaḥ rājā rāghavasya ca yaḥ sutaḥ.rāja-vaṃśāt tu bharataḥ kaikeyi parihāsyate.. 22..
नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि।स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्॥ २३॥
नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि।स्थाप्यमानेषु सर्वेषु सु महान् अनयः भवेत्॥ २३॥
nahi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini.sthāpyamāneṣu sarveṣu su mahān anayaḥ bhavet.. 23..
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः।स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि॥ २४॥
तस्मात् ज्येष्ठे हि कैकेयि राज्य-तन्त्राणि पार्थिवाः।स्थापयन्ति अनवद्याङ्गि गुणवत्सु इतरेषु अपि॥ २४॥
tasmāt jyeṣṭhe hi kaikeyi rājya-tantrāṇi pārthivāḥ.sthāpayanti anavadyāṅgi guṇavatsu itareṣu api.. 24..
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति।अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले॥ २५॥
असौ अत्यन्त-निर्भग्नः तव पुत्रः भविष्यति।अनाथ-वत् सुखेभ्यः च राज-वंशात् च वत्सले॥ २५॥
asau atyanta-nirbhagnaḥ tava putraḥ bhaviṣyati.anātha-vat sukhebhyaḥ ca rāja-vaṃśāt ca vatsale.. 25..
साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुद्ध्यसे।सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमर्हसि॥ २६॥
सा अहम् त्वद्-अर्थे सम्प्राप्ता त्वम् तु माम् न अवबुद्ध्यसे।सपत्नि-वृद्धौ या मे त्वम् प्रदेयम् दातुम् अर्हसि॥ २६॥
sā aham tvad-arthe samprāptā tvam tu mām na avabuddhyase.sapatni-vṛddhau yā me tvam pradeyam dātum arhasi.. 26..
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्।देशान्तरं नाययिता लोकान्तरमथापि वा॥ २७॥
ध्रुवम् तु भरतम् रामः प्राप्य राज्यम् अकण्टकम्।देश-अन्तरम् नाययिता लोक-अन्तरम् अथ अपि वा॥ २७॥
dhruvam tu bharatam rāmaḥ prāpya rājyam akaṇṭakam.deśa-antaram nāyayitā loka-antaram atha api vā.. 27..
बाल एव तु मातुल्यं भरतो नायितस्त्वया।संनिकर्षाच्च सौहार्दं जायते स्थावरेष्विव॥ २८॥
बालः एव तु मातुल्यम् भरतः नायितः त्वया।संनिकर्षात् च सौहार्दम् जायते स्थावरेषु इव॥ २८॥
bālaḥ eva tu mātulyam bharataḥ nāyitaḥ tvayā.saṃnikarṣāt ca sauhārdam jāyate sthāvareṣu iva.. 28..
भरतानुवशात् सोऽपि शत्रुघ्नस्तत्समं गतः।लक्ष्मणो हि यथा रामं तथायं भरतं गतः॥ २९॥
भरत-अनुवशात् सः अपि शत्रुघ्नः तद्-समम् गतः।लक्ष्मणः हि यथा रामम् तथा अयम् भरतम् गतः॥ २९॥
bharata-anuvaśāt saḥ api śatrughnaḥ tad-samam gataḥ.lakṣmaṇaḥ hi yathā rāmam tathā ayam bharatam gataḥ.. 29..
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीवनैः।संनिकर्षादिषीकाभिर्मोचितः परमाद् भयात्॥ ३०॥
श्रूयते हि द्रुमः कश्चिद् छेत्तव्यः वन-जीवनैः।संनिकर्षात् इषीकाभिः मोचितः परमात् भयात्॥ ३०॥
śrūyate hi drumaḥ kaścid chettavyaḥ vana-jīvanaiḥ.saṃnikarṣāt iṣīkābhiḥ mocitaḥ paramāt bhayāt.. 30..
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः।अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्॥ ३१॥
गोप्ता हि रामम् सौमित्रिः लक्ष्मणम् च अपि राघवः।अश्विनोः इव सौभ्रात्रम् तयोः लोकेषु विश्रुतम्॥ ३१॥
goptā hi rāmam saumitriḥ lakṣmaṇam ca api rāghavaḥ.aśvinoḥ iva saubhrātram tayoḥ lokeṣu viśrutam.. 31..
तस्मान्न लक्ष्मणे रामः पापं किंचित् करिष्यति।रामस्तु भरते पापं कुर्यादेव न संशयः॥ ३२॥
तस्मात् न लक्ष्मणे रामः पापम् किंचिद् करिष्यति।रामः तु भरते पापम् कुर्यात् एव न संशयः॥ ३२॥
tasmāt na lakṣmaṇe rāmaḥ pāpam kiṃcid kariṣyati.rāmaḥ tu bharate pāpam kuryāt eva na saṃśayaḥ.. 32..
तस्माद् राजगृहादेव वनं गच्छतु राघवः।एतद्धि रोचते मह्यं भृशं चापि हितं तव॥ ३३॥
तस्मात् राज-गृहात् एव वनम् गच्छतु राघवः।एतत् हि रोचते मह्यम् भृशम् च अपि हितम् तव॥ ३३॥
tasmāt rāja-gṛhāt eva vanam gacchatu rāghavaḥ.etat hi rocate mahyam bhṛśam ca api hitam tava.. 33..
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति।यदि चेद् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति॥ ३४॥
एवम् ते ज्ञाति-पक्षस्य श्रेयः च एव भविष्यति।यदि चेद् भरतः धर्मात् पित्र्यम् राज्यम् अवाप्स्यति॥ ३४॥
evam te jñāti-pakṣasya śreyaḥ ca eva bhaviṣyati.yadi ced bharataḥ dharmāt pitryam rājyam avāpsyati.. 34..
स ते सुखोचितो बालो रामस्य सहजो रिपुः।समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे॥ ३५॥
स ते सुख-उचितः बालः रामस्य सहजः रिपुः।समृद्ध-अर्थस्य नष्ट-अर्थः जीविष्यति कथम् वशे॥ ३५॥
sa te sukha-ucitaḥ bālaḥ rāmasya sahajaḥ ripuḥ.samṛddha-arthasya naṣṭa-arthaḥ jīviṣyati katham vaśe.. 35..
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्।प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि॥ ३६॥
अभिद्रुतम् इव अरण्ये सिंहेन गज-यूथपम्।प्रच्छाद्यमानम् रामेण भरतम् त्रातुम् अर्हसि॥ ३६॥
abhidrutam iva araṇye siṃhena gaja-yūthapam.pracchādyamānam rāmeṇa bharatam trātum arhasi.. 36..
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया।राममाता सपत्नी ते कथं वैरं न यापयेत्॥ ३७॥
दर्पात् निराकृता पूर्वम् त्वया सौभाग्यवत्-तया।राम-माता सपत्नी ते कथम् वैरम् न यापयेत्॥ ३७॥
darpāt nirākṛtā pūrvam tvayā saubhāgyavat-tayā.rāma-mātā sapatnī te katham vairam na yāpayet.. 37..
यदा च रामः पृथिवीमवाप्स्यते प्रभूतरत्नाकरशैलसंयुताम्।तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि॥ ३८॥
यदा च रामः पृथिवीम् अवाप्स्यते प्रभूत-रत्न-आकर-शैल-संयुताम्।तदा गमिष्यसि अशुभम् पराभवम् सह एव दीना भरतेन भामिनि॥ ३८॥
yadā ca rāmaḥ pṛthivīm avāpsyate prabhūta-ratna-ākara-śaila-saṃyutām.tadā gamiṣyasi aśubham parābhavam saha eva dīnā bharatena bhāmini.. 38..
यदा हि रामः पृथिवीमवाप्स्यते ध्रुवं प्रणष्टो भरतो भविष्यति।अतो हि संचिन्तय राज्यमात्मजे परस्य चैवास्य विवासकारणम्॥ ३९॥
यदा हि रामः पृथिवीम् अवाप्स्यते ध्रुवम् प्रणष्टः भरतः भविष्यति।अतस् हि संचिन्तय राज्यम् आत्मजे परस्य च एव अस्य विवास-कारणम्॥ ३९॥
yadā hi rāmaḥ pṛthivīm avāpsyate dhruvam praṇaṣṭaḥ bharataḥ bhaviṣyati.atas hi saṃcintaya rājyam ātmaje parasya ca eva asya vivāsa-kāraṇam.. 39..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टमः सर्गः ॥२-८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे अष्टमः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe aṣṭamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In