This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aśītitamaḥ sargaḥ ..2..
अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः । स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥
अथ भूमि-प्रदेशज्ञाः सूत्र-कर्म-विशारदाः । स्व-कर्म-अभिरताः शूराः खनकाः यन्त्रकाः तथा ॥२॥
atha bhūmi-pradeśajñāḥ sūtra-karma-viśāradāḥ . sva-karma-abhiratāḥ śūrāḥ khanakāḥ yantrakāḥ tathā ..2..
कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः । तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥
कर्म-अन्तिकाः स्थपतयः पुरुषाः यन्त्र-कोविदाः । तथा वर्धकयः च एव मार्गिणः वृक्ष-तक्षकाः ॥२॥
karma-antikāḥ sthapatayaḥ puruṣāḥ yantra-kovidāḥ . tathā vardhakayaḥ ca eva mārgiṇaḥ vṛkṣa-takṣakāḥ ..2..
कूप काराः सुधा कारा वम्श कर्म कृतः तथा । समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥
कूप-काराः सुधा-काराः वम्श-कर्म-कृतः तथा । समर्थाः ये च द्रष्टारः पुरतस् ते प्रतस्थिरे ॥२॥
kūpa-kārāḥ sudhā-kārāḥ vamśa-karma-kṛtaḥ tathā . samarthāḥ ye ca draṣṭāraḥ puratas te pratasthire ..2..
स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् । अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥
स तु हर्षात् तम् उद्देशम् जन-ओघः विपुलः प्रयान् । अशोभत महा-वेगः सागरस्य इव पर्वणि ॥२॥
sa tu harṣāt tam uddeśam jana-oghaḥ vipulaḥ prayān . aśobhata mahā-vegaḥ sāgarasya iva parvaṇi ..2..
ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः । करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥
ते स्व-वारम् समास्थाय वर्त्म-कर्माणि कोविदाः । करणैः विविध-उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२॥
te sva-vāram samāsthāya vartma-karmāṇi kovidāḥ . karaṇaiḥ vividha-upetaiḥ purastāt sampratasthire ..2..
लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च । जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥
लता-वल्लीः च च स्थाणून् अश्मनएव एव च । जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२॥
latā-vallīḥ ca ca sthāṇūn aśmanaeva eva ca . janāḥ te cakrire mārgam cindantaḥ vividhān drumān ..2..
अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् । केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥
अवृक्षेषु च देशेषु केचिद् वृक्षान् अरोपयन् । केचिद् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचिद् क्वचिद् ॥२॥
avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan . kecid kuṭhāraiaḥ ṭankaiḥ ca dātraiḥ cindan kvacid kvacid ..2..
अपरे वीरण स्तम्बान् बलिनो बलवत्तराः । विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥
अपरे स्तम्बान् बलिनः बलवत्तराः । विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततस् ॥२॥
apare stambān balinaḥ balavattarāḥ . vidhamanti sma durgāṇi sthalāni ca tatas tatas ..2..
अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् । निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥
अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् । निम्न-भागाम्स् तथा केचिद् समामः चक्रुः समन्ततः ॥२॥
apare apūrayan kūpān pāmsubhiḥ śvabhram āyatam . nimna-bhāgāms tathā kecid samāmaḥ cakruḥ samantataḥ ..2..
बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा । बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥
बबन्धुः बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुः तदा । बिभिदुः भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२॥
babandhuḥ bandhanīyāmaḥ ca kṣodyān samcukṣuduḥ tadā . bibhiduḥ bhedanīyāmaḥ ca tāms tān deśān narāḥ tadā ..2..
अचिरेण एव कालेन परिवाहान् बहु उदकान् । चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥
अचिरेण एव कालेन परिवाहान् बहु-उदकान् । चक्रुः बहु-विधे आकारान् सागर प्रतिमान् बहून् ॥२॥
acireṇa eva kālena parivāhān bahu-udakān . cakruḥ bahu-vidhe ākārān sāgara pratimān bahūn ..2..
निर्जलेषु च देशेषु खानयामासुरुत्तमान् । उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥
निर्जलेषु च देशेषु खानयामासुः उत्तमान् । उदपानान् बहुविधान् वेदिका-परिमण्डितान् ॥२॥
nirjaleṣu ca deśeṣu khānayāmāsuḥ uttamān . udapānān bahuvidhān vedikā-parimaṇḍitān ..2..
ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः । मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥
ससुधा-कुट्टिम-तलः प्रपुष्पित-मही-रुहः । मत्तः उद्घुष्ट द्विज गणः पताकाभिः अलम्कृतः ॥२॥
sasudhā-kuṭṭima-talaḥ prapuṣpita-mahī-ruhaḥ . mattaḥ udghuṣṭa dvija gaṇaḥ patākābhiḥ alamkṛtaḥ ..2..
चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः । बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥
चन्दन-उदक-सम्सिक्तः नाना कुसुम-भूषितः । बहु अशोभत सेनायाः पन्थाः स्वर्ग-पथः उपमः ॥२॥
candana-udaka-samsiktaḥ nānā kusuma-bhūṣitaḥ . bahu aśobhata senāyāḥ panthāḥ svarga-pathaḥ upamaḥ ..2..
आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः । रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥
आज्ञाप्य अथ यथा आज्ञप्ति-युक्ताः ते अधिकृता नराः । रमणीयेषु देशेषु बहु-स्वादु-फलेषु च ॥२॥
ājñāpya atha yathā ājñapti-yuktāḥ te adhikṛtā narāḥ . ramaṇīyeṣu deśeṣu bahu-svādu-phaleṣu ca ..2..
यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः । भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥
यः निवेशः तु अभिप्रेतः भरतस्य महात्मनः । भूयस् तम् शोभयाम् आसुः भूषाभिः भूषण-उपमम् ॥२॥
yaḥ niveśaḥ tu abhipretaḥ bharatasya mahātmanaḥ . bhūyas tam śobhayām āsuḥ bhūṣābhiḥ bhūṣaṇa-upamam ..2..
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः । निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्-विदः । निवेशम् स्थापयाम् आसुः भरतस्य महात्मनः ॥२॥
nakṣatreṣu praśasteṣu muhūrteṣu ca tad-vidaḥ . niveśam sthāpayām āsuḥ bharatasya mahātmanaḥ ..2..
बहु पाम्सु चयाः च अपि परिखा परिवारिताः । तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥
बहु-पाम्सु चयाः च अपि परिखा-परिवारिताः । तन्त्र-इन्द्र-कील-प्रतिमाः प्रतोली-वर-शोभिताः ॥२॥
bahu-pāmsu cayāḥ ca api parikhā-parivāritāḥ . tantra-indra-kīla-pratimāḥ pratolī-vara-śobhitāḥ ..2..
प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः । पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥
प्रासाद-माला-सम्युक्ताः सौध-प्राकार-सम्वृताः । पताका-शोभिताः सर्वे सुनिर्मित-महा-पथाः ॥२॥
prāsāda-mālā-samyuktāḥ saudha-prākāra-samvṛtāḥ . patākā-śobhitāḥ sarve sunirmita-mahā-pathāḥ ..2..
विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः । समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥
विसर्पत्भिः इव आकाशे विटन्क-अग्र-विमानकैः । समुच्च्रितैः निवेशाः ते बभुः शक्र-पुर-उपमाः ॥२॥
visarpatbhiḥ iva ākāśe viṭanka-agra-vimānakaiḥ . samuccritaiḥ niveśāḥ te babhuḥ śakra-pura-upamāḥ ..2..
जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् । शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥
जाह्नवीम् तु समासाद्य विविध-द्रुम-काननाम् । शीतल-अमल-पानीयाम् महा-मीन-समाकुलाम् ॥२॥
jāhnavīm tu samāsādya vividha-druma-kānanām . śītala-amala-pānīyām mahā-mīna-samākulām ..2..
सचन्द्र तारा गण मण्डितम् यथा । नभः क्षपायाम् अमलम् विराजते । नर इन्द्र मार्गः स तथा व्यराजत । क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥
सचन्द्र-तारा-गण-मण्डितम् यथा । नभः क्षपायाम् अमलम् विराजते । नर-इन्द्र-मार्गः स तथा व्यराजत । क्रमेण रम्यः शुभ-शिल्पि-निर्मितः ॥२॥
sacandra-tārā-gaṇa-maṇḍitam yathā . nabhaḥ kṣapāyām amalam virājate . nara-indra-mārgaḥ sa tathā vyarājata . krameṇa ramyaḥ śubha-śilpi-nirmitaḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe aśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In