This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकाशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekāśītitamaḥ sargaḥ ..2..
ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः । तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥
ततः नान्दी-मुखीम् रात्रिम् भरतम् सूत-मागधाः । तुष्टुवुः वाच्-विशेष-ज्ञाः स्तवैः मन्गल-सम्हितैः ॥२॥
tataḥ nāndī-mukhīm rātrim bharatam sūta-māgadhāḥ . tuṣṭuvuḥ vāc-viśeṣa-jñāḥ stavaiḥ mangala-samhitaiḥ ..2..
सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः । दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥
सुवर्ण-कोण-अभिहतः प्राणदत् याम-दुन्दुभिः । दध्मुः शन्खामः च शतशस् वाद्यामः च उच्च-अवच-स्वरान् ॥२॥
suvarṇa-koṇa-abhihataḥ prāṇadat yāma-dundubhiḥ . dadhmuḥ śankhāmaḥ ca śataśas vādyāmaḥ ca ucca-avaca-svarān ..2..
स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव । भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥
स तूर्य घोषः सु महान् दिवम् आपूरयन् इव । भरतम् शोक-सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२॥
sa tūrya ghoṣaḥ su mahān divam āpūrayan iva . bharatam śoka-samtaptam bhūyaḥ śokaiḥ arandhrayat ..2..
ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च । न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥
ततस् प्रबुद्धः भरतः तम् घोषम् सम्निवर्त्य च । न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२॥
tatas prabuddhaḥ bharataḥ tam ghoṣam samnivartya ca . na aham rājā iti ca api uktvā śatrughnam idam abravīt ..2..
पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥
पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथः गतः ॥२॥
paśya śatrughna kaikeyyā lokasya apakṛtam mahat . visṛjya mayi duhkhāni rājā daśarathaḥ gataḥ ..2..
तस्य एषा धर्म राजस्य धर्म मूला महात्मनः । परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥
तस्य एषा धर्म-राजस्य धर्म-मूला महात्मनः । परिभ्रमति राज श्रीः नौः इव अकर्णिका जले ॥२॥
tasya eṣā dharma-rājasya dharma-mūlā mahātmanaḥ . paribhramati rāja śrīḥ nauḥ iva akarṇikā jale ..2..
यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥
यः हि नः सु महान् नाथः सः अपि प्रव्राजितः वनम् । अनया धर्मम् उत्सृज्य मात्रा मे राघवः स्वयम् ॥२॥
yaḥ hi naḥ su mahān nāthaḥ saḥ api pravrājitaḥ vanam . anayā dharmam utsṛjya mātrā me rāghavaḥ svayam ..2..
इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥
इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२॥
iti evam bharatam prekṣya vilapantam vicetanam . kṛpaṇam ruruduḥ sarvāḥ sasvaram yoṣitaḥ tadā ..2..
तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् । सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥
तथा तस्मिन् विलपति वसिष्ठः राज धर्म-विद् । सभाम् इक्ष्वाकु-नाथस्य प्रविवेश महा-यशाः ॥२॥
tathā tasmin vilapati vasiṣṭhaḥ rāja dharma-vid . sabhām ikṣvāku-nāthasya praviveśa mahā-yaśāḥ ..2..
शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् । सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥
शात-कुम्भमयीम् रम्याम् मणि-रत्न-समाकुलाम् । सुधर्माम् इव धर्म-आत्मा स गणः प्रत्यपद्यत ॥२॥
śāta-kumbhamayīm ramyām maṇi-ratna-samākulām . sudharmām iva dharma-ātmā sa gaṇaḥ pratyapadyata ..2..
स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् । अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥
स कान्चनमयम् पीठम् पर-अर्ध्य-आस्तरण-आवृतम् । अध्यास्त सर्व वेद-ज्ञः दूतान् अनुशशास च ॥२॥
sa kāncanamayam pīṭham para-ardhya-āstaraṇa-āvṛtam . adhyāsta sarva veda-jñaḥ dūtān anuśaśāsa ca ..2..
ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥
ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण-बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२॥
brāhmaṇān kṣatriyān yodhān amātyān gaṇa-ballabhān . kṣipram ānayata avyagrāḥ kṛtyam ātyayikam hi naḥ ..2..
सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥
सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२॥
sarājabhṛtyam śatrughnam bharatam ca yaśsvinam . yudhājitam sumantram ca ye ca tatra hitā janāḥ ..2..
ततः हलहला शब्दो महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥
ततस् हलहला शब्दः महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२॥
tatas halahalā śabdaḥ mahān samudapadyata . rathaiḥ aśvaiḥ gajaiḥ ca api janānām upagaccatām ..2..
ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥
ततस् भरतम् आयान्तम् शत-क्रतुम् इव अमराः । प्रत्यनन्दन् प्रकृतयः यथा दशरथम् तथा ॥२॥
tatas bharatam āyāntam śata-kratum iva amarāḥ . pratyanandan prakṛtayaḥ yathā daśaratham tathā ..2..
ह्रदैव तिमि नाग सम्वृतः । स्तिमित जलो मणि शन्ख शर्करः । दशरथ सुत शोभिता सभा । सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥
तिमि-नाग-सम्वृतः । स्तिमित-जलः मणि-शन्ख-शर्करः । दशरथ-सुत-शोभिता सभा । स दशरथा इव बभौ यथा पुरा ॥२॥
timi-nāga-samvṛtaḥ . stimita-jalaḥ maṇi-śankha-śarkaraḥ . daśaratha-suta-śobhitā sabhā . sa daśarathā iva babhau yathā purā ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekāśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In