This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्व्यशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvyaśītitamaḥ sargaḥ ..2..
ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् । ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥
ताम् आर्य-गण-सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् । ददर्श बुद्धि-सम्पन्नः पूर्ण-चन्द्राम् निशाम् इव ॥२॥
tām ārya-gaṇa-sampūrṇām bharataḥ pragrahām sabhām . dadarśa buddhi-sampannaḥ pūrṇa-candrām niśām iva ..2..
आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा । अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥
आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा । अदृश्यत घन-अपाये पूर्ण-चन्द्रा इव शर्वरी ॥२॥
āsanāni yathā nyāyam āryāṇām viśatām tadā . adṛśyata ghana-apāye pūrṇa-candrā iva śarvarī ..2..
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥
सा विद्वस्-जन-सम्पूर्णा सभा सु रुचिरा तदा । अदृश्यत घन-अपाये पूर्ण-चन्द्रा इव शर्वरी ॥२॥
sā vidvas-jana-sampūrṇā sabhā su rucirā tadā . adṛśyata ghana-apāye pūrṇa-candrā iva śarvarī ..2..
राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥
राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२॥
rājñaḥ tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit . idam purohitaḥ vākyam bharatam mṛdu ca abravīt ..2..
तात राजा दशरथः स्वर् गतः धर्मम् आचरन् । धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥
तात राजा दशरथः स्वर् गतः धर्मम् आचरन् । धन-धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२॥
tāta rājā daśarathaḥ svar gataḥ dharmam ācaran . dhana-dhānyavatīm sphītām pradāya pṛthivīm tava ..2..
रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् । न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥
रामः तथा सत्य-धृतिः सताम् धर्मम् अनुस्मरन् । न अजहात् पितुः आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२॥
rāmaḥ tathā satya-dhṛtiḥ satām dharmam anusmaran . na ajahāt pituḥ ādeśam śaśī jyotsnām iva uditaḥ ..2..
पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् । तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥
पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत-कण्टकम् । तत् भुन्क्ष्व मुदित-अमात्यः क्षिप्रम् एव अभिषेचय ॥२॥
pitrā bhrātrā ca te dattam rājyam nihata-kaṇṭakam . tat bhunkṣva mudita-amātyaḥ kṣipram eva abhiṣecaya ..2..
उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः । कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥
उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः । कोट्या अपर-अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२॥
udīcyāḥ ca pratīcyāḥ ca dākṣiṇātyāḥ ca kevalāḥ . koṭyā apara-antāḥ sāmudrā ratnāni abhiharantu te ..2..
तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः । जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥
तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः । जगाम मनसा रामम् धर्म-ज्ञः धर्म कान्क्षया ॥२॥
tat śrutvā bharataḥ vākyam śokena abhipariplutaḥ . jagāma manasā rāmam dharma-jñaḥ dharma kānkṣayā ..2..
स बाष्प कलया वाचा कल हम्स स्वरः युवा । विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥
स बाष्प-कलया वाचा कल-हम्स-स्वरः युवा । विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२॥
sa bāṣpa-kalayā vācā kala-hamsa-svaraḥ yuvā . vilalāpa sabhā madhye jagarhe ca purohitam ..2..
चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः । धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥
चरित-ब्रह्मचर्यस्य विद्या-स्नातस्य धीमतः । धर्मे प्रयतमानस्य कः राज्यम् मद्विधः हरेत् ॥२॥
carita-brahmacaryasya vidyā-snātasya dhīmataḥ . dharme prayatamānasya kaḥ rājyam madvidhaḥ haret ..2..
कथम् दशरथाज् जातः भवेद् राज्य अपहारकः । राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥
कथम् दशरथात् जातः भवेत् राज्य-अपहारकः । राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२॥
katham daśarathāt jātaḥ bhavet rājya-apahārakaḥ . rājyam ca aham ca rāmasya dharmam vaktum iha arhasi ..2..
ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः । लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥
ज्येष्ठः श्रेष्ठः च धर्म-आत्मा दिलीप-नहुष-उपमः । लब्धुम् अर्हति काकुत्स्थः राज्यम् दशरथः यथा ॥२॥
jyeṣṭhaḥ śreṣṭhaḥ ca dharma-ātmā dilīpa-nahuṣa-upamaḥ . labdhum arhati kākutsthaḥ rājyam daśarathaḥ yathā ..2..
अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि । इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥
अनार्य-जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि । इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल-पाम्सनः ॥२॥
anārya-juṣṭam asvargyam kuryām pāpam aham yadi . ikṣvākūṇām aham loke bhaveyam kula-pāmsanaḥ ..2..
यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये । इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥
यत् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये । इहस्थः वन-दुर्गस्थम् नमस्यामि कृत-अन्जलिः ॥२॥
yat hi mātrā kṛtam pāpam na aham tat abhirocaye . ihasthaḥ vana-durgastham namasyāmi kṛta-anjaliḥ ..2..
रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः । त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥
रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः । त्रयाणाम् अपि लोकानाम् राघवः राज्यम् अर्हति ॥२॥
rāmam eva anugaccāmi sa rājā dvipadām varaḥ . trayāṇām api lokānām rāghavaḥ rājyam arhati ..2..
तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः । हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥
तत् वाक्यम् धर्म-सम्युक्तम् श्रुत्वा सर्वे सभासदः । हर्षात् मुमुचुः अश्रूणि रामे निहित चेतसः ॥२॥
tat vākyam dharma-samyuktam śrutvā sarve sabhāsadaḥ . harṣāt mumucuḥ aśrūṇi rāme nihita cetasaḥ ..2..
यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् । वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥
यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् । वने तत्र एव वत्स्यामि यथा आर्यः लक्ष्मणः तथा ॥२॥
yadi tu āryam na śakṣyāmi vinivartayitum vanāt . vane tatra eva vatsyāmi yathā āryaḥ lakṣmaṇaḥ tathā ..2..
सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् । समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥
सर्व-उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् । समक्षम् आर्य-मिश्राणाम् साधूनाम् गुण-वर्तिनाम् ॥२॥
sarva-upāyam tu vartiṣye vinivartayitum balāt . samakṣam ārya-miśrāṇām sādhūnām guṇa-vartinām ..2..
विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः । प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥
विष्टि-कर्मान्तिकाः सर्वे मार्ग-शोधन-रक्षकाः । प्रस्थापिता मया पूर्वम् यात्रा अपि मम रोचते ॥२॥
viṣṭi-karmāntikāḥ sarve mārga-śodhana-rakṣakāḥ . prasthāpitā mayā pūrvam yātrā api mama rocate ..2..
एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः । समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥
एवम् उक्त्वा तु धर्म-आत्मा भरतः भ्रातृ-वत्सलः । समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र-कोविदम् ॥२॥
evam uktvā tu dharma-ātmā bharataḥ bhrātṛ-vatsalaḥ . samīpastham uvāca idam sumantram mantra-kovidam ..2..
तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् । यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥
तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् । यात्राम् आज्ञापय क्षिप्रम् बलम् च एव समानय ॥२॥
tūrṇam utthāya gacca tvam sumantra mama śāsanāt . yātrām ājñāpaya kṣipram balam ca eva samānaya ..2..
एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना । हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥
एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना । हृष्टः सः अदिशत् सर्वम् यथा सम्दिष्टम् इष्ट-वत् ॥२॥
evam uktaḥ sumantraḥ tu bharatena mahātmanā . hṛṣṭaḥ saḥ adiśat sarvam yathā samdiṣṭam iṣṭa-vat ..2..
ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च । श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥
ताः प्रहृष्टाः प्रकृतयः बल-अध्यक्षा बलस्य च । श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२॥
tāḥ prahṛṣṭāḥ prakṛtayaḥ bala-adhyakṣā balasya ca . śrutvā yātrām samājñaptām rāghavasya nivartane ..2..
ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे । यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥
ततः योध-अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे । यात्रा-गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२॥
tataḥ yodha-anganāḥ sarvā bhartṛṛn sarvān gṛhe gṛhe . yātrā-gamanam ājñāya tvarayanti sma harṣitāḥ ..2..
ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः । सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥
ते हयैः गो-रथैः शीघ्रैः स्यन्दनैः च मनः-जवैः । सह योधैः बल-अध्यक्षाः बलम् सर्वम् अचोदयन् ॥२॥
te hayaiḥ go-rathaiḥ śīghraiḥ syandanaiḥ ca manaḥ-javaiḥ . saha yodhaiḥ bala-adhyakṣāḥ balam sarvam acodayan ..2..
सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ । रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥
सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु-सम्निधौ । रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२॥
sajjam tu tat balam dṛṣṭvā bharataḥ guru-samnidhau . ratham me tvarayasva iti sumantram pārśvataḥ abravīt ..2..
भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः । रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥
भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः । रथम् गृहीत्वा प्रययौ युक्तम् परम-वाजिभिः ॥२॥
bharatasya tu tasya ājñām pratigṛhya praharṣitaḥ . ratham gṛhītvā prayayau yuktam parama-vājibhiḥ ..2..
स राघवः सत्य धृतिः प्रतापवान् । ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः । गुरुम् महा अरण्य गतम् यशस्विनम् । प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥
स राघवः सत्य-धृतिः प्रतापवान् । ब्रुवन् सुयुक्तम् दृढ-सत्य-विक्रमः । गुरुम् महा-अरण्य-गतम् यशस्विनम् । प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२॥
sa rāghavaḥ satya-dhṛtiḥ pratāpavān . bruvan suyuktam dṛḍha-satya-vikramaḥ . gurum mahā-araṇya-gatam yaśasvinam . prasādayiṣyan bharataḥ abravīt tadā ..2..
तूण समुत्थाय सुमन्त्र गच्च । बलस्य योगाय बल प्रधानान् । आनेतुम् इच्चामि हि तम् वनस्थम् । प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥
तूण समुत्थाय सु मन्त्र गच्च । बलस्य योगाय बल-प्रधानान् । आनेतुम् इच्चामि हि तम् वनस्थम् । प्रसाद्य रामम् जगतः हिताय ॥२॥
tūṇa samutthāya su mantra gacca . balasya yogāya bala-pradhānān . ānetum iccāmi hi tam vanastham . prasādya rāmam jagataḥ hitāya ..2..
स सूत पुत्रः भरतेन सम्यग् । आज्ञापितः सम्परिपूर्ण कामः । शशास सर्वान् प्रकृति प्रधानान् । बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥
स सूत-पुत्रः भरतेन सम्यग् । आज्ञापितः सम्परिपूर्ण-कामः । शशास सर्वान् प्रकृति-प्रधानान् । बलस्य मुख्यामः च सुहृज्-जनम् च ॥२॥
sa sūta-putraḥ bharatena samyag . ājñāpitaḥ samparipūrṇa-kāmaḥ . śaśāsa sarvān prakṛti-pradhānān . balasya mukhyāmaḥ ca suhṛj-janam ca ..2..
ततः समुत्थाय कुले कुले ते । राजन्य वैश्या वृषलाः च विप्राः । अयूयुजन्न् उष्ट्र रथान् खरामः च। नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥
ततस् समुत्थाय कुले कुले ते । राजन्य-वैश्या वृषलाः च विप्राः । अयूयुजन् उष्ट्र-रथान् खरामः च। नागान् हयामः च एव कुल-प्रसूतान् ॥२॥
tatas samutthāya kule kule te . rājanya-vaiśyā vṛṣalāḥ ca viprāḥ . ayūyujan uṣṭra-rathān kharāmaḥ ca. nāgān hayāmaḥ ca eva kula-prasūtān ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe dvyaśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In