This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुरशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe caturaśītitamaḥ sargaḥ ..2..
ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् । निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥
ततस् निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् । निषाद-राजः दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२॥
tatas niviṣṭām dhvajinīm gangām anvāśritām nadīm . niṣāda-rājaḥ dṛṣṭvā eva jñātīn samtvaritaḥ abravīt ..2..
महती इयम् अतः सेना सागर आभा प्रदृश्यते । न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥
महती इयम् अतस् सेना सागर-आभा प्रदृश्यते । न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२॥
mahatī iyam atas senā sāgara-ābhā pradṛśyate . na asya antam avagaccāmi manasā api vicintayan ..2..
यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः । स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥
यथा तु खलु दुर्भद्धिः भरतः स्वयम् आगतः । सः एष हि महा-कायः कोविदार-ध्वजः रथे ॥२॥
yathā tu khalu durbhaddhiḥ bharataḥ svayam āgataḥ . saḥ eṣa hi mahā-kāyaḥ kovidāra-dhvajaḥ rathe ..2..
बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति । अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
बन्धयिष्यति वा दाशान् अथ वै अस्मान् वधिष्यति । अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२॥
bandhayiṣyati vā dāśān atha vai asmān vadhiṣyati . atha dāśarathim rāmam pitrā rājyāt vivāsitam ..2..
सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥
सम्पन्नाम् श्रियम् अन्विच्चम् तस्य राज्ञः सु दुर्लभाम् । भरतः कैकेयी-पुत्रः हन्तुम् समधिगच्चति ॥२॥
sampannām śriyam anviccam tasya rājñaḥ su durlabhām . bharataḥ kaikeyī-putraḥ hantum samadhigaccati ..2..
भर्ता चैव सखा चैव रामः दाशरथिर् मम । तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥
भर्ता च एव सखा च एव रामः दाशरथिः मम । तस्य अर्थ-कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२॥
bhartā ca eva sakhā ca eva rāmaḥ dāśarathiḥ mama . tasya artha-kāmāḥ samnaddhā gangā anūpe atra tiṣṭhata ..2..
तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् । बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥
तिष्ठन्तु सर्व-दाशाः च गन्गाम् अन्वाश्रिता नदीम् । बल-युक्ता नदी-रक्षा-माम्स-मूल-फल-अशनाः ॥२॥
tiṣṭhantu sarva-dāśāḥ ca gangām anvāśritā nadīm . bala-yuktā nadī-rakṣā-māmsa-mūla-phala-aśanāḥ ..2..
नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् । सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥
नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् । सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२॥
nāvām śatānām pancānām kaivartānām śatam śatam . samnaddhānām tathā yūnām tiṣṭhantu atyabhyacodayat ..2..
यदा तुष्टः तु भरतः रामस्य इह भविष्यति । सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥
यदा तुष्टः तु भरतः रामस्य इह भविष्यति । सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२॥
yadā tuṣṭaḥ tu bharataḥ rāmasya iha bhaviṣyati . sā iyam svastimayī senā gangām adya tariṣyati ..2..
इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च । अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥
इति उक्त्वा उपायनम् गृह्य मत्स्य-माम्स-मधूनि च । अभिचक्राम भरतम् निषाद-अधिपतिः गुहः ॥२॥
iti uktvā upāyanam gṛhya matsya-māmsa-madhūni ca . abhicakrāma bharatam niṣāda-adhipatiḥ guhaḥ ..2..
तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् । भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥
तम् आयान्तम् तु सम्प्रेक्ष्य सूत-पुत्रः प्रतापवान् । भरताय आचचक्षे अथ विनय-ज्ञः विनीत-वत् ॥२॥
tam āyāntam tu samprekṣya sūta-putraḥ pratāpavān . bharatāya ācacakṣe atha vinaya-jñaḥ vinīta-vat ..2..
एष ज्ञाति सहस्रेण स्थपतिः परिवारितः । कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥
एष ज्ञाति-सहस्रेण स्थपतिः परिवारितः । कुशलः दण्डक अरण्ये वृद्धः भ्रातुः च ते सखा ॥२॥
eṣa jñāti-sahasreṇa sthapatiḥ parivāritaḥ . kuśalaḥ daṇḍaka araṇye vṛddhaḥ bhrātuḥ ca te sakhā ..2..
तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः । असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥
तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद-अधिपः गुहः । असम्शयम् विजानीते यत्र तौ राम-लक्ष्मणौ ॥२॥
tasmāt paśyatu kākutstha tvām niṣāda-adhipaḥ guhaḥ . asamśayam vijānīte yatra tau rāma-lakṣmaṇau ..2..
एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् । उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥
एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् । उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२॥
etat tu vacanam śrutvā sumantrāt bharataḥ śubham . uvāca vacanam śīghram guhaḥ paśyatu mām iti ..2..
लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥
लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतम् प्रह्वः गुहः वचनम् अब्रवीत् ॥२॥
labdhvā abhyanujñām samhṛṣṭaḥ jñātibhiḥ parivāritaḥ . āgamya bharatam prahvaḥ guhaḥ vacanam abravīt ..2..
निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् । निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥
निष्कुटः च एव देशः अयम् वन्चिताः च अपि ते वयम् । निवेदयामः ते सर्वे स्वके दाश-कुले वस ॥२॥
niṣkuṭaḥ ca eva deśaḥ ayam vancitāḥ ca api te vayam . nivedayāmaḥ te sarve svake dāśa-kule vasa ..2..
अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् । आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥
अस्ति मूलम् फलम् च एव निषादैः समुपाहृतम् । आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च-अवचम् महत् ॥२॥
asti mūlam phalam ca eva niṣādaiḥ samupāhṛtam . ārdram ca māmsam śuṣkam ca vanyam ca ucca-avacam mahat ..2..
आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् । अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥
आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् । अर्चितः विविधैः कामैः श्वस् स सैन्यः गमिष्यसि ॥२॥
āśamse svāśitā senā vatsyati imām vibhāvarīm . arcitaḥ vividhaiḥ kāmaiḥ śvas sa sainyaḥ gamiṣyasi ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe caturaśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In