This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चाशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcāśītitamaḥ sargaḥ ..2..
एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् । प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥
एवम् उक्तः तु भरतः निषाद-अधिपतिम् गुहम् । प्रत्युवाच महा-प्राज्ञः वाक्यम् हेतु-अर्थ-सम्हितम् ॥२॥
evam uktaḥ tu bharataḥ niṣāda-adhipatim guham . pratyuvāca mahā-prājñaḥ vākyam hetu-artha-samhitam ..2..
ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे । यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥
ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे । यः मे त्वम् ईदृशीम् सेनाम् एकः अभ्यर्चितुम् इच्चसि ॥२॥
ūrjitaḥ khalu te kāmaḥ kṛtaḥ mama guroh sakhe . yaḥ me tvam īdṛśīm senām ekaḥ abhyarcitum iccasi ..2..
इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् । अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥
इति उक्त्वा तु महा-तेजाः गुहम् वचनम् उत्तमम् । अब्रवीत् भरतः श्रीमान् निषाद-अधिपतिम् पुनर् ॥२॥
iti uktvā tu mahā-tejāḥ guham vacanam uttamam . abravīt bharataḥ śrīmān niṣāda-adhipatim punar ..2..
कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह । गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥
कतरेण गमिष्यामि भरद्वाज-आश्रमम् गुह । गहनः अयम् भृशम् देशः गन्गाः अनूपः दुरत्ययः ॥२॥
katareṇa gamiṣyāmi bharadvāja-āśramam guha . gahanaḥ ayam bhṛśam deśaḥ gangāḥ anūpaḥ duratyayaḥ ..2..
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥
तस्य तत् वचनम् श्रुत्वा राज-पुत्रस्य धीमतः । अब्रवीत् प्रान्जलिः वाक्यम् गुहः गहन गोचरः ॥२॥
tasya tat vacanam śrutvā rāja-putrasya dhīmataḥ . abravīt prānjaliḥ vākyam guhaḥ gahana gocaraḥ ..2..
दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः । अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥
दाशाः तु अनुगमिष्यन्ति धन्विनः सु समाहिताः । अहम् च अनुगमिष्यामि राज-पुत्र महा-यशः ॥२॥
dāśāḥ tu anugamiṣyanti dhanvinaḥ su samāhitāḥ . aham ca anugamiṣyāmi rāja-putra mahā-yaśaḥ ..2..
कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः । इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥
कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट-कर्मणः । इयम् ते महती सेना शन्काम् जनयति इव मे ॥२॥
kaccin na duṣṭaḥ vrajasi rāmasya akliṣṭa-karmaṇaḥ . iyam te mahatī senā śankām janayati iva me ..2..
तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः । भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥
तम् एवम् अभिभाषन्तम् आकाशा एव निर्मलः । भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२॥
tam evam abhibhāṣantam ākāśā eva nirmalaḥ . bharataḥ ślakṣṇayā vācā guham vacanam abravīt ..2..
मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥
मा भूत् स कालः यत् कष्टम् न माम् शन्कितुम् अर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृ-समः मम ॥२॥
mā bhūt sa kālaḥ yat kaṣṭam na mām śankitum arhasi . rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛ-samaḥ mama ..2..
तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् । बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥
तम् निवर्तयितुम् यामि काकुत्स्थम् वन-वासिनम् । बुद्धिः अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२॥
tam nivartayitum yāmi kākutstham vana-vāsinam . buddhiḥ anyā na te kāryā guha satyam bravīmi te ..2..
स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् । पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥
स तु सम्हृष्ट-वदनः श्रुत्वा भरत-भाषितम् । पुनर् एव अब्रवीत् वाक्यम् भरतम् प्रति हर्षितः ॥२॥
sa tu samhṛṣṭa-vadanaḥ śrutvā bharata-bhāṣitam . punar eva abravīt vākyam bharatam prati harṣitaḥ ..2..
धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले । अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥
धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती-तले । अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२॥
dhanyaḥ tvam na tvayā tulyam paśyāmi jagatī-tale . ayatnāt āgatam rājyam yaḥ tvam tyaktum iha iccasi ..2..
शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति । यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥
शाश्वती खलु ते कीर्तिः लोकान् अनुचरिष्यति । यः त्वम् कृच्च्र-गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२॥
śāśvatī khalu te kīrtiḥ lokān anucariṣyati . yaḥ tvam kṛccra-gatam rāmam pratyānayitum iccasi ..2..
एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा । बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥
एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा । बभौ नष्ट-प्रभः सूर्यः रजनी च अभ्यवर्तत ॥२॥
evam sambhāṣamāṇasya guhasya bharatam tadā . babhau naṣṭa-prabhaḥ sūryaḥ rajanī ca abhyavartata ..2..
सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः । शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥
सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः । शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२॥
samniveśya sa tām senām guhena paritoṣitaḥ . śatrughnena saha śrīmān śayanam punar āgamat ..2..
राम चिन्तामयः शोको भरतस्य महात्मनः । उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥
राम चिन्ता-मयः शोकः भरतस्य महात्मनः । उपस्थितः हि अनर्हस्य धर्म-प्रेक्षस्य तादृशः ॥२॥
rāma cintā-mayaḥ śokaḥ bharatasya mahātmanaḥ . upasthitaḥ hi anarhasya dharma-prekṣasya tādṛśaḥ ..2..
अन्तर् दाहेन दहनः सम्तापयति राघवम् । वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥
अन्तर् दाहेन दहनः सम्तापयति राघवम् । वन-दाह-अभिसम्तप्तम् गूढः अग्निः इव पादपम् ॥२॥
antar dāhena dahanaḥ samtāpayati rāghavam . vana-dāha-abhisamtaptam gūḍhaḥ agniḥ iva pādapam ..2..
प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः । यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥
प्रस्रुतः सर्व-गात्रेभ्यः स्वेदः शोक-अग्नि-सम्भवः । यथा सूर्य-अम्शु-सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२॥
prasrutaḥ sarva-gātrebhyaḥ svedaḥ śoka-agni-sambhavaḥ . yathā sūrya-amśu-samtaptaḥ himavān prasrutaḥ himam ..2..
ध्यान निर्दर शैलेन विनिह्श्वसित धातुना । दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥
ध्यान-निर्दर-शैलेन विनिह्श्वसित-धातुना । दैन्य-पादप-सम्घेन शोक-आयास-अधिशृन्गिणा ॥२॥
dhyāna-nirdara-śailena vinihśvasita-dhātunā . dainya-pādapa-samghena śoka-āyāsa-adhiśṛngiṇā ..2..
प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना । आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥
प्रमोह-अनन्त-सत्त्वेन सम्ताप-ओषधि-वेणुना । आक्रान्तः दुह्ख-शैलेन महता कैकयी-सुतः ॥२॥
pramoha-ananta-sattvena samtāpa-oṣadhi-veṇunā . ākrāntaḥ duhkha-śailena mahatā kaikayī-sutaḥ ..2..
विनिश्श्वसन्वै भृशदुर्मनास्ततः । प्रमूढसम्ज्ञः परमापदम् गतः । शमम् न लेभे हृदयज्वरार्दितो । नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥
विनिश्श्वसन् वै भृश-दुर्मनाः ततस् । प्रमूढ-सम्ज्ञः परम-आपदम् गतः । शमम् न लेभे हृदय-ज्वर-अर्दितः । नर-ऋषभः यूथ-हतः यथा ऋषभः ॥२॥
viniśśvasan vai bhṛśa-durmanāḥ tatas . pramūḍha-samjñaḥ parama-āpadam gataḥ . śamam na lebhe hṛdaya-jvara-arditaḥ . nara-ṛṣabhaḥ yūtha-hataḥ yathā ṛṣabhaḥ ..2..
गुहेन सार्धम् भरतः समागतः । महा अनुभावः सजनः समाहितः । सुदुर्मनाः तम् भरतम् तदा पुनर् । गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥
गुहेन सार्धम् भरतः समागतः । महा-अनुभावः सजनः समाहितः । सुदुर्मनाः तम् भरतम् तदा पुनर् । गुहः समाश्वासयत् अग्रजम् प्रति ॥२॥
guhena sārdham bharataḥ samāgataḥ . mahā-anubhāvaḥ sajanaḥ samāhitaḥ . sudurmanāḥ tam bharatam tadā punar . guhaḥ samāśvāsayat agrajam prati ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe pañcāśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In