This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षडशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaḍaśītitamaḥ sargaḥ ..2..
आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः । भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥
आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः । भरताय अप्रमेयाय गुहः गहन गोचरः ॥२॥
ācacakṣe atha sadbhāvam lakṣmaṇasya mahātmanaḥ . bharatāya aprameyāya guhaḥ gahana gocaraḥ ..2..
तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् । भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥
तम् जाग्रतम् गुणैः युक्तम् वर-चाप-इषु-धारिणम् । भ्रातृ-गुप्ति-अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२॥
tam jāgratam guṇaiḥ yuktam vara-cāpa-iṣu-dhāriṇam . bhrātṛ-gupti-artham atyantam aham lakṣmaṇam abravam ..2..
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥
इयम् तात सुखा शय्या त्वद्-अर्थम् उपकल्पिता । प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव-नन्दन ॥२॥
iyam tāta sukhā śayyā tvad-artham upakalpitā . pratyāśvasihi śeṣva asyām sukham rāghava-nandana ..2..
उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः । धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥
उचितः अयम् जनः सर्वे दुह्खानाम् त्वम् सुख-उचितः । धर्म-आत्ममः तस्य गुप्ति-अर्थम् जागरिष्यामहे वयम् ॥२॥
ucitaḥ ayam janaḥ sarve duhkhānām tvam sukha-ucitaḥ . dharma-ātmamaḥ tasya gupti-artham jāgariṣyāmahe vayam ..2..
न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन । मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन । मा उत्सुकः भूः ब्रवीमि एतत् अपि असत्यम् तव अग्रतस् ॥२॥
na hi rāmāt priyataraḥ mama asti bhuvi kaścana . mā utsukaḥ bhūḥ bravīmi etat api asatyam tava agratas ..2..
अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥
अस्य प्रसादात् आशम्से लोके अस्मिन् सु महत् यशः । धर्म-अवाप्तिम् च विपुलाम् अर्थ-अवाप्तिम् च केवलाम् ॥२॥
asya prasādāt āśamse loke asmin su mahat yaśaḥ . dharma-avāptim ca vipulām artha-avāptim ca kevalām ..2..
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥
सः अहम् प्रिय-सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुः पाणिः सर्वैः स्वैः ज्नातिभिः सह ॥२॥
saḥ aham priya-sakham rāmam śayānam saha sītayā . rakṣiṣyāmi dhanuḥ pāṇiḥ sarvaiḥ svaiḥ jnātibhiḥ saha ..2..
न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा । चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥
न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा । चतुर्-अन्गम् हि अपि बलम् प्रसहेम वयम् युधि ॥२॥
na hi me aviditam kimcid vane asmimaḥ carataḥ sadā . catur-angam hi api balam prasahema vayam yudhi ..2..
एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना । अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥
एवम् अस्माभिः उक्तेन लक्ष्मणेन महात्मना । अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२॥
evam asmābhiḥ uktena lakṣmaṇena mahātmanā . anunītā vayam sarve dharmam eva anupaśyatā ..2..
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२॥
katham dāśarathau bhūmau śayāne saha sītayā . śakyā nidrā mayā labdhum jīvitam vā sukhāni vā ..2..
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥
यः न देव-असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य गुह-सम्विष्टम् तृणेषु सह सीतया ॥२॥
yaḥ na deva-asuraiḥ sarvaiḥ śakyaḥ prasahitum yudhi . tam paśya guha-samviṣṭam tṛṇeṣu saha sītayā ..2..
महता तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥
महता तपसा लब्धः विविधैः च परिश्रमैः । एकः दशरथस्य एष पुत्रः सदृश-लक्षणः ॥२॥
mahatā tapasā labdhaḥ vividhaiḥ ca pariśramaiḥ . ekaḥ daśarathasya eṣa putraḥ sadṛśa-lakṣaṇaḥ ..2..
अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥
अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२॥
asmin pravrājite rājā na ciram vartayiṣyati . vidhavā medinī nūnam kṣipram eva bhaviṣyati ..2..
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥
विनद्य सुमहा-नादम् श्रमेण उपरताः स्त्रियः । निर्घोष-उपरतम् नूनम् अद्य राज-निवेशनम् ॥२॥
vinadya sumahā-nādam śrameṇa uparatāḥ striyaḥ . nirghoṣa-uparatam nūnam adya rāja-niveśanam ..2..
कौसल्या चैव राजा च तथा एव जननी मम । न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥
कौसल्या च एव राजा च तथा एव जननी मम । न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२॥
kausalyā ca eva rājā ca tathā eva jananī mama . na āśamse yadi te sarve jīveyuḥ śarvarīm imām ..2..
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥
जीवेत् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । दुह्खिता या तु कौसल्या वीरसूः विनशिष्यति ॥२॥
jīvet api hi me mātā śatrughnasya anvavekṣayā . duhkhitā yā tu kausalyā vīrasūḥ vinaśiṣyati ..2..
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥
अतिक्रान्तम् अतिक्रान्तम् अन् अवाप्य मनः रथम् । राज्ये रामम् अ निक्षिप्य पिता मे विनशिष्यति ॥२॥
atikrāntam atikrāntam an avāpya manaḥ ratham . rājye rāmam a nikṣipya pitā me vinaśiṣyati ..2..
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते । प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥
सिद्ध-अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते । प्रेत-कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२॥
siddha-arthāḥ pitaram vṛttam tasmin kāle hi upasthite . preta-kāryeṣu sarveṣu samskariṣyanti bhūmipam ..2..
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥
रम्य-चत्वर-सम्स्थानाम् सुविभक्त-महा-पथाम् । हर्म्य-प्रासाद-सम्पन्नाम् सर्व-रत्न-विभूषिताम् ॥२॥
ramya-catvara-samsthānām suvibhakta-mahā-pathām . harmya-prāsāda-sampannām sarva-ratna-vibhūṣitām ..2..
गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥
गज-अश्व-रथ-सम्बाधाम् तूर्य-नाद-विनादिताम् । सर्व-कल्याण-सम्पूर्णाम् हृष्ट-पुष्ट-जन-आकुलाम् ॥२॥
gaja-aśva-ratha-sambādhām tūrya-nāda-vināditām . sarva-kalyāṇa-sampūrṇām hṛṣṭa-puṣṭa-jana-ākulām ..2..
आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥
आराम-उद्यान-सम्पूर्णाम् समाज-उत्सव-शालिनीम् । सुखिताः विचरिष्यन्ति राज धानीम् पितुः मम ॥२॥
ārāma-udyāna-sampūrṇām samāja-utsava-śālinīm . sukhitāḥ vicariṣyanti rāja dhānīm pituḥ mama ..2..
अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् । निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥
अपि सत्य-प्रतिज्नेन सार्धम् कुशलिना वयम् । निवृत्ते समये हि अस्मिन् सुखिताः प्रविशेमहि ॥२॥
api satya-pratijnena sārdham kuśalinā vayam . nivṛtte samaye hi asmin sukhitāḥ praviśemahi ..2..
परिदेवयमानस्य तस्य एवम् सुमहात्मनः । तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥
परिदेवयमानस्य तस्य एवम् सु महात्मनः । तिष्ठतः राज-पुत्रस्य शर्वरी सा अत्यवर्तत ॥२॥
paridevayamānasya tasya evam su mahātmanaḥ . tiṣṭhataḥ rāja-putrasya śarvarī sā atyavartata ..2..
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ । अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥
प्रभाते विमले सूर्ये कारयित्वा जटाः उभौ । अस्मिन् भागीरथी-तीरे सुखम् सम्तारितौ मया ॥२॥
prabhāte vimale sūrye kārayitvā jaṭāḥ ubhau . asmin bhāgīrathī-tīre sukham samtāritau mayā ..2..
जटा धरौ तौ द्रुम चीर वाससौ । महा बलौ कुन्जर यूथप उपमौ । वर इषु चाप असि धरौ परम् तपौ । व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥
जटा-धरौ तौ द्रुम-चीर-वाससौ । महा-बलौ कुन्जर-यूथप-उपमौ । वर-इषु-चाप असि धरौ परम् तपौ । व्यवेक्षमाणौ सह सीतया गतौ ॥२॥
jaṭā-dharau tau druma-cīra-vāsasau . mahā-balau kunjara-yūthapa-upamau . vara-iṣu-cāpa asi dharau param tapau . vyavekṣamāṇau saha sītayā gatau ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षडशीतितमः सर्गः ॥२-८६॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे षडशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ṣaḍaśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In